Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 65
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [३४१-३४७ प्रसादात् पार्श्वनाथस्य गुरोश्च कुशलप्रभोः। साहेर्जलालदीनस्य श्रुतदृष्टगुणावलेः ॥ ३४१ महाराजाधिराजश्रीराजसिंहनिजप्रभु। प्रेषिताप्तजनोत्कृष्टफरमानसमन्वितम ॥ ३४२ समाजगाम सप्रेमप्रसादवचनाद्भुतम् । फुरमानं त्वयाऽत्रागन्तव्यमेवेति भाववत् ॥ ३४३ - त्रिभिर्विशेषकम् । व्याख्या- यस्येल्यध्याहियते यस्य श्रीकर्मचन्द्रस्य, पार्श्वनाथस्य प्रसादादनुग्रहात् , च पुनः कुशलप्रभोगुरोः प्रसादात् , जलालदीनस्य साहेरकबरस्य 'हे मनिन् । त्वया अत्र मत्समीप आगन्तव्यमेव' इति भाववदित्यभिप्राययुक्तम् , फुरमानमादेशपत्रम् , समाजगाम । किम्भूतस्य साहेः! श्रुता-कर्णाभ्यामाकर्णिता, पुरा राजसिंहनृपमुखात्, दृष्टा च चक्षु10 ामवलोकिता, गुणावलिर्दाक्ष्यदाक्षिण्यसौजन्योदात्तत्वादिगुणराजियेन स श्रुतदृष्टगुणावलिस्तस्य श्रुतदृष्टगुणावलेः । किम्भूतं फुरमानम् ! महाराजाधिराजश्रीराजसिंहाख्यो यो निजप्रभुः स्वखामी, तेन प्रेषिता मन्त्रिणमाकारयितुं मुक्ता य आप्तजना अविसंवादिवाक्ययक्तारस्तैः सह उत्कृष्टं प्रधानं यत्तीयं फुरमानं तेन समन्वितं राजसिंहफुरमानयुतम्, साहिफुरमानमागच्छदित्यर्थः । इह 'समाप्तमिव पूर्वार्धे कुर्यादर्थप्रकाशनम्' इति कविसमयमुल्लङ्घय पादचतुष्टयेऽपि संलग्नस्यैव समासस्य करणादू दोषशङ्का न करणीया । महाकविप्रयोगेषु कचित् तथा दर्शनात् । यथा 'पुरःसुरतसंरम्भरसद्विगुणितच्छवि-पार्वतीवदनालोकलालसः पश्य शङ्करः ॥” इति । पुनः किम्भूतम् ! सप्रेम प्रेमसहितं यत् प्रसादवचनमनुग्रहवाक्यं तेन अद्भुतमाश्चर्यकारि ॥३४१ - ३४२ - ३४३ समादाय महायोधानायोधनरसोद्धरान् । तुरगानेकपानेकपदातिततिसंयुतः॥ ३४४ समायातो महामन्त्री महङ्ख्या शकुनैः शुभैः। अजमेरौ गुरुस्तूपयात्रां कर्तुं समाहितः॥ ३४५ - युग्मम् । व्याख्या- महामन्त्री महाधीसखः श्रीकर्मचन्द्रः, समाहितः समाधानोपेतः, महा महालक्ष्म्योपलक्षितः, शुभैः प्रयाणं प्रत्यनुकूलैः, शकुनैर्दैवशंसिनिमित्तैः, अजमेरौ गुरोः श्रीजिनदत्तसूरेयः स्तूपः - उच्छ्रितो मृदादिविकारःतस्य या यात्रा तां कर्तुं समायातः समाययौ । किं कृत्वा ? आयोधनं रणं तत्र यो रसो रागस्तेनोद्भुरान् तुङ्गान् महायोधान् महासुभटान , सह आत्मना सममादाय गृहीत्वा तथा तुरगान् वाजिनः सह आदाय; तथा अनेकपान् हस्तिनः सह आदाय । किम्भूतो महामन्त्री ! अनेके बहवो ये पदातयः पत्तयस्तेषां या ततिः श्रेणिस्तया संयुतः सहितः अनेकपदातिततिसंयुतः॥३४४-३४५ क्रमाल्लाभपुरं लेभे लाभाय विहितोद्यमः। अविच्छिन्नप्रयाणेन प्रीणितमाणिसन्ततिः ॥ ३४६ व्याख्या-मन्त्री अविच्छिन्नप्रयाणेन अविश्रान्तगमनेन, क्रमात् क्रमेण, लाभपुरं लेमे प्राप । किम्भूतः ? लाभाय • विशिष्टवस्तुप्राप्तये विहितः कृत उद्यमः प्रयात्रा येन स विहितोद्यमः । पुनः किम्भूतः ! प्रीणिता तोषिता प्राणिसन्ततिभक्तजनश्रेणिर्येन स प्रीणितप्राणिसन्ततिः ॥ ३४६ विना प्रयासमेवासौ विनाऽपि परसेवनम् । श्रीसाहेर्दर्शनं प्राप पुण्ययोगाच्छुभेऽहनि ॥ ३४७ व्याख्या-असौ महामन्त्री, प्रयासमायासं विनैव, तथा परस्य उम्बरादेः सेवनं सेवां विनाऽपि, विनायोगे द्वितीया, ४ पुण्ययोगात् सुकृतसंयोगात्, शुमे कल्याणेऽहनि दिवसे, श्रीसाहेरकबरस्य दर्शनं प्राप ॥ ३४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122