Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 75
________________ ६६ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [४१२-४१७ 'तनं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ।। श्रुतिशाखान्तरे शास्त्रे करणे द्वयर्थसाधके । इतिकर्तव्यतातन्त्वोः' - इत्यनेकार्थः। अगदे भेषजे यथा -- 'मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम्' ।। ४१०-४११ ___ वासोगृहं तथाऽऽत्मीयान् भटान साधूनुपासकान् । गुरुभक्तिचिकी सार्थे सद्युत्तयाऽयोजयत्तराम् ॥ ४१२ व्याख्या-गुरुभक्ति गुरुसेवां कर्तुमिच्छतीति गुरुभक्तिचिकीः श्रीमन्त्रिराजः, साथै श्रीमानसिंहैः समम् , सद युक्त्या शोभनयोजनेन, वासोगृहं पटमन्दिरम् , तथा आत्मीयान् भटान् योधान्, तथा साधूनुपासकान् श्राद्धान्, अयोजयत्तरां विशेषेण नियुक्तवान् दत्तवानित्यर्थः ॥ ४१२ निरवद्यान्नपानादिव्यवस्थाया विधानतः । तथाऽकार्षीन्महामात्यो यथा धर्मः समैधत ॥ ४१३ व्याख्या-महामात्यो निर्वद्यानां निर्दोषाणामन्नपानादीनां या व्यवस्था मर्यादा, तस्या विधानतः करणतः, तथा अकार्षीद् यथा धर्मः साधुधर्मः समैधत अवर्धत ॥ ४१३ वयं तु साहिवाक्येन रोहितासपुरे स्थितः। अवरोधस्य रक्षायै विश्वासास्पदमीशितुः॥ ४१४ व्याख्या-खयं त्वात्मना मन्त्री, साहिवाक्येन रोहितासपुरे स्थितः । कस्यै ? अवरोधस्य अन्तःपुरस्य रक्षायै । किम्भूतो मन्त्री ? ईशितुः खामिनः साहेर्विश्वासास्पदं विस्रम्भाश्रयः, अत एव अवरोधरक्षणे नियुक्तवान् श्रीसाहिः ॥ ४१४ सेतुबन्धं सृजन सिन्धौ युक्तो वा नरकोटिभिः। सुमित्रानजयुक् साहिः श्रीराम इह लक्ष्यते ॥ ४१५ व्याख्या-साहिरिह कश्मीरमार्गे, सिन्धौ नद्यां सेतुबन्धं पालिबन्धं सृजन् कुर्वन् , वाशब्द उपमानार्थः । " श्रीराम इव श्रीदाशरथिरिव लक्ष्यते ज्ञायते । किम्भूतः ! नराणां कोटिभिर्युक्तः सहितः, तथा सुमित्राणि शोभनसुहृदोऽङ्गजाश्च पुत्रास्तान युनक्तीति सुमित्राङ्गजयुक्। श्रीरामोऽपि सिन्धौ समुद्रे सेतुबन्धमसृजत् , तथा वानराणां हनूमदादीनां कोटिभिर्युक्तः, तथा सुमित्राया अङ्गजो लक्ष्मणस्तं युनक्तीति सुमित्राङ्गजयुग- लक्ष्मणसहितो भवतीत्यर्थः । 'लक्षीण दर्शनाङ्कनयोः'। 'ज्ञाने मनुते बोधत्यवधरति च बुध्यतेऽवधारयति । अवयाति चाऽवगच्छत्यवैति लक्षयति वेत्ति जानाति ॥ ज्ञानार्था दर्शनार्थाश्च सन्ति ये केऽपि धातवः । ते वहन्ति यथौचित्यमविभेदं परस्परम् ॥ इत्युक्तेर्दर्शनार्थोऽप्ययं धातुर्ज्ञानार्थत्वेन दर्शितः। 'सिन्धुनद्यां गजमदेऽब्धौ देशेऽनङ्गभेदयोः।' इत्यनेकार्थः ॥ ४१५ कश्मीरांस्तत्क्षणादेव रामो लङ्कामिवाग्रहीत् । प्रजाप्रीतिविधानाय श्रीसाहिर्विहितोद्यमः॥ ४१६ व्याख्या- तत्क्षणादेव कश्मीरप्राप्त्यवसर एव, प्रजायाः प्रीतिविधानाय आनन्दकरणाय, विहितोद्यमः कृतोत्साहः, श्रीसाहिः कश्मीरान् अग्रहीजग्राह । कः कामिव ! रामो लङ्कामिव-यथा रामो लकां तत्क्षणादेव जग्राह तथाऽयमपि ॥ ४१६ चित्रं रामोऽवधीद् बाणै रावणं निजपाणिना। साहिना तु कृताधर्मो न हतो निहतोऽहसा ॥ ४१७ व्याख्या-रामो दाशरथिः, निजपाणिना स्वहस्तेन, बाणैः कृत्वा रावणमवधीजघान । तु विशेषे, अयं विशेषःसाहिना श्रीअकबरेण कृतोऽधर्मोऽन्यायप्रवृत्तिर्येन स कृताधर्मो नृपतिः, न हतः शस्त्रेण न मारितः, किन्त्वंहसा खपापेन निहतः । चित्रमाश्चर्यमेतद् रामेण बाणेन रावणो हतः, अनेन तु बाणेन अहतोऽप्यंहसा हत इति लोके विस्मयोऽभव"दित्यर्थः ॥ ४१७ Jain Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122