Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 77
________________ ६८ मश्रिकर्मचन्द्रवंशावलीप्रबन्ध । [४२४ -४३० व्याख्या- एवममुना प्रकारेण, दिग्विजयं कृत्वा विधाय, तथा बलाद् हठाद्, वैरिकुलं शत्रुवृन्दं जित्वा, श्रीमल्लाभपुरे प्रभुः साहिरविशत् प्रविवेश । किम्भूते ! पौरैर्नागरिकैः कृता शोभा तोरणादिलक्षणा यस्मिन् तत् तस्मिन् पौरकृतशोभे । बलाद्धार्थेऽव्ययम् ॥ ४२३ गुरवोऽपि समाजग्मुः सम्मुखं विबुधान्विताः। दत्ताशिषा प्रभोः प्रीतिं जनयन्तः पदे पदे ॥ ४२४ व्याख्या-गुरवोऽपि श्रीजिनचन्द्रसूरयः, विबुधैः पण्डितैः श्रीजयसोम-गुणविनय-रत्ननिधान-समयसुन्दराधैरन्विताः सहिताः, सम्मुखमभिमुखं समाजग्मुः समेताः । किं कुर्वन्तो गुरवः ? दत्ता या आशीधर्मलाभेतिलक्षणा तया दत्ताशिषा, पदे पदे स्थाने स्थाने प्रीतिमानन्दं जनयन्त उत्पादयन्तः ॥ ४२४ अन्यदा साहिना धर्मगोष्ठीव्यतिकरे मुदा । वादिता गुरवो नूनं जिनचन्द्रयतीश्वराः॥ ४२५ व्याख्या- अन्यदाऽन्यस्मिन्नवसरे, साहिनाऽकबरेण, धर्मगोष्ठ्या धर्मसंलापस्य यो व्यतिकरो व्यतिकीर्णता तस्मिन् धर्मगोष्ठीव्यतिकरे धर्मगोष्ठीप्रस्ताव इत्यर्थः । मुदा हर्षेण, नूनं निश्चितं जिनचन्द्रयतीश्वरा गुरवो वादिताः शब्दिताः ॥ ४२५ तेनोक्तं दर्शनं कापि युष्मदर्शनसन्निभम् । निभनिर्मुक्तमायुक्तं नैवास्माभिर्निरीक्षितम् ॥ ४२६ व्याख्या-तेन साहिनोक्तम् - हे गुरो। युष्माकं दर्शनं धर्मस्तत्सन्निभं तत्सदृशं दर्शनं धर्मः कापि जगति नैव निरीक्षितमवलोकितम् । किम्भूतं दर्शनम् ? निभं व्याजस्तेन निर्मुक्तं रहितं निभनिर्मुक्तम् । पुनः किम्भूतम् ? आयुक्तमहिंसायां व्यापृतम् । 'दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । खप्नलोचनयोश्च' – इत्यनेकार्थः ॥ ४२६ मानसिंहः सहास्माभिर्निरुपानत्कपादगः। यां व्यथां सुमना सेहे तां को वक्तुमपि प्रभुः ? ॥ ४२७ 0 व्याख्या-हे गुरो! अस्माभिः सह मानसिंहः सुमनाः प्राज्ञः, निरुपानत्काभ्यां पादत्राणरहिताभ्यां पादाभ्यां गच्छतीति निरुपानत्कपादगः, यां व्यथां पीडां सेहे ममर्ष, तां व्यथां वक्तमपि कथयितुमपि, कः प्रभुः कः समर्थः ॥ ४२७ अस्माभिर्बहुधोक्तोऽपि निजाचारचिकीर्षया। योऽङ्गीकृतनिजाचारप्रतिज्ञा नात्यवाहयत् ॥ ४२८ व्याख्या-हे गुरो! अस्माभिर्बहुधा बहुभिः प्रकारैरुक्तोऽपि भणितोऽपि, निजाचारस्य आत्मीयचरित्रस्य, अङ्गीकृता 25 खीकृता या प्रतिज्ञा सङ्गरोऽभ्युपगमस्तां न अत्यवाहयत् न अतिचक्रमे । कया? निजाचारचिकीर्षया आत्मीयधर्मानुष्ठानपालनेच्छया ॥४२८ काश्मीरं वर्त्म यः शैलशिलाशकलसङ्कलम् । पद्भ्यामेवातिचक्रमे गम्यं यन्न मनोरथैः ॥ ४२९ व्याख्या-हे गुरो ! यो मानसिंहः कश्मीराणामिदं काश्मीरं वर्त्म मार्गम् , पद्भ्यां चरणाभ्यामेव अतिचक्रमे * लङ्घयति स्म । किम्भूतं वर्त्म ? शैलस्य गिरानि शिलाशकलान्युपलखण्डानि तैः सङ्कलं व्याप्तम्। पुनः किम्भूतम् ? यन्मनोरथैराशाभिर्न गम्यं न लक्ष्यम् । यत्र रथैरपि न गन्तुं शक्यते तत्र अनेन गतमिति च्छायार्थः ॥ ४२९ क्रियातुष्टैरतोऽस्माभिर्निरीहस्यान्यवस्तुनि । ___ कश्मीरेषु ददे मीनाभयदानं समीहितम् ॥ ४३० व्याख्या- हे गुरो ! अतो हेतोरस्माभिः, क्रिया साध्वाचारस्तया तुष्टै?ष्टैः, अन्यवस्तुनि पक्ष्मवत्यादौ निरीहस्य ३ निःस्पृहस्य अस्य श्रीमानसिंहस्य, कश्मीरेषु समीहितमेतदिष्टं मीनाभयदानं मीनानां मत्स्यानामभयदानं ददे दत्तम् । कश्मीरेषु सरोमत्स्या एतदुक्त्या अस्माभी रक्षिता इत्यर्थः ॥ ४३० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122