Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
सिद्धान्तप्रकरणम् ।
१२४ हेतोस्त्वधिकरणसिद्धान्त कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वर्णितम् , न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतुहेत्वाश्रय" इति । .... उच्यते-उभयथाऽप्यदोषः हेतुरपि कचित्पक्षीभवति, पक्षो हि हेतुर्भवत्येव तत्र तावदाजम्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाऽवमृष्यते तत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ।
"कथं तहि तदाश्रया न्यायप्रवृत्तिः ?" उच्यते-हेतुरपि तदन्यतराभिन्न इव साध्यमानत्वात्पक्षीभवन्न्यायान्तराश्रयतां प्रतिपत्स्यतेऽपि वा पक्ष एव सर्वनाम्ना. ऽवमृष्यमाण भवत्वधिकरणसिद्धान्तः, स च स्पष्ट एव न्यायस्याश्रयः, स च सिद्धयै पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां भजते, तस्यो. दाहरणम्-'इन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादि'ति, अत्रे. न्द्रियव्यतिरिक्ते ज्ञातरि सिद्धयति तदनुषङ्गीण्यर्थान्तराण्यपि सिध्यन्ति नानेन्द्रियाणि नियतविषयाणि गुणव्यतिरिक्तं द्रव्यमित्येवमादीनि ।। अपरीक्षिताभ्युपगमात्तविशेषपरीक्षणमभ्युपगमसिद्धान्तः । (१११॥३१)
अत्रापरीक्षिताभ्युपगमोदिति यथाश्रुतपञ्चमीनिर्देशमनुरुध्यमानाः प्रमा. णमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति च सामान्यलक्षणमनुसरन्तः के. चिदेवं व्याचक्षते-धर्मिणः शब्दादेनित्यत्वविचारचर्चायामपरीक्षितस्यैवा. काशविशेषगुणत्वादिधर्मपरीक्षारहितस्यैवाभ्युपगमात् किं सिध्यति ? उच्यते-तद्विशेषपरीक्षणं तद्गतनित्यानित्यत्वपरीक्षणं हि सामान्येन धर्मिण्युपादी. यमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते सत्युपपद्यते, यदि पुनराकाशवि. शेषगुणत्वविशिष्टः शब्दो धर्मित्वेनोपादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवेदिति, एवमपि कृते यदि पुरो धर्मिणं विकल्पयेत्कीदृशस्य सतः शब्दस्य भ. वता नित्यत्वं साध्यते द्रव्यस्य गुणस्य वेति, स एवं विकल्पयन्नर्थान्तरगमनात्तावत्पराजित एव भवति, जितमप्येनं पुनर्जेतुं स्वबुद्धचतिशयचिख्यापविषया परबुद्धयवज्ञया च वादी ब्रवीति-'अस्तु द्रव्यं शब्द'-इति ।।
एतत्तु व्याख्यानं न बुद्धयामहे, एवं व्याचक्षाणानामेषामभ्युपगमसिद्धान्त इति को नु व्यवस्थित इति ? यदि तावदनित्यःशब्द इति, द्रव्यत्वगुणत्वादिवि. शेषरहितशब्दाख्यधर्मनिर्देशो यः प्रथममुपात्तः स एवाभ्युपगमसिद्धान्तस्तत्राभ्युपगमार्थः कीदृशः कश्च प्रतितन्त्रसिद्धान्तादस्य विशेष: ? अथास्तु द्रव्यं शब्दार्थ इति स्वबुद्धयतिशयाभिमानेन पश्चादभ्युपगम्यमानद्रव्यत्वविशिष्टशब्दनिर्देशोऽभ्युपगमसिद्धान्तस्तर्हि तत्र सूत्रमपरीक्षिताभ्युपगमादिति न यो. जितमन्यत्रैव तैः सूत्रार्थो नीत इति ।
.
Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656