Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 14
________________ १२-१६] पाठकश्रीजयसोमविरचित शासनप्रभावकश्रीकर्मचन्द्रमत्रिराजस्य वंशावली वर्णनीयेति । तेषामुपदेशेन श्रीमन्त्रिश्रीकर्मचन्द्रस्य वंशश्रेणी यथाश्रुतं-श्रुतं श्रवणं तत्परम्परावेत्तृमुखात्तदनतिक्रम्य यथाश्रुतं वर्णयामि गुणवचनैर्विस्तारयामि । 'वर्णण वर्णक्रियाविस्तारगुणवचनेषु ।' वर्णक्रियावर्णनं वर्णकरणं वा । कथं वर्णयति कविः ? सुवर्ण वर्णयति । विस्तारे वर्णनेयं गुणवचनस्तुतिः । शुक्लायुक्तिवा राजानमुपवर्णयतीति क्रियारत्नसमुच्चये। किंविशिष्टस्य ? चतुर्वर्णवर्णनीययशस्ततेः चत्वारो वर्णा ब्राह्मण-क्षत्रिय-वैश्य-शूद्रास्तैपर्णनीया स्तवनीया यशस्ततिः कीर्तिवृन्दं यस्य तथा तस्य । उक्तं च 'यदि सन्ति गुणाः पुंसां विकसन्ति तदा स्वयम् । नहि कस्तूरिकामोदः शपथैः प्रतिपाद्यते ॥ ११ अथ कविवर्णयामीति खगर्व खर्वीकुर्वन्नेकाक्षरमहाविद्याप्रभावमुद्भावयति वाचस्पतिसमात्यन्तविशुद्धधिषणो जनः । वंशं वर्णयितुं यस्य व्यक्त्या शक्तो न यद्यपि ॥ १२ समासेन तथाऽप्यस्य वर्णना बिरुदान्विता। वितन्यते मया मायाबीजमन्त्रप्रभावतः॥१३ युग्मम् ।। व्याख्या-यस्य श्रीमन्त्रिराजस्य वंशमन्वयं वर्णयितुं स्तोतुं यद्यपि वाचस्पतिसमात्यन्तविशुद्धधिषणो वाचस्पतिबृहस्पतिस्तेन समा सदृशी अत्यन्तमतिशयेन विशुद्धा निर्दोषा जाग्रतीत्यर्थः, धिषणा बुद्धिर्यस्येति, एवंविधो जनो लोको व्यक्त्या विशेषेण पृथक्पृथग्गुणोद्भावनेन न शक्तो न क्षमः । तथाऽप्यस्य श्रीमत्रिराजवंशस्य समासेन संक्षेपेण बिरुदान्विता बिरुदः प्रसिद्धः प्रवादस्तेन सहिता वर्णना स्तवना मया ग्रन्थका मायाबीजमन्त्रप्रभावतो हाँकाररूपमन्त्रशक्तितो वितन्यते विस्तार्यते ।। इयमेकाक्षरमहाविद्याऽल्पाऽप्यनल्पफलदा । यदुक्तम् 'अमृतं कन्यासूत्रं चर्मच्छत्रादिचक्रिरत्नानि । वटबीजं बालेन्दुबालहरिस्तन्तुजन्तुश्च ।। जात्यमणिः सिद्धरसो रसाङ्गमेकाक्षरा महाविद्या । उपमा इमा हरिकृते सुकृतेऽल्पेऽनल्पतरफलदे ।।' इयमेव च श्रीजिनदत्तसूरेद्लविद्या । तथा च श्रीजिनदत्तसूरिपादैरुक्तम् - 'वर्णान्तः पार्श्वजिनो रेफस्तदधः स्थितः स धरणेन्द्रः । तुर्यः स्वरः सबिन्दुः स भवेत्पद्मावतीसंज्ञा ॥ त्रिभुवनजनमोहकरी विद्येयं प्रणवपूर्वकनमोन्ता । एकाक्षरेति संज्ञा जपतः फलदायिनी नित्यम् ॥ १३ भूयांसः सन्ति भूमीशा भूयांसः सन्ति मत्रिणः। श्रीजैनधर्ममाहात्म्यमनेनाधिकमेधितम् ॥ १४ तेन गीर्मामकीनाऽस्य वर्णनाय प्रगल्भते । कम्राम्रकलिकास्वादात् कोकिला किं न कूजति ? ॥१५ युग्मम् ।। व्याख्या- भूयांसो बहवो भूमीशा राजानः सन्ति विद्यन्ते । भूयांसो मनिणो घीसखाः सन्ति । परं श्रीजैनधर्ममाहात्म्यं श्रीजिनधर्ममहिमाऽनेन श्रीमन्त्रिराजेनाधिकमुञ्चरेधितं वृद्धि प्रापितम् । तत्तदाश्चर्यकारिकृत्यकरणेन श्रीजिनशासनोथोतो विदध इत्यर्थः। तेन हेतुना मामकीना मदीया गीर्वाणी, अस्य मन्त्रिराजस्य वर्णनाय स्तवनाय प्रगल्भत उत्सहते । एतदेव दृष्टान्तद्वारेण दृढयन्नाह-कोकिला पिकी कम्रा रुचिरा याऽऽम्रकलिका सहकारकोरकस्तस्या आखादाद भक्षणातू किं न कजति न विरौति ! अपि त्वाम्रकलिकाखादेन कोकिला मधुरं नदत्येव । एवं मन्त्रिराजगुणान् श्रुत्वा मदीयाऽपि वाणी । तद्गुणवर्णनायोत्कण्ठते ॥ १५ ननु कोऽस्य गुणवर्णनायां फलोदय इत्यत आह योग्यानो कीर्तनं येन पुण्यवृद्धिविधायकम् । तेन विघ्नावली नूनं बलादू विध्वंसमेष्यति ॥१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122