Book Title: Niryavalikasutram Author(s): Chandrasuri, Publisher: Agamoday Samiti View full book textPage 6
________________ निरया॥२॥ विहरति । परिसा निग्गया। धम्मो कहिओ परिसा पडिगया। तेणं काले णं ते णं समए णं अज्जमुहम्मस्स अणगारस्स | अंतेवासी जंबू णाम अणगारे समचउरंससंठाणसंठिए जाव संखित्तविउलतेयलेस्से अन्नमुहम्मस्स अणगारस्स अदूरसामंते उडूंजाणू | वयन् विहरति-आस्ते स्म । 'परिसा निग्गय त्ति परिषत्-श्रेणिकराजादिको लोकः निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थम् । धर्मश्रवणानन्तरं “जामेव दिसिं पाउब्भूआ तामेव दिसि पडिगय" त्ति यस्या दिशः सकाशात् प्रादुर्भूता-आगतेत्यर्थः तामेव दिशं प्रतिगता इति। तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बनामाऽनगारः काश्यपगोत्रेण । 'सत्तुस्सेहे' सप्तहस्तोच्छ्रयः, 'समचउरंससंठाणसंठिए' यावत्करणादिदं दृश्यं वज्जरिसहनारायसंघयणे कणगपुलगनिधसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलग' त्ति यः पुल को-लवः तस्य यो निकषः-कषपट्टरेखालक्षणः तथा 'पम्हेति' पद्मगर्भः तद्वत् यो गौरः स तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयः तत्प्रधानो यो निकषो-रेखा तस्य यत् पक्ष्म-बहलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः । तथा 'उग्गतवे' उग्रम्-अप्रधष्यं तपोड स्येति कृत्वा । 'तत्ततवे' तप्त-तापितं तपो येन स तप्ततपाः एवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति । तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु-हुताशन इव ज्वलत्तेजः कर्मवनदाहकत्वात् । 'उराले' उदार:-प्रधानः । 'धोरे' घोरः-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये । तथा 'घोरव्वए' घोराणि-अन्यैर्दुरनुचराणि व्रतानि यस्य स तथा। तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी । “संखित्तविउलतेयलेस्से" संक्षिप्ताशरीरान्तनिलीना विपुला-अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य "अदूरसामंते" ति दूरं-विप्रकर्षः सामन्तसमीपम्, उभयोरभावोऽदूरसामन्तं (तस्मिन्) नातिदुरे नातिसमीपे उचिते देशे स्थित इत्यर्थः । कथं ? 'उड्डेजाणू' For Personal & Private Use Only IAl॥२॥ JainEducAL S hainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 86