Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 92
________________ ५१३ -५१९] पाठकश्रीजयसोमविरचित नरमणिमण्डितभालास्तत्पट्टे नमदनेकभूपालाः। जिनचन्द्रा गणपाला वाञ्छितदाने विबुधशालाः ॥५१३ व्याख्या-तेषां श्रीजिनदत्तसूरीणां पट्टे, जिनचन्द्राः श्रीजिनचन्द्रसूरयो गणपाला गच्छनायका अभवन्निति गम्यते । किम्भूताः! नरमणिना मण्डितमलङ्कतं भालमलिक येषां ते नरमणिमण्डितभालाः, तथा नमन्तोऽनेके भूपाला राजानो येषां ते नमदनेकभूपालाः, तथा वान्छितदाने कामितवितरणे विबुधशालाः कल्पवृक्षाः ॥ ५१३ श्रीजिनपतिगुरुपादाः षट्त्रिंशद्वादलब्धजयवादाः। स्थापितगणमयोंदास्ततोऽप्रमादा जयन्त्याख्याः॥५१४ व्याख्या-ततः श्रीजिनचन्द्रसूरिभ्यः श्रीजिनपतिगुरुपादा जयन्ति । 'पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः । यथा गुरुपादाः, अर्हट्टारकः, कुमारपालदेव इतिवदत्र पादशब्दप्रयुक्तिः । किम्भूताः । षट्त्रिंशतिवादेषु लब्धो जयवादो विजयध्वनियस्ते षटत्रिंशद्वादलब्धजयवादाः। तथा स्थापिता व्यवस्थापिता गणमर्यादा गच्छव्यवस्था यैस्ते तथा। तथा आढ्या " ज्ञानादिभिः समृद्धाः ॥ ५१४ तदनु जिनेश्वरगुरवः समभूवन्नेमिचन्द्रकुलचन्द्राः। तदनु प्रबोधसूरिप्रवरास्तत्पदृसवितारः॥५१५ व्याख्या- तदनु श्रीजिनपतिसूर्यनन्तरम् , जिनेश्वरगुरवः समभूवन् । किम्भूताः ! नेमिचन्द्रकुले चन्द्रा इव आह्वादकत्वान्नेमिचन्द्रकुलचन्द्राः । तदनु तेषां श्रीजिनेश्वरगुरूणां पट्टे, सवितारः सूर्या उद्दयोतकारिण इत्यर्थः । प्रबोध- Is सरिप्रवराः समभूवन् ॥ ५१५ कलिकालकेवलीति ख्याति प्राप्तास्ततश्च जिनचन्द्राः। बोधितभूपचतुष्टयकृतसेवा राजगच्छाख्याः॥ ५१६ व्याख्या-ततश्च श्रीजिनप्रबोधसूरिभ्यो जिनचन्द्रा बभूवुः । किम्भूताः ! कलिकाले केवली सर्वज्ञ इति ख्याति प्रसिद्धि प्राप्ताः । तथा बोधितं प्रतिबोधितं यद्भपचतुष्टयं तेन कृता सेवा भक्तिर्येषां ते तथा । ततो राजगच्छेत्याख्या येभ्यस्ते । राजगच्छाख्याः । ततः प्रभृति खरतरगच्छस्य राजगच्छ इत्याख्या प्रावर्तत ॥ ५१६ श्रीजिनकुशलमुनीन्द्रास्तत्पद्दे विघ्नकरटिपारीन्द्राः। विषमपथे जनमार्गितजलदानप्रथितपृथुयशसः॥५१७ व्याख्या-तेषां श्रीजिनचन्द्राणां पट्टे, श्रीजिनकुशलमुनीन्द्रा बभूवुरिति गम्यते । किम्भूताः! विना अन्तराया एव करटिनो हस्तिनस्तेषां विध्वंसे पारीन्द्राः सिंहाः । तथा विषमपथे दुर्गममार्गे जनैर्मानितं याचितं यजलं तस्य दानेन 25 प्रथितं विश्रुतं पृथु विपुलं यशो येषां ते जनमार्गितजलदानप्रथितपृथुयशसः ॥ ५१७ तत्पदपद्ममधुव्रतकल्पा जिनपद्मसूरिनामानः। अवधानकरा राजत्कूचोलसरखतीबिरुदाः॥५१८ व्याख्या-तेषां श्रीजिनकुशलसूरीणां पदपने चरणकमले, मधुव्रतकल्पा भ्रमरभ्रमकारिणो जिनपद्मसूरिनामानो अभवन् । किम्भूताः? अवधानानि चित्तकाग्र्यरूपाणि तानि कुर्वन्तीत्यवधानकरा अष्टावधानपूरका इत्यर्थः । तथा राजन् 0 शोभमानः 'कूर्चालसरखतीति बिरुदः प्रवादो येषां ते राजकूर्चालसरस्वतीबिरुदाः ॥ ५१८ श्रीजिनलब्धियतीन्द्रा लब्धिनिधानप्रधानगुणकलिताः। श्रीजिनचन्द्रा गुरवस्तदनु जयन्ति प्रतापाढ्याः ॥ ५१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122