Book Title: Mantri Karmchandra Vanshavali Prabandh Author(s): Jinvijay Publisher: Bharatiya Vidya BhavanPage 67
________________ ५८ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [ ३५५ - ३६१ सामाजिकजनाध्यक्षं सामजं निजमुत्तमम् । साहिजलालदीर्यस्य प्रसादीकृतवान् कृती ॥ ३५५ व्याख्या- यस्य श्रीकर्मचन्द्रमन्त्रिणः, जलालदी साहिः, सामाजिकजनाः पार्षद्यलोकास्तेषामध्यक्षं प्रत्यक्षं सामाजिकजनाध्यक्षम् , निजमात्मीयं सामज हस्तिनं प्रसादीकृतवान् दत्तवानित्यर्थः । किम्भूतः साहिः ? कृती विद्वान् ॥ ३५५ तुरङ्गः सारसौवर्णापस्करेण सुसंस्कृतः। साहिना मृगयामार्गे ददे यस्मै प्रमोदतः ॥ ३५६ व्याख्या- यस्मै श्रीमन्त्रिणे, साहिना श्रीअकबरेण, मृगयामार्ग आखेटवर्त्मनि, प्रमोदतो हर्षेण, सारसौवर्णापस्करण प्रधानहैमपर्याणखलीनवल्गाद्यङ्गेन, सुसंस्कृतः सुष्ठलङ्कतस्तुरङ्गो वाजी ददे अदायि । 'अवयवे अपस्करो रथाङ्गम् । यद्यप्यपस्करशब्दो रथाङ्गे वर्तते, तथाप्यसाववयवमात्रे ग्राह्यः, तेनात्र वाजिभूषावयवेऽपि प्रयुज्यमानो न दोषाय ॥ ३५६ गतं धनस्य यस्य स्राक् चकार करगोचरम् । । साहिर्विश्वासमासाद्य विश्वविश्वाससद्मनः॥ ३५७ व्याख्या-यस्य श्रीमन्त्रिराजस्य, विश्वासं विस्रम्भमासाद्य प्राप्य, धनस्य द्रव्यस्य, गझं भाण्डागारम् , साक् शीघ्रम् , करगोचरं पाणिविषयं चकार । गञ्जरक्षणं यस्मै अदत्तेत्यर्थः । किम्भूतस्य यस्य ? विश्वस्य जगतो विश्वाससम विस्रम्भगृहं तस्य विश्वविश्वाससमनः । 'गञ्जो भाण्डागारे रीढाखन्योः' इत्यनेकार्थः । गञ्जति गञ्जनं वा, गञ्जो भाण्डागारे पुंक्चीबः ॥ ३५७ वाजिसामजपत्त्यादिलोकसंवासहेतवे । तोसामदेशसाम्राज्यं ददौ तस्मै महीपतिः॥ ३५८ व्याख्या-तस्मै श्रीकर्मचन्द्राय, महीपतिः साहिः, वाजिनो हयाः, सामजा हस्तिनः, पत्तयः पदातयः, ते आदौ येषां लोकानां सेवकजनानां ते वाजिसामजपत्त्यादिलोकास्तेषाम् , संवासोऽवस्थानम् , तद्धेतवे तन्निमित्तम् , तोसामदेशस्य साम्राज्यमाधिपत्यं ददौ ।। ३५८ मूलनक्षत्रदोषेण युता जाता सुताऽन्यदा। श्रीसलेमसुरत्राणमन्दिरे सुतसुन्दरे ॥ ३५९ व्याख्या- अन्यदाऽन्यस्मिन् काले, श्रीसलेमसुरत्राणमन्दिरे साहिजादाशेखूजीगृहे, मूलनक्षत्रदोषेण युता सहिता सुता दुहिता जाता अजनिष्ट । मूलस्य प्रथमपादादौ जातेत्यर्थः । रत्नमालायां मूलजातस्यैवं दोषः प्रत्यपादि 'अभुक्तमूलसम्भवं परित्यजेच्च बालकम् । समाष्टकं पिताऽथवा न तन्मुखं विलोकयेत् ॥ १ तदाद्यपादके पिता विपद्यते जनन्यथ । धनक्षयस्तृतीयके, चतुर्थकः शुभावहः ॥२' किम्भूते ?, सुतेन षुसरूसुरत्राणेन सुन्दरे मनोहरे ॥ ३५९ ततः श्रीसाहिना शेष(ख)प्रमुखा विबुधा नराः। तद्दोषस्य प्रतीकारकृते व्यापारिता ननु ॥ ३६० व्याख्या-नन्वित्यामन्त्रणे, ततः सुताजन्मानन्तरम् , श्रीसाहिना शेष(ख)प्रमुखा अवलफजलप्रभृतयो विबुधा विच3' क्षणाः, नरा आमन्त्र्य, तद्दोषस्य मूलजातदोषस्य, प्रतीकारकृते स्फेटनार्थम् , व्यापारिता नियोजिताः । यथा, हे दक्षाः । भवद्भिर्मूलजातदोषमोषाय यत्नः कोऽपि कर्तव्य इति ॥ ३६० समाहृय ततोऽमात्यं साहिरेवं समादिशत् । श्रीजैनदर्शने शान्तिविधिर्योऽस्ति विधेहि तम् ॥ ३६१ व्याख्या-ततः श्रीशेषा(खा)दीनां कथनानन्तरम् , अमात्यं सचिवं समाहूय आकार्य, साहिरेवं वक्ष्यमाणं समादिशत् Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122