Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 5
________________ पंचहि अणगारसएहिंसद्धिं संपरिबुडे पुव्वाणुपुविचरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उगह ओगिन्हित्ता संजमेणं जाव द्रव्यतोऽल्पोपधित्वं भावतो गौरवप्रयत्यागः एभिः संपन्नो यः स तथा। "ओयंसी" ओजो-मानसोऽवष्टम्भः तद्वान् ओजस्वी, तेजः-शरीरप्रभा तहान तेजस्वी, बचो-वचनं सौभाग्याधुपेतं यस्यास्तीति वचस्वी, “ जसंसी" यशस्वी ख्यातिमान, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृत्वात् । “जियकोहमाणमायालोभे" नवरं क्रोधादिजयः उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः। 'जीवियासामरणभयविप्पमुक्के' जीवितस्य-प्राणधारणस्य आशा-वाम्छा मरणाच्च यद्भय ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः । 'तबप्पहाणे' तपसा प्रधान:-उत्तमः शेषमुनिजनापेक्षया तपोवा प्रधान यस्य स तपःप्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणाः-संयमगुणाः । 'करणचरणप्पहाणे' चारित्रप्रधानः। 'निग्गहप्पहाणे' निग्रहो-अनाचारप्रवृत्तेनिषेधनम् । घोरबंभचेरवासी' घोरं च तत् ब्रह्मचर्य च अल्पसरवैर्दुःखेन यदनुचर्यते तस्मिन् घोरब्रह्मचर्यवासी । 'उच्छूढसरीरे' 'उच्छुढे' ति उज्झितमिव उज्झितं शरीरं तत्सत्कार प्रति निःस्पृहत्वात् (येन) स तथा । 'चोद्दसपुव्वी चउनाणीवगए' चतुर्ज्ञानोपयोगतः-केवलवर्जज्ञानयुक्तः । केसि(शि)गणधरी मतिश्रुतावधिज्ञानत्रयोपेत इति | दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्ध-सह संपरिवृतः समन्तात्परिकलित: पूर्वानुपूर्व्या न पश्चानुपूा चेत्यर्थ: क्रमेणेति हृदयं, चरन-संचरन् । एतदेवाह-"गामाणुगाम दुइज्जमाणे" त्ति ग्रामानुग्रामश्च विवक्षितग्रामादनन्तरग्रामो ग्रामानुग्राम तत् द्रवन-गच्छन्-एकस्मादू ग्रामादनन्तरग्राममनुलडुन्यन्नित्यर्थः, अनेनाप्रतिबद्धं विहारमाह । तत्राप्यौत्सुक्याभाषमाह-'सुहंसुहेणं विहरमाणे' सुखसुखेन-शरीरखेदाभावेन संयमाऽऽबाधाभावेन च विहरन् ग्रामादिषु वा तिष्ठन् । 'जेणेव' ति यस्मिन्नेव देशे राजगृहं नगर यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागच्छति, उपागत्य यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम्-आवासम् अवगृह्य-अनुज्ञापनापूर्वक गृहीत्वा संयमेन तपसा चात्मानं भा For Personal & Private Use Only Jain Education n ational www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 86