Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 95
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [५३२-५३७ प्राथमकल्पिकानां शैक्षाणां मतिवैभवहेतोर्बुद्धिव्यापकतानिमित्तम् , घीसखस्य मन्त्रिणः श्रीकर्मचन्द्रस्य, वंशावली [वंश ]वर्णना विहिता कृता । प्रथमकल्प आधारम्भः प्रयोजनमस्य प्राथमकल्पिकः। विभुः प्रभौ व्यापके शङ्करे नित्ये विभोर्भावो वैभवम् । भावेऽण् ॥ ५३०-५३१ ___अथ कविः खकृतग्रन्थे न्यूनाधिककथनदोषमपाकुर्वन्नाह - यदधिकमत्राभिहितं न्यूनं वा वर्णितं मया विहितात् । तत्र मनागपि नागो यस्मादन्योक्तमिह लिखितम् ॥ ५३२ व्याख्या- अत्र ग्रन्थे, मया ग्रन्थका, विहितात् पूर्वजैर्मनिराजेन वा कृतात् कार्याद् यदधिकमर्गलमभिहितं कथितम् , वाऽथवा, न्यूनं स्तोकं वर्णितं स्तुतम् , तैः कृतं बहु कथितमल्पमित्यर्थः । तत्र न्यूनाधिकत्वे मम मनागपीषदप्यल्पमपि न __ आगोऽपराधः । यस्माद्धेतोरिह ग्रन्थे अन्येन अपरेणोक्तं कथितमन्योक्तं लिखितं मया । खमत्या न लिखितं किन्तु परेण • यथैवोक्तं तथाऽलेखि । ततो ममापराधो न कोऽपि शब्दयः ॥ ५३२ न्यूनाधिककथने कारणमाह - रक्तमतिर्वदतितरां यस्मादधिकं कृतादपि प्रायः। द्विष्टः कृतमपि सकलं न वदति यदपलपनाकुलितः॥५३३ व्याख्या- यस्माद्धेतोः, प्रायो बाहुल्येन, रक्तमतिः स्नेहलः पुमान् , कृतादपि विहितादयर्थाच्छुभकार्यादधिकं ॥ वदतितरामतिशयेन ब्रूते । प्रायो बाहुल्येऽव्ययम् । द्विष्टो द्वेषी कृतमप्यर्थाच्छुभं कार्य सकलं समस्तं न वदति न कथयति । कुतः ? यद्यस्माद्धेतोरपलपनेनापलापेन निवेन आकुलितो व्यग्रः स च द्विष्टत्वात् सन्तमपि गुणमपगुते ॥ ५३३ पूर्वजानामदृष्टत्वाद् रागद्वेषौ न तेषु मे। दृष्टानां तु यथादृष्टं वर्णना विदधे मया ॥ ५३४ व्याख्या-पूर्वजानां श्रीसङ्ग्राममन्त्रिणः सकाशात् पूर्वोत्पन्नानां सागरराजादीनाम् , अदृष्टत्वाद् अनवलोकितत्वात्, 20 तेषु सागरादिषु, मे मम, राग-द्वेषौ न । दृष्टानां तु श्रीसभाममज़्यादीनां यथादृष्टं दृष्टं वीक्षितमनतिक्रम्य यथादृष्टं वर्णना स्तुतिमया विदघे कृता । यादृशा दृशा तेषां गुणा दृष्टा इष्टास्तादृशाऽन्तर्दशा विमृश्य लिखिता इति भावः ॥ ५३४ वंशावली वाचकपुण्यसारमुखाद यथाऽश्रावि तथा विविच्य। अस्माभिरप्यादरसारचित्तैर्लिवीकृतेयं कृतिनां सुखाय ॥ ५३५ व्याख्या- इयं वंशावली, वाचकपुण्यसारमुखाच्छ्रीमन्त्रिराजकथितवाचकपुण्यसाराननाद् यथा अश्रावि, तथाऽस्मा2 भिरप्यादरसारचित्तैः सादरैर्भूत्वा, विविच्य विवेचनं कृत्वा, कृतिनां विचक्षणानाम् , सुखाय सुखहेतवे, लिवीकृता लिखिता ॥५३५ यद् राभस्यात् प्रमादाद् वा रसिकत्वेन वा मया। न्यूनं तथाऽधिकं जातात् कृतं तहष्कृतं मृषा ॥ ५३६ व्याख्या-रभसो वेगस्तद्भावो राभस्यं तस्माद् ग्रन्थकरणौत्सुक्यादित्यर्थः । 'रभसो वेगहर्षयोः' इत्यनेकार्थः । वा अथवा, प्रमादादनवधानाद्वा, अथवा रसिकत्वेन व्याख्यानरसाकुलितत्वेन, रसिको हि रसमेवोद्भावयति, न न्यूनाधिककथन॥ जनितापशब्दादिकमपेक्षते । यदुक्तम् - ___ 'गणयन्ति नापशब्दं, न वृत्तभङ्गं क्षयं च नार्थस्य । रसिकत्वेनाऽऽकुलिता, वेश्यापतयश्च कवयश्च ॥' मया जातादुत्पन्नान्यूनं तथाऽधिकं कृतं तन्मृषा मिथ्या दुष्कृतम् । 'मृषा मिथ्याऽनृते' ॥ ५३६ सुकृतानुमोदनातो यदर्जितं पुण्यमद्भुतं मयका। तेनाखिलोऽपि लोको भवतु सुखी धर्मनिरतश्च ॥ ५३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122