Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 81
________________ 10 मन्त्रिकर्मचन्द्रवंशावलीप्रबन्ध | [ ४५१ - ४५८ मित्याद्युक्त्वा, सिंहस्य श्रीराजसिंहस्य अयं सैंहः, तं महादेशमुत्सवाज्ञां प्राप्य, इवेत्यध्याह्रियते । सिंहः प्रक्षरित इव अभवद् । यथा सिंहः प्रक्षरितोऽपरिभवनीयो भवति तथाऽयमपि श्रीराजसिंहाज्ञामाप्य द्विगुणितोत्साहोऽभूत् । राजसिंहनृपेणाप्युक्तं यथा त्वमेवोत्सवं विधेहीति ॥ ४५० ७२ ततः पौषधशालायामाहूय महिमाधनः । सङ्ग्रामसूनुः श्रीसङ्घ सामोदमिदमुक्तवान् ॥ ४५१ व्याख्या - ततः श्रीराज सिंहा देशप्रात्यनन्तरम्, सङ्ग्रामसूनुः श्रीकर्मचन्द्रः, पौषधशालायां श्रीसङ्घमाहूय आकार्य, सामोदं सहर्षं यथा स्यात्तथा इदं वक्ष्यमाणम्, उक्तवानूचिवान् । किंभूतः ? महिमैव माहात्म्यमेव धनं यस्यासौ महिमाधनः ॥ ४५१ सर्वकार्यक्षमः सङ्घो यद्यप्यस्ति तथापि मे । एतन्महविधानाज्ञा प्रसद्याद्य प्रदीयताम् ॥ ४५२ व्याख्या - सङ्घो यद्यपि सर्वकार्यक्षमः सकलकृत्यविधाने समर्थः, तथापि श्रीसङ्घनैतस्य महस्य उत्सवस्य विधान आज्ञा आदेश एतन्महविधानाज्ञा, प्रसद्य अनुगृह्य, अद्य मे मम प्रदीयतां वितीर्यताम् ॥ ४५२ ततः सङ्घः समर्थोऽपि हर्षपूरितमानसः । मत्वैतत्कृत्ययोग्यत्वमस्येति प्रत्यपद्यत ॥ ४५३ व्याख्या - ततो मन्त्रिकथनानन्तरम्, समर्थोऽपि क्षमोऽपि सङ्घः, हर्षेण पूरितं भृतं मानसं चेतो यस्य स हर्षपूरितमानस एवंविधः सन् अस्य श्री कर्मचन्द्रस्य, एतस्मिन् कृत्ये बृहत्पदनन्दीकरणलक्षणे कार्ये, योग्यत्वमौचित्यं मत्वा ज्ञात्वे मन्त्रयुक्तं प्रत्यपद्यत स्वीचक्रे ॥ ४५३ Jain Education International निशाजागरनिर्माणहेतवे प्रतिमन्दिरम् । साधर्मकाणां मत्रीशस्ततः प्रेषितवानिति ॥ ४५४ सरङ्गमेकं नीरङ्गीवासः पूगफलानि च । सेरप्रमाणमत्स्यण्डीं सरसं पत्रबीटकम् ॥ ४५५ - युग्मम् । व्याख्या - ततोऽनन्तरम्, मन्त्रीशः श्रीकर्मचन्द्रः, निशाजागरस्य रात्रिजागरस्य, निर्माणहेतवे विधानाय, साधर्मिकाणां समानधर्मणां श्राद्धानाम्, प्रतिमन्दिरं प्रतिगृहम् इति वक्ष्यमाणं प्रेषितवान् मुमोच । तदेवाऽऽह – एकं सरङ्गं रङ्गो लौहत्यादिस्तत्सहितं नीरङ्गीवासः, लोकरूढ्या चूनडीति, च पुनः पूगफलानि क्रमुकफलानि, तथा सेरप्रमाणा या मत्स्यण्डी, फाणितं ' तद्विकृतिः पुनर्मत्स्यण्डी तस्य खण्डस्य विकारस्ताम् । यद् धन्वन्तरिः - 'शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका सिता' इति । 'मत्स्यण्डिका खण्डसिता क्रमेण गुणवत्तरा' इति वाग्भटः । तथा सरसं सखादं पत्र बीटकमहिवल्लीपत्र बीटकम् ॥ ४५४ - ४५५ श्राविकाभिः समग्राभिरेकीभूय मनोहरैः । श्रीदेवगुरुसत्सङ्घगीतैर्जागरितं निशि ॥ ४५६ व्याख्या - समग्राभिः समस्ताभिः श्राविकाभिः एकीभूय - एकत्रस्थल ऐकमत्यं विधायेत्यर्थः । निशि रात्री, मनोहरैः ° रुचिरैः श्रीदेवगुरुसत्सङ्घानां सम्बन्धीनि यानि गीतानि गेयानि, तैर्जागरितं जागरणं कृतम् । रात्रिजागरो विहित इत्यर्थः ॥ ४५६ शुक्लायां फाल्गुने मासे द्वितीयायां जया तिथौ । मध्याह्ने योगनक्षत्रलग्नशुद्धिसमन्विते ॥ ४५७ आहूतानेकगच्छीयो पालकत्रातसुन्दरे । वस्त्राभरणमुक्ताभिर्मण्डिते सदुपाश्रये ॥ ४५८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122