Book Title: Niryavalikasutram Author(s): Chandrasuri, Publisher: Agamoday Samiti View full book textPage 4
________________ बलिका. निरया- ॥१॥ (उत्तरपुरिच्छिमे दिसीभाए) गुणसिलए, चेइए, वन्नउ, असोमवरपायवे पुढविसिलापट्टए ते णं काले णं ते णं समए ण समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम अणगारे जातिसंपन्ने जहा केसि जाव याताः सन्तो यस्मिन् तत् प्रमुदितजनजानपदम् । “उत्ताणनयणपेच्छणिज्ज" सौभाग्यातिशयात् उत्तानैः अनिमिषैः नयने:लोचनैः प्रेक्षणीयं यत्तत्तथा । “पासाइयं' चित्तप्रसत्तिकारि। “दरिसणिज्ज" यत् पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवं' मनोज्ञरूपम् । “पडिरूवं" द्रष्टारं द्रष्टारं प्रति रूपं यस्य तत्तथेति। तस्मिन् “ उत्तरपुरिच्छिमे दिसीभाए गुणसिलए नाम चेहए होत्था" चैत्य-व्यन्तरायतनम् 'चन्नओ' त्ति चैत्यवर्णको वाच्यः-"चिराईए पुव्वपुरिसपन्नत्ते" चिरः-चिरकालः आदि:निवेशो यस्य तत् चिरादिकम् अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम्। “सच्छत्ते सज्झए सघंटे सपडागे कयवेयद्दीए" कृतवितर्दिक-रचितवेदिकं "लाउल्लोइयमहिए" लाइयं-यद्भुमेश्छगणादिना उपलेपनम् , उल्लोइय-कुडचमालानां सेटिकादिभिः संमृष्टीकरण, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथेति । तत्र च गुणशिलकचैत्ये अशोकवरपादपः समस्ति, "तस्स णं हेट्ठा खंधासने, एत्थ महं एगे पुढविसिलापट्टए पन्नत्ते, विक्खंभायामसुप्पमाणे आईणगरूयबूरनवणीयतूलफासे” आजिनक-चर्ममयं वस्त्रं, रूत-प्रतीतं, बरो-बनस्पतिविशेषः, नवनीत-म्रक्षणं, तूलम्-अर्कतूलं, तद्वत् स्पशों यस्य स तथा, कोऽर्थः ? कोमलस्पर्शयुक्तः। 'पासाईए जाव पडिसवे' त्ति । तेणं काले ण' इत्यादि, 'जाइसंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यात् इति नास्योत्कर्षः कश्चि. दुक्तो भवेत्, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति । एवं "कुलसंपन्ने,” नवरं कुलं-पैतृकः पक्षः। “बलसंपन्ने" बलं-संहननविशेषसमुत्थः प्राणः । 'जहा केसित्ति केसि (शि) वर्णको वाच्यः, सच “विणयसंपन्ने" लाघवं वाच्यविशेष० इति वा पाठः Jain Educati onal For Personal & Private Use Only nelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 86