Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 73
________________ व्याख्या - साहिः श्रीअकबरः, प्रीणितमानन्दितं मनो यस्यासौ प्रीणितमाना एवंविधः सन्, यस्मै श्रीमन्त्रिणे निजमुद्रया आत्मीयाङ्गुलीयकेन मुद्रितमङ्कितं फुरमानं तीर्थरक्षानिवेदकपत्रम्, आजमखानमुद्दिश्य अधिकृत्य अदात् ददौ । आजमखानं प्रति फुरमानं दत्तं साहिना यन्मया जैनतीर्थानि मन्त्रि श्रीकर्मचन्द्राय दत्तानि सन्ति त्वया सम्यगेषां 1 रक्षा विधेयेति ॥ ३९८ 25 मन्त्रिकर्मचन्द्रवंशावलीप्रबन्ध | [ ३९८-४०४ पुण्डरीकाचलादयः शत्रुञ्जयप्रभृतयस्तीर्थाः पुण्यक्षेत्राणि, नूनं निश्चितम्, मन्त्रिसाञ्चक्रिरे मध्यधीना विदधिरे । 'तदधीनवचने' इति तदधीनत्वार्थे सातिः स्यात् सम्पदा कृभ्वस्तिभिर्योगे । तरन्त्यनेन तीर्थम्, 'नीनूरमीति' कित् थः । 'तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ योनौ पात्रे दर्शनेषु' – इत्यनेकार्थः । पुण्यक्षेत्रावतारयोः पुंक्लीबः, शेषेषु क्लीबे ॥ ३९७ आजमखानमुद्दिश्य मुद्रितं निजमुद्रया । फुरमानमदात् साहिर्यस्मै प्रीणितमानसः ॥ ३९८ 30 ६४ व्याख्या - पुण्डरीकाद्रौ श्रीशत्रुञ्जये, चैत्यानां कारणाद् विधापनात्, पुरा पूर्वम्, महान्तो भरतादयः सप्तोद्धारान् पतितपुनर्नवीकरणरूपान् विदधुरकार्षुः । अमुना श्रीकर्मचन्द्रेण रक्षणान्म्लेच्छकृतभङ्गोपद्रवदूरीकरणात्, सोऽष्टम ॥ उद्धारः कृतः ॥ ३९९ 35 उद्धारान् सप्त चैत्यानां कारणाद् विदधुः पुरा । महान्तः पुण्डरीकाद्रौ रक्षणात् स कृतोऽमुना ॥ ३९९ कश्मीरान् गन्तुकामेनान्यदा नौमध्यवर्तिना । साहिना मुदितेनैवमुदितो मन्त्रिनायकः ॥ ४०० व्याख्या - अन्यदा अन्यस्मिन् समये, कश्मीरान् गन्तुकामेन जिगमिषुणा, नौमध्यवर्तिना तरीमध्यस्थायिना, मुदितेन हृष्टेन, साहिना श्रीअकबरेण, मन्त्रिनायकः श्रीकर्मचन्द्र:, [ एवमनया रीत्या ] उदित उक्तः ॥ ४०० अथ यदुक्तं साहिना मणिं प्रति तदाह जिनचन्द्रास्त्वया तूर्णमाहाय्या वचसा मम । धर्मलाभो महांस्तेषां मया देयोऽस्ति वाञ्छितः ॥ ४०१ व्याख्या - हे मन्त्रिन् ! मम वचसा त्वया तूर्णं शीघ्रं जिनचन्द्रा बृहदुख आह्वाय्या आकार्याः । यस्मात्तेषां बृहद्गुरूणाम्, मया महान् धर्मलाभो वाञ्छितस्तेषामिष्टो देयोऽस्ति ॥ ४०१ Jain Education International पूज्या अपि तदाहृता ययुः श्रीसाहिसन्निधौ । श्रीगुरोर्दर्शनादेवानन्दितोऽभून्नराधिपः ॥ ४०२ व्याख्या - तेन श्रीकर्मचन्द्रेण, आहूता आकारितास्तदाहूताः, पूज्या अपि, श्रीसाहिसन्निधौ श्रीसाहिसमीपे ययुरगच्छन् । नराधिपः श्रीसाहिः श्रीगुरोर्दर्शनादेव अवलोकन देव आनन्दितः प्रमुदितोऽभूत् ॥ ४०२ शुचिमासे शुचौ पक्षे प्रसन्नो दिनसप्तकम् । नवमीतो ददौ साहिर मारिगुणपावनम् ॥ ४०३ व्याख्या - शुचिमास आषाढमासे, शुचौ श्वेते पक्षे, साहिः प्रसन्नस्तुष्टः सन्, नवमीत आरभ्य दिनसप्तकममारिगुणेन पावनं पवित्रं ददौ । आषाढसितनवम्या आरभ्य दिनसप्तकं न कोऽपि जीवहिंसां कर्तुमलमिति साहिन आज्ञप्तं श्रीजिनचन्द्रगुरूणां पुण्यहेतव इति भावः ॥ ४०३ एकादशसु शुम्बेषु फुरमानानि साहिना । अमारिघोषणां कर्तुं लेखयित्वाऽर्पितान्यहो ! ॥ ४०४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122