Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 556
________________ अवयवप्रकरणम् । १४१ चास्तयेत्युपनयो यत्कृतकं तदनित्यं दृष्टं यथाऽऽकाशः, न चन तथा कृतकः शब्द इति, अत्रापि निषेधद्वययोगाद्विधिरेव गम्यते। ___ "ननु साध्यस्येत्यवाचकः सूत्रावयवः पक्षधोपसंहारो छुपनयो न साध्यो. पसंहारः, साध्यो हि धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार इति" । उच्यते-साध्यो धय॑व न धर्म इह विवक्षितः, तत्रायं हेतोरुपसंहा. रस्तथा च कृतकः शब्द इति, सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या साध्ये धर्मिणि हेतोरुपसंहार उपनय इति । "नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी । सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते ॥" नैतत्सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा । योगो विशेषचिन्तायां तस्य त्वाधारता भवेत् ॥ विशेषेऽन्तर्निगढे च प्रायः षष्ठी नियुज्यते । शेषो नामाविवौव कारकाणामिति स्थितिः॥ तथा च राज्ञः पुरुषो ब्राह्मणस्य कमण्डलुः। तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ।। अतश्च धर्माय जिज्ञाया धर्मजिज्ञासा सा हि तस्य ज्ञातुमिच्छेतिवत्सम्ब. न्धमात्रसमर्पिकाऽपि सेयं षष्ठी विशेषपर्यवसाना भविष्यतीति सूक्तं-'साध्य. स्योपसंहार" इति, उपनयाजीकारे आक्षेपः। "ननूपनयवचनमनर्थकं पचाहतुदृष्टान्तवचनैः किं न पर्याप्तं यदर्थमपन. यवचनमुचायते ? यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानं तदैष वृथैव श्रमः पक्षधर्मवचनेनैव कृतकत्वादित्येवमादिना सिद्धत्वात् , अथ साध्य. दृष्टान्वधर्मिणोः साध्यापादनाय तदुच्चारणं तदपि न चतुरस्रमुदाहरणसाध. या॑दित्यनेनैव गतार्थत्वात् , उदाहरणसाधर्म्यवचनं हि हेतुवचनमेव भवेत, अथ स्वप्रतिपत्तौ तदर्थदर्शनात्परं प्रति तद्वचनं तत्रापि परामर्शज्ञाने विवदन्ते, अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमिति उपजायते तत्क परस्मै तदुपदिश्यताम् , योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते सोऽपि स्वप्रक्रियानुरागनिर्मित एव न वस्तुबलप्रवृत्तः, तथा हि यद्य. कृतकं तत्तदनित्यं दृष्ट कृतकश्च शब्द इतीयतो वचनात्को नाम शब्दानित्यता नावगच्छेत् , वामे चात्र सत्यव्रतधनः प्रमाणं डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत्किमियताऽथ बुद्धचसे न वा, तस्मात्स्वप्रक्रियापक्षपातमपास्य पञ्चावयवमेवंक्रमकं वाक्यं प्रयुक्वेति” ।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656