Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 60
________________ श्रीअकबरण ३१०-३१६] पाठकश्रीजयसोमविरचित साम्प्रतं यदनेन मन्त्रिणा कृतं तदाह - साहिना सुप्रसन्नेन यत्स्त्रीणां स्वर्णनूपुरे । दत्त्वा महत्त्वमत्यर्थमेधितं तस्य भूतले ॥ ३१० व्याख्या-साहिना कृता व्यवस्था साहिरेव अन्यथा कर्तुमलम्भूष्णुरिति; सुप्रसन्नेन मन्त्रिणोपरि प्रसादवता साहिना श्रीअकबरेण, यस्य मन्त्रिणः स्त्रीणां योषितां यत्स्त्रीणाम् , वर्णनूपुरे हेमतुलाकोटी दत्त्वा, तस्य श्रीकर्मचन्द्रस्य, महत्त्वं महिमा, अत्यर्थमतिशयेन, भूतले भूमण्डल एधितं प्रवर्धितम् ॥ ३१० ततः प्रभृति सर्वेषां वत्सराजानुयायिनाम् । अमात्यानां नितम्बिन्यः पादे वर्ण हि पर्यधुः ॥ ३११ व्याख्या-ततः प्रभृति तद्दिनादारभ्य, वत्सराजस्य मन्त्रिणोऽनुयान्तीति वत्सराजानुयायिनस्तेषां वत्सराजवंश्यानाम् , सर्वेषाममात्यानां मन्त्रिणाम् , नितम्बिन्यः स्त्रियः, पादे वर्णम् , हि स्फुटम् , पर्यधुः परिदधति स्म ॥ ३११ । तुरसमखानानीतां गौर्जरविषयाश्रितां वणिग्बन्दीम् । तद्देयद्रविणार्पणविधिना यो मोचयामास ॥ ३१२ व्याख्या-यो मन्त्री, तुरसमखानेन आनीता दौकिताम्, गौर्जरविषयाश्रितां गौर्जरदेशाध्यासितां गौर्जरदेशसम्बन्धिनीमित्यर्थः, वणिग्बन्दीम् , तेषां गृहीतगौर्जरवणिजां यद्देयं तुरसमखानस्य दातव्यं द्रविणं द्रव्यं सहस्रलक्षादि, तस्य योऽर्पणविधिर्वितरणविधानम् , तेन तद्देयद्रविणार्पणविधिना, मोचयामास मुत्कलयति स्म ॥ ३१२ याचकेभ्योऽथ जैनेभ्यः प्रवाहेण समर्पयन् । वाहाननेकपाश्चापि यः खनामाकृताक्षयम् ॥ ३१३ व्याख्या- अथेति समुच्चये, यो मन्त्री, प्रवाहेण लोकव्यवहारेण, जैनेभ्यो जिनपक्षीयेभ्यो याचकेभ्यो वनीपकेभ्यः, वाहान् अश्वान् , अनेकपांश्चापि हस्तिनश्चापि, समर्पयन् ददत् सन् , खनाम निजनामधेयमक्षयमव्ययमकृत कृतवान् । 'प्रवाहो व्यवहाराम्बुवेगयोः' इत्यनेकार्थः ॥ ३१३ शत्रुञ्जये मधूपन्ने जीर्णोद्धारं चकार यः। __ येनैतत्सदृशं पुण्यकारणं नास्ति किश्चन ॥ ३१४ व्याख्या-यो मन्त्री, शत्रुञ्जये पुण्डरीकाद्रौ, तथा मधूपन्ने मथुरायाम् , जीर्णोद्धारं जीर्णपतितचैत्यसमारचनं चकार । येन हेतुना, एतत्सदृशं जीर्णोद्धारसदृक्षम्, पुण्यकारकं सुकृतहेतुः, न किश्चन किश्चिदस्ति विद्यते । नवीनचैत्यकरणाजीर्णोद्धारे त्वष्टगुणं पुण्यम् । यतो "नूतनार्हद्वरावासविधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् ॥" इत्युपदेशतरङ्गिण्याम् । किश्चनेत्यत्र चनेति चिदर्थे किंवृत्तात् परत एव चास्य प्रयोगो भवति ॥ ३१४ प्रतिदेशं प्रतिग्राम प्रतिद्रङ्गं महात्मना। आ काबिलपुरात् तेने येन लम्भनिका निजा ॥ ३१५ व्याख्या-येन महात्मना महाशयेन श्रीकर्मचन्द्रेण, प्रतिदेशं देशं देशं प्रति प्रतिदेशम् , तथा प्रतिग्राम सकल- 30 ग्रामेषु, तथा प्रतिद्रङ्ग प्रतिनगरम् , काबिलपुरं आ मर्यादीकृत्य आ काबिलपुरान्निजा आत्मीया लम्भनिका, तेने विस्तारिता । प्रतिद्रङ्गमिति 'द्रमो णिद्वा' इति द्रमगतावित्यस्माद्गः प्रत्ययो भवति । 'द्रको नगरम्' औणादिकोऽयम् ॥ ३१५ , अङ्गान्येकादशाऽपि स्राक् श्रुतानि श्रुतधारिणाम् । गुरूणां सन्निधावर्थसूत्रादिक्रमतोऽमुना ॥ ३१६ : 20 125 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122