Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३२३-३२८]
पाठकश्रीजयसोमविरचित व्याख्या-यः श्रीकर्मचन्द्रः, राजसिंहराज्ये श्रीसिन्धुमण्डलप्रभुतां श्रीसिन्धुदेशैश्वर्यम् , प्राप्य अधिगम्य, सतलंज-डेक-रावीसिन्धुषु सतलंज-डेक-रावीनदीषु तिसृषु, मीनावनं मत्स्यरक्षणम् , विदघे चकार ॥ ३२२
राजसिंहं समभ्यर्थ्य चतुरङ्गचमूयुजा। हडफास्थानसंस्थायिबलोचानभिजग्मुषा ॥ ३२३ बलोचानां बलोचानां वाहिनी रणगाहिनी।
तर्जिता च जिता येन कृता धनिकवर्जिता ॥ ३२४ - युग्मम् । व्याख्या-येन श्रीकर्मचन्द्रेण, बलोचानां म्लेच्छविशेषाणाम् , वाहिनी सेना, तर्जिता भसिता । तर्जङ्क तर्ज भर्त्सने । च पुनः, जिता पराभूता । तथा धनिकेन स्वामिना, वर्जिता रहिता धनिकवर्जिता कृता। किम्भूतानां बलोचानाम् ? बलेन सैन्येन सामर्थ्येन चोच्चास्तुङ्गा अतिशायिनो बलोच्चास्तेषां बलोच्चानाम् ; किम्भूता वाहिनी ? रणं सङ्घाम गाहते विलोडयतीत्येवंशीला रणगाहिनी; किम्भूतेन येन ! राजसिंह समभ्यर्थ्य आग्रहेण याचित्वा, चत्वार्यङ्गानि गजवाजिरथपत्ति- " लक्षणानि विद्यन्ते यस्याः सा चतुरङ्गा एवंविधा या चमू: सेना, तां युनक्तीति चतुरङ्गचमूयुक्तेन चतुरङ्गचमूयुजा, राजसिंहकथनेन चतुरङ्गचमूसहितेनेत्यर्थः। पुनः किम्भूतेन ? हडफास्थाने संस्थायिनो ये बलोच्चास्तानभि अभिमुखं हन्तुं जग्मुषा गतेन ॥ ३२३-३२४
स किंप्रभुर्यमाश्रित्य सेवको नाभिनन्दति।
स सेवकोऽपि किं योऽर्थ खामिनो नैव साधयेत् ॥ ३२५ व्याख्या-स किमिति प्रश्ने प्रभुः स किंप्रभुः, कुत्सितः प्रभुरित्यर्थः। यं प्रभुमाश्रित्य अङ्गीकृत्य, सेवको भक्तलोकः, नाभिनन्दति न समृद्धिमानोति; तथा स सेवकोऽपि किमिति प्रश्नः स सेवकोऽपि कुत्सित इत्यर्थः, यः सेवकः खामिनः प्रभोरथ कार्य वैरिहननादि नैव साध्येन्निष्पादयेत् । 'किं क्षेप-निन्दयोः प्रश्ने वितर्के' इत्यनेकार्थः । यतः
'स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमायेषु च सर्वसम्पदः॥१॥ इति भारविः॥ ३२५
या बन्दी निजसैन्ये समागता वैरिविषयसम्भूता।
वस्त्रानदानपूर्व सा नीता येन निजगेहे ॥ ३२६ व्याख्या-या बन्दी हठाकृष्टा स्त्री, बलवतो हस्ते क्षिप्तो राजपुत्रादिश्च, निजसैन्य आत्मीयकटके, वैरिविषयसम्भूता शत्रुदेशसम्बन्धिनीत्यर्थः, समागता आयाता सा बन्दी, वस्त्रान्नदानपूर्व वसनाशनवितरणपुरस्सरम् , येन श्रीकर्मचन्द्रेण निजगेहे खसदने, नीता प्रापिता ॥ ३२६
___ कारयामास चैत्येषु लानं यः प्रतिवासरम् ।
खदेशे द्रव्यदानेन शोल्कशालिकलोकतः ॥ ३२७ व्याख्या-यः श्रीमन्त्रिराट् , प्रतिवासरं प्रतिदिनम् , खदेशे आत्मीयमण्डले, शुल्कशालायां नियुक्तः शौल्कशालिक एवं. विधो यो लोको जनस्तस्माद, द्रव्यदानेन अर्थोचितद्रविणवितरणेन, चैत्येषु जैनविहारेषु, स्नात्रं कारयामास अचीकरत् ॥३२७
स्तूपं श्रीजिनदत्तस्य कुशलस्य गुरोरपि ।
अचीकर गुरुपीत्या फलवर्धिपुरीस्थितः ॥ ३२८ व्याख्या- य इति गम्यते यः श्रीकर्मचन्द्रः, फलवर्धिपुरीस्थितः फलवधिकापुरस्थितः सन्, श्रीजिनदत्तस्य श्रीजिनदत्तसूरेः, कुशलस्य गुरोरपि श्रीजिनकुशलस्रेरपि, गुरोरुपरि या प्रीतिरानन्दः, यद्वा गुर्वी गरिष्ठा या प्रीतिस्तया गुरुप्रीत्या, स्तूपमचीकरत् कारयामास । 'स्तुवो दीर्घश्च' ष्टुञतः पो धातोर्दीर्घश्च । 'स्तूपो भूमिसमुच्छ्यः ' प्रक्रियोणादौ ॥ ३२८
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122