Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ नाम स कदाऽपि कुत्राऽप्युन्नतमस्तकः सन् स्थातुमलं भवति । एतदेव पारतव्यं नाम । कस्या अपि संस्कृतेः कस्याऽपि दर्शनस्याऽध्ययनं भारतीयसंस्कृतौ न | निषिद्धम् । न तादृशी तुच्छा हीना वैषा संस्कृतिः । केवलं स्वकीयं स्वत्त्वं सम्माऱ्या स्थिरीकृत्य चाऽध्येतव्यम् । अध्ययनं ज्ञानसम्पादनाय न त्वाचारपरिवर्तनाय । आचारे परिवर्तनमेव नाशः संस्कृतेः । ___ अन्यं विनाश्य स्वस्थितिं या सम्पादयति सा संस्कृतिरेव न भवति सा तु विकृतिरेव । संस्कृतिं मुक्त्वाऽस्माभिर्विकृतिरङ्गीकूताऽस्ति - इत्यस्य तात्पर्यं| तु नैतद् यत् पाश्चात्यसंस्कृतौ किमपि शोभनं नास्त्येव । अस्त्येव तत्राऽपि किञ्चित् शोभनं किन्तु यत्किमपि तत्र शोभनमस्ति तत् सर्वमस्ति भारतीयदर्शने । तस्य मूलं विद्यतेऽत्र । ____ सम्माननार्हा यद्यपि सर्वे किन्तु पूजार्हास्तु स्वपितर एव । एवं प्रधर्मोऽध्येतव्यः सम्माननीयश्चाऽपि किन्त्वाचरितव्यस्तु स्वधर्म एव । अन्यथाकरणे बहु सोढव्यं भवति, यच्च वयमनुभवाम एव । बढ्यो विकृतयः प्रविष्टा जाताः । अनेके प्रश्ना अप्यद्योपस्थिता जाताः । वयं तान् समाधातुं प्रयत्नवन्तो यद्यपि स्मः किन्तु तेषां समाधानं निराकरणं च स्वधर्माचरण एवाऽस्ति । तदेव च सौख्याय हिताय च भविष्यति । मृगशिरकृष्णदशमी (श्रीपार्श्वनाथजन्मकल्याणकम्) अहमदावादः कीर्तित्रयी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 114