________________
१०६
३. परोक्ष-प्रकाशः श्यामत्वं नास्ति तत्र तत्र मैत्रीतनयत्वं नास्ति' इति व्यतिरेकठ्याप्तेश्च सम्भारनिश्चितमापने मातादीननये पक्षे मायभूतश्यामत्वसन्देहस्य गुणत्वात्। सम्यमनुमान प्रसज्येदिति चेत्न; दृष्टान्तस्य विचारान्तरबाधितत्वात् ।
७०.तथा हि-साध्यत्वेनाभिमतमिदं हि श्यामवरूपं2 कार्य सत स्वसिद्धये कारणमपेक्षते। तच्च कारण न तावन्मैत्रीतनयत्वम्, विनाऽपि तदिदं पुरुषान्तरे' श्यामत्वदर्शनात् । न हि कुलालादिकामन्तरेण सम्भविन: पटस्य कुलालादिकं कारणम् । एवं' मैत्री. तनयत्वस्य श्यामत्वं प्रत्यकारणत्वे निश्चिते यत्र यत्र मंत्रीतनयत्वं नतत्र तत्र श्यामत्वम्, किन्तु यत्र तत्र श्यामत्वस्य कारणं विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्तत्र तत्र तस्य कार्य श्यामत्वम्, इति सिद्ध 'सामग्नीरूपस्य विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्य श्यामत्वं प्रति व्याप्यत्वम् । स तु पक्षे न
१ अतो गर्भस्थे श्यामत्वस्य सन्देही गौणः, स च न मैत्रीतनयत्वहेतोः समीचीनत्वे बाधकः । तथा च तत्समीचीनमेंवानुमानमिति शङ्कितुर्भावः । २ मैत्रीतनयत्वम् । ३ मैत्रीपुत्रभिन्नपुरुष । ४ ततो न मैत्रीतनयत्वमन्तरेण जायमानं श्यामत्वं प्रति मैत्रीतनपत्वं कारणमिति भाव: 1 ५ इत्थं च । ६ इमामत्वजनिका सामग्री, सा चा विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामः, तत्सत्त्वे एव श्यामत्वसत्त्वम्, लदभावे च तदभाव इति भाव: । ७ विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामः । ८ गर्भस्थे मैत्रीननये ।
- - -.म 'गोणत्या'। 2 इ मा म मु 'श्यामरूपं । 3 प्रा प मम कुनालचक्रादिकमन्तरेणापि' ।