Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 94
________________ ५२१-५३१] पाठकश्रीजयसोमविरचित तचरणाम्बुजहंसाः श्रीजिनसिंहाः प्रतापजितहंसाः। दीप्यन्ते शुचिवंशाः समस्तजनपूरिताशंसाः ॥ ५२६ व्याख्या-तेषां युगप्रधानश्रीजिनचन्द्रसूरीणां चरणाम्बुजे हंसा इव राजहंसा इव तच्चरणाम्बुजहंसाः श्रीजिनसिंहा दीप्यन्ते राजन्ते । किम्भूताः ? प्रतापेन तेजसा जितो हंसो रविर्यस्ते प्रतापजितहंसाः। तथा शुचिनिर्मलो वंशोऽन्वयो येषां ते शुचिवंशाः । तथा समस्तजनानां साहिसम्मान्यत्वेन पूरिता पूर्णीकृता आशंसा वाञ्छा यैस्ते समस्तजनपूरिताशंसाः ॥५२६ । श्रीजैनशासनधुराधरणाय धुर्य, सत्येकतः प्रबलसारयुगप्रधाने । मन्येऽन्यतोऽपि युगकोटिधृतौ समर्थः, श्रीसाहिना सुघटितो जिनसिंहसूरिः॥५२७ व्याख्या-मन्य इति वितर्केऽव्ययम् , एवं वितर्कयाम्यहम् – एकत एकस्मिन् पक्षे, प्रबलोऽधिकः सारो बलं यस्यैवंविधो यो युगप्रधानः श्रीजिनचन्द्रसूरिस्तस्मिन् , श्रियोपलक्षितं जैनं श्रीजैन तथाविधं यच्छासनमाज्ञा श्रीजैनशासनं तस्य धूर्भारः श्रीजैनशासनधुरा तस्या धरणाय धुर्ये धौरेये सति; अन्यतोऽप्यन्यस्मिन् पक्षेऽपि, युगे कलियुगे, या कोटिः श्रीजिन- 10 शासनोत्कर्षस्तस्या धृतौ धरणे समर्थः क्षमः, श्रीसाहिना श्रीअकबरेण जिनसिंहसूरिः सुघटितः कृतः स्थापित इत्यर्थः । छायार्थस्त्वयम्-एकतो रथस्य वामभागे युगप्रधाने युगं रथाङ्गमीशान्तबन्धनं तस्मिन् , प्रधाने धूधरणाय धुर्ये सति; अन्यतोऽपि दक्षिणभागेऽपि युगकोटिधृतौ रथाजाश्रिधरणे समर्थो धर्यो ध्रियत एव । अन्यथा रथवहनाशक्तेः। 'शासनं नृपदत्तोयो शास्त्राज्ञालेखशास्तिषु ।' 'सारो मज्जास्थिरांशयोर्बले श्रेष्ठे च ।' 'कोट्युत्कर्षासंख्याश्रिषु' – इत्यनेकार्थः ॥ ५२७ श्रीजैनचन्द्रसुगुरो राज्ये विजयिनि विपक्षबलजयिनि । क्रमतो नृपविक्रमतः ख-भूत-रस-शशिमिते वर्षे ॥ ५२८ विजयदशम्यां विजया-जयादिविबुधावलीभिरुपचरितम् । पार्श्व मानसविषयं कृत्वा विजये मुहूर्तेऽस्मिन् ॥५२९ व्याख्या-जिनचन्द्र एव जैनचन्द्रः । खार्थेऽण् । श्रीजैनचन्द्रसुगुरो राज्ये साम्राज्ये, विजयिनि विजयनशीले सति, 20 किम्भूते राज्ये ! विपक्षाणां बलं सैन्यं सामर्थ्य वा जयति पराभवतीत्येवंशीलं विपक्षबलजयि तस्मिन् , नृपविक्रमतो विक्रमनृपशाकात् क्रमतः क्रमेण ख (०) भूत (५) रस (६) शशि (१) मिते १६५० वर्षे । विजयः श्रीरामस्य रावणप्रमापणेन यद्दशम्यां जातः सा विजयदशमीत्युच्यते, तस्यामाश्विनसितदशम्यामित्यर्थः । पाव श्रीपाश्चं गौडीशं मानसविषयं मनोगोचरं कृत्वा ध्यात्वेत्यर्थः । किम्भूतं पार्श्वम् ? विजयाजयादिका या विबुधावली देवताश्रेणिस्तयोपचरितं निषेवितम् । अस्मिन् सन्निहिते विजये मुहूर्ते वहमाने सति । 'द्वौ यामौ घटिकाहीनौ द्वौ यामौ घटिकाधिकौ । विजयो नाम योगोऽयं सर्वकार्यप्रसाधकः ॥५२८-५२९ श्रीजिनकुशलानाये श्रीमच्छ्रीक्षेमकीर्तिशाखायाम् । श्रीक्षेमराजशिष्यप्रमोदमाणिक्यगणिशिष्यैः ॥ ५३० श्रीजयसोमैर्विहिता धीसखवंशावली गुरोर्वचसा।। श्लोकैः प्राथमकल्पिकमतिवैभवहेतवे मृदुभिः ॥ ५३१ -युग्मम् । व्याख्या-श्रीजिनकुशलसूरीणामाम्नाये वंशे, श्रीमच्छीक्षेमकीर्तिवाचकानां या शाखा सन्ततिविशेषस्तस्यां श्रीमच्छीक्षेमकीर्तिशाखायाम् । 'शाखा द्वमांशे बेदांशे, भुजे पक्षान्तरेऽन्तिके ।' पक्षान्तरे सन्ततिविशेषे यथा - 'अलङ्करोत्येष मदीयशाखाम् ।' श्रीक्षेमराजानां श्रीक्षेमराजोपाध्यायानां शिष्या ये प्रमोदमाणिक्यगणयो वाचकास्तेषां शिष्यैः श्रीजयसोमैः श्रीजयसोमोपाध्यायैः, गुरोः श्रीमयुगप्रधानश्रीजिनचन्द्रसूरेः, वचसा वाक्येन, मृदुभिः सुकुमारैः श्लेषभङ्गयादिरहितैः श्लोकैर्वृत्तः, 25 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122