Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 90
________________ ५०७-५०९] पाठकश्रीजयसोमविरचित वसतिनिवासः प्रादुश्चक्रे यैश्चैत्यवासिनोऽपास्य । जातास्ततो जिनेश्वर गुरवो दुर्लभनृपतिसदसि ॥ ५०७ व्याख्या -यैः श्रीजिनेश्वरसूरिभिर्दुर्लभनृपतिसदसि दुर्लभराजसभायाम्, चैत्ये वस्तुं शीलं येषां ते चैत्यवासिनस्तान् अपास्य दूरीकृत्य, वसतिनिवासो गृहिवितीर्णस्त्रगृहोपाश्रयावस्थानम्, प्रादुश्चक्रे प्रकटीकृतः । ते जिनेश्वरगुरवस्ततो वर्धमानसूर्यनन्तरं जाताः । कथं चैत्यवासिनोऽपास्ताः कथं च वसतिवासः प्राकट्यतेति ? तत्प्रबन्धश्चाऽयम् 1 ततः क्रमेण श्रीवर्द्धमानसूरयः सरखतीपत्तने स्थिताः । तत्र जिनेश्वर - बुद्धिसागरौ सहोदरौ विप्रौ दीक्षितौ । तद्भगिनीकल्याणमतिश्च दीक्षिता । प्रस्तावे च पण्डितजिनेश्वरगणिना प्रोत्साहिताः श्रीवर्द्धमानसूरयः शकुननिमित्तादि परिभाव्य महासार्थसहिता आत्मनाऽष्टादशाः प्रस्थिताः क्रमेण प्राप्ता अणहिल्लपत्तने । उत्तीर्णा मण्डपिकायाम् । ततः पण्डितजिनेश्वरेण गुरुमनुज्ञाप्य नृपसत्कपुरोहितस्य गृहे अभ्यङ्गं कुर्वाणस्य - । ८१ 'श्रिये कृतनतानन्दा विशेषवृषसंस्थिताः । भवन्तु तव विप्रेन्द्र !, ब्रह्म श्रीधरशङ्कराः ॥' एष आशीर्वादः प्रददे । ततः पुरोधसा चिन्तितम् - अहो ! विचक्षणोऽयं व्रती कश्चित् । तदा च गृहैकदेशस्थान् छात्रान् वेदपाठं 'ॐ ऋषभं पवित्रं पुरुहूतमध्वरं यज्ञं महेशम्' इत्यादिरूपमन्यथाऽघीयानान् श्रुत्वा 'मैवं पठत भोः ! किन्त्वेव' मिति जिनेश्वरेणोक्ते, पुरोधाः – 'कथं शूद्रा वेदपठनानधिकारिणः शुद्धमशुद्धं वा जानन्ति ?' । जिनेश्वरेणोक्तम्- 'चतुर्वेदविदो वयं ब्राह्मणाः ।' ततो वर्द्धमानसूरयस्तद्गृहैकदेशे स्थिताः । साधवो द्विजगृहेषु विहरन्ति । उच्छलिता वार्ता । यदुत वसतिपाला यतयः समायाताः सन्ति । चैत्यवासिभिर्बालकान् प्रलोभ्य वार्ता उत्थापिता इमा: - यच्छ्रेताम्बररूपेण परराष्ट्रात् केचन 15 हेरिका आयाताः पुरोहितगृहे स्थिताः । ततो नृपात्रे पुरोधसा द्रम्मलक्षेण पणो मुक्तः । परं कोऽपि नोत्पाटयति । एवं चैक उपायो निष्फलो जातः । ततः पञ्श्चासरीयदेवगृहे दुर्लभराजनृप उपविष्टे वादार्थं सूराचार्यप्रमुखाश्चतुरशीतिराचार्या गब्दिका सूपविष्टास्ताम्बूलादिना नृपेण सत्कृताः । ततो वर्द्धमानसूरयो जिनेश्वरगणिप्रमुख कतिचिन्मुनिवृन्दारकयुतास्तत्र ययुः । ताम्बूले नृपेण दीयमाने भणितं जिनेश्वरेण - 'महाराज ! यतीनां न कल्पत एतत्' । उक्तं च स्मृतौ - ‘ब्रह्मचारियतीनां च विधवानां च योषिताम् । ताम्बूलभक्षणं विप्रा ! गोमांसादतिरिच्यते ॥ १ स्नानमुद्वर्तनाभ्यङ्गं नखकेशादिसंस्क्रियाम् । धूपं माल्यं च गन्धं च त्यजन्ति ब्रह्मचारिणः ॥ २ Jain Education International तत्पट्टे सम्भूताः श्रीजिनचन्द्रा विकाशिमुखचन्द्राः । संवेगरङ्गशालाप्रकरणकाराः सदाकाराः ॥ ५०८ म० क० वं० प्र० ११ एतच्छ्रुत्वा विपक्षा विच्छाया जाताः । ततश्चैत्यवासिसूराचार्येण चैत्यवासे स्थापिते सति, वसतिवासस्थापनाय पण्डितजिनेश्वरेण - 'अन्नत्थं पगडं लेणं इज्ज सयणासणं । उच्चारभूमिसंपन्नं इत्थीपसुविवज्जियं ॥' इति दशवैकालिकगाथया ते निर्जिताः । ततः श्रीवर्द्धमानसूरयः प्राप्तखरतरबिरुदा नृपप्रदत्तपौषधशालायां स्थिताः । इति द्वितीयोऽप्युपायो न फलितः । ततो राज्ञी तैर्विप्रतारिता । सोऽप्युपायो न फलितः । चैत्यानि वयं न पूजयिष्यामो यद्येते वसतिपाला अत्र स्थास्यन्ति । चतुर्थोऽप्युपायस्तेषां न फलितः । क्रमेण वर्द्धमानसूरिः श्रीजिनेश्वरसूरीन् खपदे निवेश्य स्वर्ग जग्मुः ॥ ५०७ व्याख्या – तेषां श्रीजिनेश्वरसूरीणां पट्टे श्रीजिनचन्द्राः सम्भूता जाताः । किम्भूताः ? विकाशते दीप्यत इत्येवंशीलो विकाशी दीपनशीलो मुखचन्द्रो येषां ते विकाशिमुखचन्द्राः । तथा संवेगरङ्गशालाप्रकरणमष्टादशसहस्रप्रमाणं कुर्वन्तीति संवेगरङ्गशालाप्रकरणकाराः । तथा सन् शोभन आकार आकृतिर्येषां ते सदाकाराः ॥ ५०८ यैरभिनवा नवाङ्गीविवृतिर्विदधे विशुद्धधीनिधिभिः । शासनसुरीप्रसादादू देवा अभयादिमास्तदनु ॥ ५०९ 5 For Private & Personal Use Only 10 20 25 35 www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122