Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 76
________________ ४१८-४२३] पाठकश्रीजयसोमविरचित श्रीसाहिनेत्रपीयूषस्पर्शनादमरो भवन् । खामिद्रोही निषेध्योऽयं मत्वेति विधिना हतः ॥ ४१८ व्याख्या-अयं खामिने साहये द्रुह्यतीत्येवंशीलः खामिद्रोही, श्रीसाहिनेत्रयोर्यत्पीयूषममृतं तस्य स्पर्शनादमरोऽवध्यो भवन् निषेध्यो वार्य इति मत्वा अवबुध्य, विधिना दैवेन हतः। साहिनेत्रपीयूषस्य स्पर्शनेन यदाऽसावमरो भवति तदा वध्यो न भवति, अयं च वध्यः स्वामिद्रोहित्वात् , ततश्च साहिदृष्टिसुधावृष्टियोगात् तस्यामरत्वं भवन् निषेध्य विधिना पूर्वमेव । निजघ्ने । न म्रियत इत्यमरः । अमरशब्दश्चिरस्थायित्वादिलक्षणया दैवेषु यौगिको रूढश्च । पीयूषस्पर्शने हमरो देवो भवतीति छायार्थः । साहिदृष्टौ हि न कोऽपि गवादिम्रियते, अयं पुनर्मानवः कथं म्रियतामिति विमृश्य विधिना साहेरदर्शन एव मारित इति भावार्थः ॥ ४१८ पुनरप्यत्रैव हेत्वन्तरमाह तथात्वे वा निजा सृष्टिः कृतनाशाकृतागमात् । निन्द्या मा भूदिति ध्वस्तो वैरी प्राविधिना किमु ? ॥ ४१९ व्याख्या-वा अथवा, तथात्व इति कोऽर्थः? यदि वैर्येवमेव रक्ष्यते, साहिनाऽपि न मार्यते कृपालुत्वात् , मयाऽपि न हन्यते, तदा निजा सृष्टिनिर्माणम् , कृतस्य पापस्य नाशोऽकृतस्य पुण्यस्याऽऽगमस्तस्मान्निन्द्या कुत्सनीया भवेत् , सा निन्द्या मा भूत, माऽस्तु इति हेतोर्वेरी, विधिना प्राक् साहेरागमनात् पूर्वमेव, किमु इति वितर्के, ध्वस्तो हतः। तथा च तद्विनाशे सृष्टौ कृतनाशोऽपि न भवत्यकृतस्य आगमोऽपि न स्यात् , ततश्च निन्धत्वमपि सृष्टेन । मायोगे अद्यतन्या अप्याशी:- 15 प्रेरणार्थता वक्तव्या ॥ ४१९ नेत्रक्षीराम्बुधौ साहेरथवा स्तः सुधा विषम् । सुमनोभिः सुधा दर्तो विषमास्त्रद्विषा विषम् ॥ ४२० व्याख्या- अथवाशब्द उपायस्मरणगर्मितपक्षान्तरद्योतकः । साहेरकबरस्य नेत्रक्षीराम्बुधौ दृष्टिक्षीरसमुद्रे, सुधाऽमृतं विषं च क्ष्वेडश्चेत्यध्याहियते स्तो विद्यते । तत्र सुमनोभिः प्राज्ञैः, सुधा पीयूषं दधे धृतम् । विषमाण्युग्राण्यस्त्राणि यस्यैवंविधो " यो द्विड वैरी तेन विषमास्त्रद्विषा विषं दध्रे । अत एव साहिदृष्ट्या स ममारेति भावः । क्षीराम्बुधौ हि सुधा सुमनोभिर्देवैर्दभ्रे, विषमास्त्रः कामस्तस्य द्विषेश्वरेण विषं कण्ठे दध्र इति च्छायार्थः । 'सुमनाः प्राज्ञदेवयोः' इत्यनेकार्थः ॥ ४२० सुधैवास्त्यथवा नेत्रे सा शत्रौ तु विषायते । सिताऽपि जायते येन कटुका पित्तदोषतः॥४२१ व्याख्या-अथवेति पक्षान्तरे, साहिनेत्रे सुधैव अस्ति । सा सुधा शत्रौ तु वैरिणि तु विषमिव आचरति विषायते 26 विषीभवतीत्यर्थः । एतदेव दृष्टान्तद्वारा द्रढयन्नाह-येन कारणेन सिताऽपि शर्कराऽपि, पित्तदोषतः पित्तवैगुण्यात्, कटका क्षारा जायते । सिता हि मधुरा भवति परं पित्तयोगे सा कट्रका सम्पद्यते । तथा साहिदृष्टौ सुधैव आस्ते परं विद्विषो विषमिवाऽभवत् ॥ ४२१ देवा एव मन:शस्त्रा हति गीरनतीकता। नराधीशोऽपि यजातो मनोऽस्त्रः साहिरात्मना ॥ ४२२ व्याख्या-येन साहिना, देवा एव मन एव शस्त्रं येषां ते मनःशस्त्रा इति गीः- वाणी अनृतीकृता असत्यीकृता । यद् यस्माद्धेतोः, नराधीशोऽपि साहिरात्मना स्वयं मनोऽस्त्रो जातः । मनसा व्यचिन्ति। यदसौ दूरीभवतु तावतैव वैरिघातो जात इति । देवा एव मनोऽस्त्रा इतिवाक्यमप्रमाणितमित्यर्थः ॥ ४२२ एवं दिग्विजयं कृत्वा जित्वा वैरिकुलं बलात् । श्रीमल्लाभपुरे पौरकृतशोभेऽविशत् प्रभुः ॥ ४२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122