________________
२९७ - ३०२ ]
पाठक श्रीजय सोमविरचित
यत्कृते निजपुण्यप्रासादे यश्चकार सुविवेकी । अर्बुदतीर्थावनतः सकलशदण्डं ध्वजारोपम् ॥ २९७
व्याख्या - यः सुविवेकी सुष्ठु विवेकवान् श्रीकर्मचन्द्रः, यत्नस्तीर्थयात्रादिकरणप्रयत्नस्तेन कृतो निष्पादितो यत्नकृतस्तस्मिन् यत्नकृते, निजपुण्यप्रासादे स्वसुकृतदेवगृहे, अर्बुदतीर्थस्य मुद्रलकृतोपद्रवाद् यदवनं रक्षणमर्बुदतीर्थावनं तस्मात् । पञ्चम्यास्तसिल् । कलशश्च सौवर्णः कुम्भः, दण्डश्च सौवर्ण एव ताभ्यां सहितं सकलशदण्डं ध्वजारोपं पताकान्यासं चकार । प्रासादस्तदैव पूर्णो जातः कथ्यते यदा तत्रोपरि कलशदण्डध्वजानामारोपः कृतः स्यात् । तथाऽनेन श्रीमचिणा यकृतः पुण्यप्रासादोऽर्बुदतीर्थरक्षणात् कलशदण्डध्वजमण्डितः कृत इति मन्यामहे ॥ २९७
राष्ट्रकूटकुलोत्तंसराजसिंहप्रसादतः ।
मोचिता येन लोकानां बन्दी च समियानके ।। २९८
४९
व्याख्या - येन श्रीकर्म चन्द्रमत्रिणा, राष्ट्रकूटकुले राष्ट्रकूटान्वय उत्तंस इव शेखर इव यो राष्ट्रकूटकुलोत्तंस एवं- 10 विधो यो राजसिंहस्तस्य प्रसादतोऽनुग्रहात्, समियानके बन्दी च मोचिता । सैनिककराद् विमोच्य खस्थानं नीतेत्यर्थः । हठाकृष्टा स्त्रीर्बन्दी बलवतो हस्ते क्षिप्तो राजपुत्रादिश्च ॥ २९८
आ त्रयोदशमासं यः पञ्चत्रिंशेऽथ वत्सरे । पवित्रं सत्रमारेभे दुर्भिक्षे सार्वदेशिके ॥ २९९
व्याख्या - यः श्रीकर्मचन्द्रः, अथेति मङ्गलार्थः । विक्रमतः शरदां षोडशसु शतेषु व्यतीतेषु सप्तदशशतसम्बन्धिनि पञ्चत्रिंशे वत्सरे वर्षे, आ त्रयोदशमासं त्रयोदशमासान् आ मर्यादीकृत्य आ त्रयोदशमासम् । 'आङ्मर्यादाभिविध्योः' इत्याङ् सीमाद्यर्थः । पञ्चम्या समस्यते वा, स प्राक्संज्ञः । आमुक्तिसंसार आमुक्तेरितिवत् । 'आङ् मर्यादावचन' इत्याड् कर्मप्रवचनीयः । पवित्रं पावनं सत्रं सदादानम्, सार्वदेशिके सर्वदेशे भवं सार्वदेशिकम् । 'अध्यात्मादेष्ठनिष्यते ' । तस्मिन् सार्वदेशिके दुर्भिक्षे दुष्काले आरेमे आरब्धम् । पञ्चत्रिंश इति 'तस्य पूरणे डटू' इति षष्ठ्यन्तात् संख्यावाचिनः पूरणेऽर्थे डट् स्यात् । पञ्चत्रिंशतां पूरणः पञ्चत्रिंश इति ॥ २९९
20
रोगग्रस्ताब लक्षीणजनानां यः कृपानिधिः । पथ्यौषधप्रदानं च निर्ममस्तत्र निर्ममौ ॥ ३००
व्याख्या – च पुनः, यः कृपानिधिः करुणानिधानं श्री कर्मचन्द्रः, तत्र सत्रशालायाम्, ममेति आत्मसम्बन्धेऽव्ययम्, निर्गता ममेति बुद्धिरस्मादसौ निर्ममः, द्रव्ये निःस्पृह इत्यर्थः । एवंविधः सन्, रोगेण आमयेन प्रस्ताः पीडिताः, अबलाः शरीरादिसामर्थ्यरहिताः, क्षीणा राजयक्ष्मादिना क्षयं प्राप्ता ये जना लोकाः, तेषां पथ्यं हितं यदौषधं भेषजम्, यद्वा पथ्यमौषध- 28 मेदः पथ्यं चौषधं च पथ्यौषधे तस्य तयोर्वा यद्दानं तन्निर्ममौ व्यधात् । पथोऽनपेतं पथ्यं 'हृद्यपद्य-' इति साधुः ॥ ३०० अतिसारामयग्रस्तांस्त्रस्तान् क्रूरकरम्भकैः ।
Jain Education International
प्रीणयामास पुण्यात्मा सत्रशालासु मानवान् ।। ३०१
1
व्याख्या - यो मानवान् - मानचित्तोन्नतिस्तद्वान् श्रीकर्मचन्द्रः, सत्रशालासु त्रस्तान् रोगभयविह्वलान् अतिसारामयेन रोगविशेषेण प्रस्तान् पीडितान् जनान्, कूरं भक्तं करम्भकाश्च दध्युपसिक्ताः सक्तवस्तैः कृत्वा प्रीणयामास तोषयामास । " निरामयानकरोदित्यर्थः । किम्भूतो मन्त्री ? पुण्यात्मा पवित्रात्मा, व्यथितनिर्व्यथीकरणे पुण्यात्मत्वमेव हेतुः । यो हि पुण्यात्मा भवति स एव किल कृपया सरुजः पथ्यादिना नीरुजः करोति ॥ ३०१
न सा ज्ञातिर्न सा जातिर्न तद्गोत्रं न तत्कुलम् । नावष्टब्धो मात्येन यत्र जातो नरव्रजः ॥ ३०२
व्याख्या - सा ज्ञातिः खजनो न, सा जातिर्ब्राह्मणादिर्न, तद्गोत्रमन्वयो न, तत्कुलमुप्रादि न, यत्र ज्ञात्यादौ जातः
म० क० नं० प्र० ७
For Private & Personal Use Only
www.jainelibrary.org