________________
श्रीअकबरण
३१०-३१६]
पाठकश्रीजयसोमविरचित साम्प्रतं यदनेन मन्त्रिणा कृतं तदाह -
साहिना सुप्रसन्नेन यत्स्त्रीणां स्वर्णनूपुरे ।
दत्त्वा महत्त्वमत्यर्थमेधितं तस्य भूतले ॥ ३१० व्याख्या-साहिना कृता व्यवस्था साहिरेव अन्यथा कर्तुमलम्भूष्णुरिति; सुप्रसन्नेन मन्त्रिणोपरि प्रसादवता साहिना श्रीअकबरेण, यस्य मन्त्रिणः स्त्रीणां योषितां यत्स्त्रीणाम् , वर्णनूपुरे हेमतुलाकोटी दत्त्वा, तस्य श्रीकर्मचन्द्रस्य, महत्त्वं महिमा, अत्यर्थमतिशयेन, भूतले भूमण्डल एधितं प्रवर्धितम् ॥ ३१०
ततः प्रभृति सर्वेषां वत्सराजानुयायिनाम् ।
अमात्यानां नितम्बिन्यः पादे वर्ण हि पर्यधुः ॥ ३११ व्याख्या-ततः प्रभृति तद्दिनादारभ्य, वत्सराजस्य मन्त्रिणोऽनुयान्तीति वत्सराजानुयायिनस्तेषां वत्सराजवंश्यानाम् , सर्वेषाममात्यानां मन्त्रिणाम् , नितम्बिन्यः स्त्रियः, पादे वर्णम् , हि स्फुटम् , पर्यधुः परिदधति स्म ॥ ३११ ।
तुरसमखानानीतां गौर्जरविषयाश्रितां वणिग्बन्दीम् ।
तद्देयद्रविणार्पणविधिना यो मोचयामास ॥ ३१२ व्याख्या-यो मन्त्री, तुरसमखानेन आनीता दौकिताम्, गौर्जरविषयाश्रितां गौर्जरदेशाध्यासितां गौर्जरदेशसम्बन्धिनीमित्यर्थः, वणिग्बन्दीम् , तेषां गृहीतगौर्जरवणिजां यद्देयं तुरसमखानस्य दातव्यं द्रविणं द्रव्यं सहस्रलक्षादि, तस्य योऽर्पणविधिर्वितरणविधानम् , तेन तद्देयद्रविणार्पणविधिना, मोचयामास मुत्कलयति स्म ॥ ३१२
याचकेभ्योऽथ जैनेभ्यः प्रवाहेण समर्पयन् ।
वाहाननेकपाश्चापि यः खनामाकृताक्षयम् ॥ ३१३ व्याख्या- अथेति समुच्चये, यो मन्त्री, प्रवाहेण लोकव्यवहारेण, जैनेभ्यो जिनपक्षीयेभ्यो याचकेभ्यो वनीपकेभ्यः, वाहान् अश्वान् , अनेकपांश्चापि हस्तिनश्चापि, समर्पयन् ददत् सन् , खनाम निजनामधेयमक्षयमव्ययमकृत कृतवान् । 'प्रवाहो व्यवहाराम्बुवेगयोः' इत्यनेकार्थः ॥ ३१३
शत्रुञ्जये मधूपन्ने जीर्णोद्धारं चकार यः।
__ येनैतत्सदृशं पुण्यकारणं नास्ति किश्चन ॥ ३१४ व्याख्या-यो मन्त्री, शत्रुञ्जये पुण्डरीकाद्रौ, तथा मधूपन्ने मथुरायाम् , जीर्णोद्धारं जीर्णपतितचैत्यसमारचनं चकार । येन हेतुना, एतत्सदृशं जीर्णोद्धारसदृक्षम्, पुण्यकारकं सुकृतहेतुः, न किश्चन किश्चिदस्ति विद्यते । नवीनचैत्यकरणाजीर्णोद्धारे त्वष्टगुणं पुण्यम् । यतो
"नूतनार्हद्वरावासविधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् ॥" इत्युपदेशतरङ्गिण्याम् । किश्चनेत्यत्र चनेति चिदर्थे किंवृत्तात् परत एव चास्य प्रयोगो भवति ॥ ३१४
प्रतिदेशं प्रतिग्राम प्रतिद्रङ्गं महात्मना।
आ काबिलपुरात् तेने येन लम्भनिका निजा ॥ ३१५ व्याख्या-येन महात्मना महाशयेन श्रीकर्मचन्द्रेण, प्रतिदेशं देशं देशं प्रति प्रतिदेशम् , तथा प्रतिग्राम सकल- 30 ग्रामेषु, तथा प्रतिद्रङ्ग प्रतिनगरम् , काबिलपुरं आ मर्यादीकृत्य आ काबिलपुरान्निजा आत्मीया लम्भनिका, तेने विस्तारिता । प्रतिद्रङ्गमिति 'द्रमो णिद्वा' इति द्रमगतावित्यस्माद्गः प्रत्ययो भवति । 'द्रको नगरम्' औणादिकोऽयम् ॥ ३१५ ,
अङ्गान्येकादशाऽपि स्राक् श्रुतानि श्रुतधारिणाम् । गुरूणां सन्निधावर्थसूत्रादिक्रमतोऽमुना ॥ ३१६ :
20
125
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org