Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 43
________________ मत्रिकर्मचन्द्रवंशावलीप्रबन्ध । [ १९७-२०७ पद्मसिंहो वैरिसिंहो मेघराजसुतावुभौ । श्रीचन्द्रः पद्मसीसूनुर्वैरिसिंहसुताविमौ ॥ १९७ व्याख्या-पद्मसिंहो वैरिसिंह इमावुभौ द्वौ मेघराजसुतौ मेघराजपुत्रावास्तामध्याहियते । तथा पद्मसीसूनुः पासीपुत्रः श्रीचन्द्रः कुशाग्रीयमतिः, तथा वैरिसिंहसुताविमौ वक्ष्यमाणौ ॥ १९७ तावेवाह - सदारङ्गोऽथ कर्पूरो जोधाख्यो हरिराजसूः। सुतो भैरवदासोऽस्य रामो भोजस्य नन्दनः ॥ १९८ व्याख्या-सदारङ्गः, अथानन्तरं कर्पूरस्तथा हरिराजसूहरिराजपुत्रो जोधाख्यो जोधाभिधः, अस्य जोधस्य पुत्रो भैरवदासः, तथा भोजस्य भोजराजमन्त्रिणो, नन्दनः पुत्रो रामः ॥ १९८ सुता अमरसिंहस्य सीपा-सीहाभिधौ तथा । सीमाः सिंहराजोऽथ सिवराजोऽपि पश्चमः ॥ १९९ मन्त्रिसीपाङ्गजा एते अर्जुनः खीमसीस्तथा। पुनः सुरजनाभिख्यस्तुर्यो झाझणसीर्मतः ॥ २०० आद्यो जेसिंहदेसूनुर्जीवराजो द्वितीयकः। जगहत्थस्तृतीयोऽस्ति मनिसीहासुता अमी ॥ २०१ राघवदे-हमीराद्याः सीमामात्यसुतस्ततः। सद्राजमल्ल-रासाद्याः सिंहराजसुतात्रयः॥२०२ घडसी-जगमालाद्याः सिवराजसुताः पुनः। मश्रिङ्कङ्गरसीपुत्रो मन्त्री नरबदाभिधः ॥२०३ सुता नरबदस्यासन्नचलः प्रथमस्ततः। भारमल्लो लाखणसीमुख्याः षडपि धार्मिकाः ॥ २०४ स्पष्टार्थाः । नवरं षडपि धार्मिका:-धर्म चरन्ति धार्मिकाः। 'धर्म चरति' अस्माच्चरत्यर्थे ठगिति ठक् ॥१९९-२०४ अथ प्रतापशोभाभृजेतृसिंहेशसम्मतः। नगराजोऽभवन्मन्त्री मन्त्रकर्मसु कर्मठः ॥ २०५ व्याख्या-अथ वरसिंहमन्यनन्तरं नगराजो मध्यभवत् । किम्भूतः ? प्रतापस्तेजः शोभा लक्ष्मीस्ते बिभर्ति 5 धारयतीति प्रतापशोभाभृत् । तथा जेसिंहेशस्य जेतृसिंहप्रभोः सम्मतोऽभिमतो जेतृसिंहेशसम्मतः । तथा मन्त्रकर्मखालोचकार्येषु कर्मठः कर्मशूरोऽलब्धश्रम इत्यर्थः ।। २०५ शत्रुञ्जयोज्जयन्तादितीर्थेषु सुकृतार्थिना। कृता यात्रा कृतज्ञेन येन लम्भनिकायुता ॥ २०६ व्याख्या-येन श्रीनगराजेन, सुकृतं पुण्यमर्थयते याचत इत्येवंशीलः सुकृतार्थी, तेन सुकृतार्थिना, पुण्यार्थमित्यर्थः । ॥ शत्रुञ्जयोजयन्तादितीर्थेषु लम्भनिकायुता लम्भनिकायुक्ता यात्रा कृता। किम्भूतेन ? कृतमुपकारं जानातीति कृतज्ञस्तेन ॥२०६ मालदेवेऽन्यदा सेनासनाथे जङ्गलावनिम् ।। जिघृक्षति महामात्यं जेतृसिंहोऽवदत्तराम् ॥ २०७ व्याख्या- अन्यदाऽन्यस्मिन् काले, सेनासनाथे सैन्यसहिते मालदेवे नृपे, जङ्गलावनि जङ्गलदेशभूमिम् , जिघृक्षति ग्रहीतुमिच्छति सति, जेवृसिंहो नृपो महामात्यं महाधीसखं श्रीनगराजमवदत्तरामतिशयेनाब्रवीत् ॥ २०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122