________________
४८ मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[२९२-२९६ पश्चाद्गच्छतीत्यनुगस्तेन अनुगेन अनुगामिना येन, मननं विमर्शस्तस्याब्धिः सागरो मननाब्धिः तेन विमृश्य, कृत्यकारिणा मन्त्रिराजेन, यो मीरजाख्यया मीरजेत्याख्यात्या महम्मदहुसेनाख्यो महम्मदहुसेन इतिनामा ख्यातः प्रथितः, स खामिसान्निध्याद्राजश्रीराजसिंहसन्निधानाद् राजसिंहसाहायादित्यर्थः, निर्जितः पराभूतः । यतो महात्मनां महाशयानां किमशक्यं किमसाध्यम् ! ते हि यत्कर्तुमीहन्ते तद्धेलयैव साधयन्तीति ॥ २९० -२९१
साधिता येन सन्धानविग्रहादिविधिज्ञया। - प्रज्ञया सोजतिस्थानसमीयानादिनीवृतः ॥ २९२ व्याख्या-येन श्रीमन्त्रिराजेन, सन्धान सन्धिरकत्वम् , विरुद्धं ग्रहणं खस्थानात् परमण्डले दाहविलोपादि विग्रहो तावादौ येषां यानासनद्वैधाश्रयाणां ते सन्धानविग्रहादयः, तेषां यो विधिविधानं तं जानातीति सन्धानविग्रहादिविधिज्ञा तया प्रज्ञया
बुद्ध्या, सोझतिस्थानसमीयानादिनीवृतः सोझति-समीयानाप्रमुखदेशाः साधिताः खक्शे नीताः । तत्र यानं यातव्यं प्रति ० यात्रा. आसनं विग्रहादिनिवृत्तिः, द्वैधमेकेन सन्धायान्यत्र यात्रेत्यर्थः । अशक्त्या बलवदाश्रयणमाश्रयः संश्रयाख्यः ॥ २९२
यो जावालपुरं गत्वा तदधीशं वशंवदम् ।
_ विधाय सिंहपादाने निधायाधुंदमाददे ॥ २९३ व्याख्या- यः श्रीकर्मचन्द्रमन्त्री, जावालपुरं सौवर्णगिरि गत्वा, तस्य जावालपुरस्य अधीशं खामिनं तदधीशं, वशंवदं वशवर्तिनं विधाय कृत्वा, सिंहपादाब्जे श्रीराजसिंहचरणकमले निधाय संस्थाप्य, अर्बुदमर्बुदाचलमाददे जग्राह । 15 जावालेशं पुरस्सरीकृत्य श्रीराजसिंहसिंहसाहाय्यात् श्रीअर्बुदाचलगजराजमारुरोह श्रीमन्त्रिराज इति भावः। वशंवदमिति 'प्रियवशे वदः खच्' इति खच् खित्वान्मुमागमः ॥ २९३ -
मुद्गलसैन्याक्रान्तेर्बुदाचले येन साहिवचनेन ।
विहिता सुतीर्थरक्षा चैत्यानां रक्षणादेव ॥ २९४ व्याख्या- येन श्रीमन्त्रिराजेन, मुद्गलसैन्येन यवनसेनया आक्रान्त आश्रिते अध्यासिते मुद्गलसैन्याक्रान्ते अर्बुदाचले, १० साहिवचनेन श्रीअकबरपातसाहिफुरमाणेन, चैत्यानां विमलदण्डनायकादिनिर्मापितविहाराणाम् , रक्षणादेव अभङ्गवृत्त्या व्यवस्थापनादेव, सुतीर्थरक्षा शोभनपुण्यक्षेत्रपालना विहिता ॥ २९४
तद्देशागतबन्दीजनमपि जैनेन्द्रवाक्यमुपजीव्य ।
वस्त्रानपानदानाजीवितवान्नीतवान् खगृहान् ॥ २९५ व्याख्या-यो मन्त्री जैनेन्द्रस्तीर्थकृत्तस्य वाक्यमागममुपजीव्य आखाद्य, आगमवचनं श्रुत्वेत्यर्थः । तद्देशात् शिव2 परीविषयादागतो यो बन्दीजनस्तमपि, वस्त्रान्नपानदानाद् वसनाशनपानवितरणाज्जीवितवान् जीवयति स्म । तथा खगृहानात्मीयमन्दिराणि नीतवान् प्रापयत् ॥ २९५
सर्वेऽपि काकनाशं नेशुः पिशुना अनल्पमत्सरिणः ।
यस्याधिकप्रतापात् तमो यथा तापनान्नैशम् ॥ २९६ व्याख्या-यस्य श्रीकर्मचन्द्रस्य, अधिकप्रतापादतिशायितेजस्सकाशात् , सर्वेऽपि पिशुना द्विजिह्वाः, काकनाशं 30 नेशुः काका इव अनश्यन्नित्यर्थः। 'उपमाने कर्मणि च' इति येन कर्म कर्ता वोपमीयते तत्रोपपदे णमुल स्यात् । कस्मात् किमिव ! तापनाद् रवे शं निशाभवं तम इव ध्वान्तमिव । यथा रवेरुदयान्निशातमो नश्यति तथा तत्तेजसा पिशुना नेशुरिति भावः । किम्भूताः पिशुनाः ? अनल्पा बवश्च ते मत्सरिणश्च अनल्पमत्सरिणः। मत्सरिण इत्यतिशायने मत्वर्थीयविधानातू सातिशयासहनताशालिनः ॥ २९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org