________________
मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[३०३-३०९
उत्पन्नः नरवजो मनुष्यसमूहः, अमात्येन श्रीकर्मचन्द्रेण, न अवष्टब्धः खमर्यादातः पतन्न हस्ते धारितः । एतावता सर्वेऽपि ज्ञातिजात्याधुत्पन्ना नरा अनेन द्रविणव्ययेन पालिता इत्यर्थः ॥ ३०२
_ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति चतुष्टयीम् ।
वर्णानां रक्षताऽनेन निश्चिन्तो विहितो विधिः ॥ ३०३ व्याख्या-अनेन श्रीकर्मचन्द्रेण मन्त्रिणा, ब्राह्मणा द्विजाः, क्षत्रिया राजन्याः, वैश्या वाणिज्यादिवृत्तिभाजः, शूद्राश्च पज्जाः- इति वर्णानां चतुष्टयीं रक्षता पालयता सता, विधिब्रह्मा, निश्चिन्तः - चिन्ता असद्विकल्पः, निर्गता चिन्ता अस्मादिति निश्चिन्तो विहितः कृतः । चिन्ता न काऽप्यस्तीति भावः । तस्यास्तदरक्षणाद विनाशे पुनः सृष्टिकरणप्रयासचिन्ता तस्य भवेदिति भावः ॥ ३०३
कारवः प्रामरा म्लेच्छाः कदर्या मानवा नवाः ।
तोषं प्रापुः समायाताः सत्रागारेऽस्य मन्त्रिणः ॥ ३०४ व्याख्या-कारवः शिल्पिनः, प्रामराः पामराः, म्लेच्छाः शबरादयः, कदर्या दृढमुष्टयः, नवाः परदेशीयाः, मानवा मनुष्याः, अस्य मन्त्रिणः श्रीकर्मचन्द्रस्य सत्रागारे समायातास्तोषं तुष्टिं प्रापुः ॥ ३०४
साधर्मिकवणिग्लोकवर्गाय समकं ददौ।
कुटुम्बसंख्यया पूर्व वार्षिकं वार्षिकं व्ययम् ॥ ३०५ 1 व्याख्या-यो मन्त्री साधर्मिकाः सधर्माणः, वणिग्लोकाश्च वणिजजनास्तेषां यो वर्गो जातीयसमूहस्तस्मै साधर्मिकवणिग्लोकवर्गाय, समकं युगपत् , कुटुम्बसंख्यया कुटुम्बेयत्तया, पूर्व पुरा, वार्षिकं वार्षिकं व्ययं द्रव्योत्सगै ददौ । वर्षे भवो वार्षिकः । एतावदेतावदस्य कुटुम्बे लगिष्यतीति विमृश्य पूर्वमेव वर्षभोग्यमन्नादि तत्कुटुम्बस्थजनगणनया दत्तवानित्यर्थः । वर्गस्तु सदृशां सदृशां सजातीयानां प्राणिनां वृन्दं वर्गो यथा ब्राह्मणवर्ग इत्यादि ॥ ३०५
त्रयोदशसु मासेषु व्यतीतेषु पुनर्मुदा। "
पाथेयं धीसखो दत्त्वा प्रापयत् तान् खमण्डलम् ॥ ३०६ व्याख्या-धीसखः श्रीकर्मचन्द्रमन्त्री, सत्रारम्भदिनात् त्रयोदशसु मासेषु व्यतीतेषु गतेषु सत्सु, मुदा हर्षेण, पुनर्भूयः, तान् समागतजनान् , पाथेयं शम्बलं दत्त्वा, खमण्डलं निजदेशं प्रापयन्नीतवान् ॥ ३०६
मुद्गलतुरसमखानो विलुण्टयन् सारशिवपुरीविषयम् । समधिकसहस्रमानाः प्रतिमा जग्राह या जैनी ॥ ३०७ साहिद्वारे प्राप्तास्ताः संवीक्ष्य प्रमोदमेदखी।
मन्त्रीशो मोचितवान् भत्त्या दीनारदानेन ॥ ३०८-युग्मम् । व्याख्या-मुद्गलतुरसमखानः, सारशिवपुरीविषयं प्रधानशिवपुरीदेशम् , विलुण्ठ्यंश्चोरयन् सन् , या जैनीर्जिनानामिमा जैन्यस्ताः, समधिकसहस्रमानाः कियतीभिरधिकाः सहस्रसंख्याः, प्रतिमाः प्रतिकृतीर्जग्राह । ताः प्रतिमाः साहिद्वारे संवीक्ष्य दृष्ट्वा, प्रमोदेन हर्षेण, मेदखी उपचितः- प्रमोदमेदखी, एवंविधः सन् , मन्त्रीशः श्रीकर्मचन्द्रः, भक्त्या जिनेन्द्राणा" मुपरि परमानुरागेण, दीनारदानेन सौवर्णनाणकवितरणेन, मोचितवान् तत्कराद् दूरीचकार । विक्रमपुरे ताः पूज्यमानाः सम्प्रत्यपि सन्ति । लुण्टक्यवज्ञाचौर्ये, कि लुण्टयति ॥ ३०७ - ३०८
तथोकेशे पुरा वंशे विना सारङ्गसन्ततिम् ।
नार्यः परिदधुनॆव सौवर्णाभरणं पदोः॥ ३०९ व्याख्या-तथेति समुच्चये, पुनर्मत्रिकृत्यं समुच्चयन्नाह - तथा ऊकेशे वंशे, पुरा सारङ्गसन्ततिं साधुसारङ्गसन्तानं 3 विना नार्यः अन्यस्त्रियः, पदोश्चरणयोः, सौवर्णाभरणं हैमालङ्कारम् , नैव परिदधुः परिदधति स्म । साधुसारङ्गसन्ताने याः स्त्रियो भवन्ति ता एव सौवर्णाभरणं चरणयोः परिदधति नान्या इति साहिसेवया तेन बिरुदः प्राप्त आसीत् ॥ ३०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org