Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 93
________________ ८४ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [५२०-५२५ व्याख्या- तदनु जिनपद्मसूर्यनन्तरम् , श्रीजिनलब्धियतीन्द्राः श्रीजिनलब्धिसूरयो जयन्ति । किम्भूताः! लब्धिनिधानं च ते प्रधानगुणकलिताश्चेति समासः । तदनु श्रीजिनलब्धिसूर्यनन्तरम् , श्रीजिनचन्द्रा गुरवो जयन्ति । किम्भूताः ? प्रतापेन तेजसाऽऽढ्याः समृद्धाः ॥ ५१९ कृतजैनशासनोदयविभवाः श्रीमजिनोदयास्तदनु । श्रीजिनराजगणोदितमार्गरतास्तदनु जिनराजाः ॥५२० व्याख्या- तदनु श्रीजिनचन्द्रसूर्यनन्तरम् , श्रीमजिनोदया जयन्ति । किम्भूताः ! जिनशासनस्यायं जैनशासनः, कृतो जैनशासन उदयविभव औन्नत्यधनं यैस्ते तथा। तदनु श्रीजिनोदयसूर्यनन्तरम् , जिनराजा जयन्ति । किम्भूताः ? श्रीजिनराजगणेन श्रीतीर्थकरवृन्देनोदितः कथितो यो मार्गो मुक्तिमार्गः सम्यग्ज्ञानदर्शनलक्षणस्तत्र रता आसक्ताः श्रीजिनराजगणोदितमार्गरताः ॥ ५२० श्रीजिनभद्रयतीन्द्रास्ततो विरेजुः क्रियासु निष्णाताः। तत्पद्रोदयभूधरसूरा जिनचन्द्रनामानः ॥५२१ व्याख्या-ततः श्रीजिनराजसूर्यनन्तरम् , श्रीजिनभद्रयतीन्द्रा विरेजुः शुशुभिरे । किम्भूताः ? क्रियासु साध्वनुष्ठानेषु निष्णाता निपुणाः । तेषां श्रीजिनभद्रसूरीणां पट्ट एवोदयभूधर उदयाचलस्तत्र सूरा इव सूर्या इव तत्पट्टोदयभूधरसूरा जिनचन्द्रनामानः श्रीजिनचन्द्रसूरयो विरेजुः ॥ ५२१ सद्गुणराशिसमुद्राः समुद्रसूरीश्वरास्ततो जाताः। तच्चरणकमलहंसाः श्रीजिनहंसा लसद्वंशाः ॥५२२ व्याख्या-ततः श्रीजिनचन्द्रसूर्यनन्तरम् , समुद्रसूरीश्वरा जाताः। किम्भूताः ! सद्गुणराशेः सद्गुणराजेः समुद्राः। तेषां श्रीजिनसमुद्रसूरीश्वराणां चरणकमले हंसा इव तच्चरणकमलहंसाः श्रीजिनहंसा विरेजुः । किम्भूताः ? लसन् दीप्यमानो वंशोऽन्वयो येषां ते लसद्वंशाः ॥ ५२२ श्रीमजिनमाणिक्याः सूरिवराः प्राप्तसुगुणमाणिक्या। प्रव्राजनगुरवो मम सञातास्तदनु विख्याताः॥५२३ व्याख्या-तदनु श्रीजिनहंससूर्यनन्तरम्, श्रीमन्जिनमाणिक्याः सूरिवराः सखाता बभूवुः । ममेति कवेः श्रीजयसोमोपाध्यायस्य प्रव्राजनगुरवो दीक्षागुरवः - तैरादौ दीक्षितोऽहमिति । तथा विख्याताः प्रसिद्धाः ।। ५२३ तत्पट्टपूर्वाचलचूलिकारविः सपत्नशैलावलिपक्षसत्पविः।। जगजनामोदकृदाननच्छविः सम्यग्यशोवर्णनसारवाकविः॥५२४ युगप्रधानत्वपदप्रदानाजलालदीसाहिवरेण सत्कृतः। प्रौढप्रतापो जिनचन्द्रसूरिविराजते सद्विजयी महीतले ॥५२५ - युग्मम् । व्याख्या-तेषां श्रीजिनमाणिक्यसूरीणां पट्ट एव पूर्वाचलचूलिका तस्यां प्रकाशकत्वाद् रविरिव तत्पट्टपूर्वाचलचूलिकारविः, जिनचन्द्रसरिर्महीतले भूमण्डले, विजयी विजयवान् , विराजते शोभते । किम्भूतः ? सपत्नाः प्रतिपक्षा एव शैलावलिपक्षाः पर्वतश्रेणिच्छदास्तेषां छेदने सत्पविः शोभनशतकोटिः । यथा पविना गिरिच्छदच्छेदोऽक्रियत तथाऽनेन शत्रवः सर्वेs. प्यपाकृता इति भावः । तथा जगज्जनानामामोदकृद् हर्षकारिणी आननच्छविर्मुखरुचिर्यस्य सः।यन्मुखं दृष्ट्वा सर्वेऽपि प्रमोदन्त इत्यर्थः । तथा सम्यक् साधुतया यशोवर्णनाय सारखाचः प्रधानगिरः कवयो विचक्षणा यस्य सः । कवयः साररवैर्यधशो वर्णयन्तीति भावः । तथा जलालदीसाहिवरेण श्रीअकबरेण युगप्रधानत्वपदप्रदानात् सत्कृतः सम्मानितः । यस्मै श्रीअकबरेण युगप्रधानपदं दत्तमित्यर्थः । तथा प्रौढः प्रवृद्धः प्रतापस्तेजो यस्य स प्रौढप्रतापः ॥ ५२४-५२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122