Book Title: Mantri Karmchandra Vanshavali Prabandh Author(s): Jinvijay Publisher: Bharatiya Vidya BhavanPage 68
________________ ३६२-३६८] पाठकश्रीजयसोमविरचित आदिष्टवान् अचीकथदित्यर्थः । तदेवाह - हे मन्निन् ! श्रीजैनदर्शने जैनमते, यः शान्तिविधिजैनसमयप्रसिद्धो दोषशान्त्यै अस्ति विद्यते, तं शान्तिविधि विधेहि कुरुष्व ॥ ३६१ सम्मान्य साहिसंदिष्टं विशिष्टविधिनाऽमुना। कारितं शान्तिकलानं स्वर्णरूप्यमयैर्घटैः ॥ ३६२ माङ्गल्यदीपवेलायां शेषू(खू)जीः साहिनन्दनः। आयातः सत्कृतो रौप्यसहस्रदशकाणात् ॥ ३६३ – युग्मम् । व्याख्या- अमुना श्रीकर्मचन्द्रेण, साहिना श्रीअकबरेण संदिष्टं कथितम् – यत्त्वं शान्तिकं विधेहीत्येतद्रूपम् - सम्मान्य बहु मानयित्वा, 'तसलीम'पुरस्सरं स्वीकृतेत्यर्थः। वर्ण-रूप्यमयैर्घटैः सौवर्ण-रौप्यकलशैः, विशिष्टविधिना सुन्दरशास्त्रोक्तप्रकारेण, शान्तिकस्नानं कारितम् । श्रीजिनप्रतिमानवग्रहदिक्पालादिव्यवस्थापनादिशान्तिकविधिर्गुरूपदेशतोऽवसेयः । तथा माङ्गल्यदीपवेलायां मङ्गलहेतुप्रदीपकरणावसरे, साहिनन्दनः श्रीअकबरपातसाहिपुत्रः शेष(खू )जीः आयातः । रौप्याणां रूप्य- 0 नाणकविशेषाणां सहस्रदशकस्य यदर्पणं दानं दशसहस्रराजतढौकनमित्यर्थः । तस्माद्रौप्यसहस्रदशकार्पणात् सत्कृतो गौरवितः । मङ्गले साधुर्मङ्गल्यः । 'तत्र साधुः' इति यत् । 'मङ्गल्यो रुचिरेऽश्वत्थे त्रायमाणे मसूरके बिल्वे' इत्यनेकार्थः। रुचिरे मङ्गल. हेतौ वाध्यलिङ्गः ।। ३६२-३६३ शान्तिकलानपानीयमानीय नयनद्वये । श्रीसाहेः सावरोधस्य लगयामास शान्तये ॥ ३६४ व्याख्या- मन्त्री सावरोधस्य अन्तःपुरसहितस्य श्रीसाहेः, शान्तये दोषोपशमाय, नयनद्वये नेत्रयुगे, शान्तिस्नानपानीयं शान्तिकजलमानीय नीत्वा, लगयामास लगयति स्म । लग्मे सङ्गे ॥ ३६४ । मुदमासादयामास कृत्येऽस्मिन् मत्रिणा कृते । दोषमोषरमापोषकारणैः को न तुष्यति ॥ ३६५. व्याख्या-मन्त्रिणाऽस्मिन् शान्तिकस्नानरूपे कृत्ये कार्ये कृते सति, श्रीसाहिर्मुदं हर्षमासादयामास प्राप। यतो 20 दोषाणाममङ्गलरूपाणां यो मोषोऽपनयनम् , रमायाः शान्तिलक्ष्म्या यः पोषः पुष्टिस्तयोर्यानि कारणानि हेतवस्तैर्दोषमोषरमापोषकारणैः, को न तुष्यति दृष्यति ! अपि तु सर्वोऽप्येवंविधविधिविधाने प्रीयत इत्यर्थः ॥ ३६५ अन्यदा कोविदव्यूहे गुणागुणविचारिणि । प्रगुणे साहिराह स्म को गुणी जैनदर्शने ॥ ३६६ व्याख्या-अन्यदाऽन्यस्मिन् प्रस्तावे, गुणांश्च अगुणांश्च विचारयति विमृशतीत्येवंशीलो गुणागुणविचारी, तस्मिन् । गुणागुणविचारिणि, कोविदव्यूहे पण्डितसमूहे सति, साहिराह स्म अब्रवीद-भोः पण्डिताः! प्रगुणे प्रकृष्टगणे निर्दोषे जैनदर्शने को गुणी प्रशस्तगुणवान् ? । अतिशायने मत्वर्थीयः ॥ ३६६ इति साहिनोक्ते सति कोविदः [ यदुक्तं तदाह ] जिनचन्द्रो गुरुः प्रौढमाहात्म्योऽस्ति महामतिः।। श्रुत्वोक्तं साहिरपाक्षीत् कः शिष्योऽमुष्य वर्तते ? ॥ ३६७। व्याख्या-प्रौढं प्रवृद्धं माहात्म्यं महिमा यस्य असौ प्रौढमाहात्म्यः, महामतिर्महाधिषणो जिनचन्द्रो गुरुः श्रीजिनचन्द्रसूरिः, अस्ति विद्यते । इतीति गम्यते । इति श्रुत्वा परेभ्यो उक्तं निशम्य, ततः साहिः अप्राक्षीत् अपृच्छत् - अमुष्य श्रीजिनचन्द्रसूरेः कः शिष्यो भक्तो वर्तते ! ॥ ३६७ ।। कर्मचन्द्र इति प्राज्ञैरुक्तेऽथाहूय मन्त्रिणम् । साहिः प्राह गुरुस्तेऽत्र यथाऽऽयाति तथा कुरु ॥ ३६८ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122