Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 85
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [४८०-४८७ व्याख्या-साहसी साहसवान् , मन्त्री श्रीकर्मचन्द्रः, शोभनोपदा ढौकनं करे येषां ते सदपदाकरास्तैर्दीकनहस्तैः. विशिष्टैः प्रधानैर्नरैः पुरुषैर्वेष्टितः परिवृतः, सहायैः सेवकैरुत्साहित उद्यमितः सहायोत्साहितः, साहेमन्दिरं गृहं प्राप ॥४७९ श्रीजैनदर्शनोद्योतविधानकनिबन्धनम् । प्रतीतेरास्पदं साहे: शेषं अवलफइजलम् ॥ ४८० पुरस्कृत्य ससत्कारं श्रीसाहेः पुरतो दश । गजान द्वादशवाजीन्द्रान वासांसि विविधानि च ॥ ४८२ सहस्रदशकं राजद्राजतानां च तत्क्षणात् । सर्वसामाजिकाध्यक्ष प्राभृतीकृतवानिति ॥ ४८२ - त्रिभिर्विशेषकम् । व्याख्या -मन्त्री शेष अवलफइजलं पुरस्कृत्य अग्रे विधाय, ससत्कारं सत्कारसहितं यथा स्यात्तथा, तत्क्षणात् सधः, "सर्वे ये सामाजिकाः पार्षद्यास्तदध्यक्षं तत्प्रत्यक्षं सर्वसामाजिकाध्यक्षम्, श्रीसाहेः पुरतोऽय इति प्राभृतीकृतवान् उपदीचके । इतीति किम् ! दश गजान्, द्वादश वाजीन्द्रान्, चः समुच्चये, विविधानि नानाप्रकाराणि वस्त्राणि, तुक्कसेति ख्यातानि च पुनः, राजद्राजतानां शोभमानरौप्यनाणकानां सहस्रदशकं दश सहस्राणि, किंभूतं शेषम् ! श्रीजैनदर्शनस्य श्रीजिनधर्मस्य, उद्योतविधाने प्रभासन एकमद्वितीयं निबन्धनं कारणम् ; तथा साहेरकबरस्य प्रतीतेः प्रत्ययस्य आस्पदमाश्रयो विस्रम्मास्पदमित्यर्थः ।। ४८०-४८२ दृष्ट्वाऽथोत्सृष्टमुस्कृष्टं प्राभृतं प्रभुतावहम् । जलालदीर्जगी गाजीः किंनिमित्तमिदं वद ॥ ४८३ । - व्याख्या-अब ढौकनढौकनानन्तरम् , जलालदीर्गाजीरकबरा, प्रभुतावहमैश्चर्यधारकमुत्कृष्टं प्रधानं प्राभृतं गजाद्युपदामुत्सृष्टं दत्तं दृष्ट्वा, मन्त्रिणं जगौ प्रोवाच, हे मन्त्रिन् ! इदं प्राभृतं किंनिमित्तम् ! त्वं वद ब्रूहि ॥ ४८३ जिनचन्द्रगुरोरेवं गौरपाय प्रवर्तितः। युगप्रधाननानोऽयमुत्सवोऽद्येति मन्यवक् ॥ ४८४ व्याख्या-हे साहे। जिनचन्द्रगुरोर्गौरयाय बहुमानाय, युगप्रधाननानः श्रीसाहिदत्तयुगप्रधान इत्यभिधायाः अयमुत्सवः, अद्यैवममुना प्रकारेण, मया प्रवर्तित आरब्ध इति मन्यवगुवाच ॥ ४८४ युक्तमित्युक्तिपूर्व तत् प्रसादीकृतवानहो!। सचिवस्यैव भूजानिर्ग्रहीत्वा रौप्यमेककम् ॥ ४८५ अष्टमांशः सदाऽस्माकं विद्यते धर्मकर्मणाम् । तथा किमावयोर्दायं पृथग् यद्दातुमीहितम् ॥ ४८६ - युग्मम् । व्याख्या-हे मनिन् ! इदं युक्तं न्याय्यमित्युक्तिपूर्व कथनपुरस्सरम् , तौकनम् , भूजानिः श्रीसाहिस्तन्मध्य एककमेकं रौप्यं राजतं मङ्गलनिमित्तं गृहीत्वा, सचिवस्यैव मन्त्रिण एव, प्रसादीकृतवान् दत्तवानित्यर्थः। अहो इति विस्मये । विस्मयश्चेत्थम् - अन्येषामसौ साहिकितं वस्तु लोलुपत्वान्न प्रतिददौ । अस्मै पुनः सर्व प्रसादीकृतवानिति । हे मन्निन्! भवदुक्त्या सदा नित्यमस्माकं क्रियमाणानां धर्मकर्मणामष्टमोऽशो भागो विद्यते । तथा आवयोर्दाय धनं किं पृथग भिन्न विद्यते ? यद यस्माद्धेतोरेतत् त्वया दातुं वितरितुमीहितं वाञ्छितम् । दायशब्दो धनार्थः पुन्नपुंसके। यदुक्तं - 'खं दायौकखरे ॥४८५-४८६ ततः सामन्तचक्रस्य पुरस्तादस्तशात्रवः। प्रशशंस तकत्कृत्यं साहिरुत्साहशक्तिमान् ॥ ४८७ व्याख्या- ततोऽनन्तरम् , साहिः सामन्तानां त्रिचतुरदेशाधिपतीनाम् , यच्चक्रं वृन्दम् , तस्य पुरस्तादने, तकत् 3 तत्कृत्यमुपदालक्षणं प्रशशंस तुष्टाव । किंभूतः ? अस्ता दूरीकृताः शात्रवाः प्रतिपक्षा येन सोऽस्तशात्रवः । तथा उद्यम्य सहनमुत्साहशक्तिस्तद्वानुत्साहशक्तिमान् । तकदिति 'अव्ययसर्वनाम्नामक प्राक् टेः' इत्यकच् ॥ ४८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122