Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 46
________________ २२१-२२७ ] पाठकश्रीजयसोमविरचित व्याख्या-सङ्घनमे युद्धे जेतृसिंहे मृते सति, मालदेवोऽपि जगलं देशमादाय स्वीकृत्य, दरीमिव कन्दरामित्र, उभयतः शैलशालित्वात् कन्दरोपमानं पुर्याः पुरी विक्रमनगरी गतः प्राप्तः। छायार्थस्तु जेतृसिंहे जिष्णुमुक्षे मृते सति, यः कोऽपि सिंहाश्रितदरी विशल्येवेति ॥ २२० अथ साहिसविधे गतेन तद्भीमराजकुमारेण मत्रिणा यदकारि तदाह साग्रहं साहिमभ्यर्थ्य सममेवास्य सेनया। वैरिमण्डलमुद्रास्य रणे हत्वा च तद्भटान् ॥ २२१ खदेशमात्मसात्कृत्वा शोभामासाद्य वैरिषु । वैरिनिर्यातनं सृष्ट्वा व्यावृत्तोऽयं खसाहिना ॥ २२२ - युग्मम् । व्याख्या- अयं श्रीनगराजो मन्त्री, वैरनिर्यातनं वैरशुद्धिम् , सृष्ट्वा कृत्वा, खसाहिना खीयसेरसाहिना समं व्यावृत्तो व्याजुघोट । 'सृजति करोति प्रणयतीत्यादय एकार्थाः । किं कृत्वा : साग्रहं सानुग्रहं साहिमभ्यर्थ्य याचित्वा, अस्य साहेः . सेनया सैन्येन सममेव सहैव भूत्का, बैरिमण्डलं वैरिदेशमुद्वास्य विशंस्थुलं विधाय, च पुना रणे सङ्घनमे तबूटान् मालदेवसुभठान्, हवा मारयित्वा, तथा स्वदेशं जगालावनिमात्मसात् कृत्वा खाधीनं विधाय, तथा वैरिषु शत्रुषु शोभा जयलक्ष्मीमासाथ प्राप्य, 'आग्रहोऽनुग्रहे ग्रहे, आसङ्गाक्रमणयोश्च' इत्यनेकार्थः ॥ २२१-२२२ साम्राज्यतिलकं साहिकरणाचीकरतराम् । कल्याणमल्लराजस्य खामिकृत्यपरायणः ॥ २२३ व्याख्या-खामिकृत्ये प्रभुकार्ये परायणः प्रवणः खामिकृत्यपरायणः, श्रीनगराजमन्त्री, कल्याणमल्लराजस्य साहिकरेण सेरपातिसाहिहस्तेन, साम्राज्यतिलकं राज्यविशेषकमचीकरत्तरां विशेषेण कारयति स्म ॥ २२३ ... राजानं प्रेषयामास विक्रमाख्यपुरं प्रति। . खयं त्वनुययौ साहेर्न सन्तः स्वार्थलम्पटाः ।। २२४ व्याख्या-श्रीनगराजो मन्त्री राजानं कल्याणमल्लं विक्रमाख्यपुरं प्रति प्रेषयामास मुमोच । वयं त्वात्मना 20 साहेः सेरसाहेरनुययावनुजगाम । साहिना सममगमदित्यर्थः । यतः सन्तः सत्पुरुषाः स्वार्थलम्पटा: स्वार्थलालसा न । स्वार्थमेवैकं नापेक्षन्त इत्यर्थः । ततोऽयमपि खार्थे कृतेऽपि तत्सेवां न तस्याजेति । 'लम्पटं लालसं विदुः' इति हलायधः ॥२२४ गूढमन्त्रबलाक्रान्तदुर्दान्तरिपुसन्ततिः। सम्मानितोऽधिकं योऽत्र साहिना सेरसाहिना ।। २२५ व्याख्या-यः श्रीनगराजः, अत्र डिल्लीमण्डले सेरसाहिना साहिनाऽधिकमतिशयेन सम्मानितः सत्कृतः । किम्भूतः ! गूढमन्त्रयलेन गुप्तालोचसामर्थेन, आक्रान्ता वशीकृता दुर्दान्ता [दुर्दमनीया] रिपुसन्ततिः शत्रुसमूहो येन स गूढमन्त्रबलाक्रान्तदुर्दान्तरिपुसन्ततिः ॥ २२५ आज्ञामासाद्य साहेस्तामन्यदा मत्रिनायकः। सन्तोषपोषभृज्जातः स्वदेशमभिगामुकः ॥ २२६ व्याख्या-अन्यदा अन्यस्मिन् काले, मन्निनायकः सचिवमुख्यः श्रीनगराजा, साहेस्तां खदेशे याहीति लक्षणामा- . ज्ञामादेशमासाद्य प्राप्य, खदेशं जङ्गलदेशमभि अभिमुखं गामुको गमनशीलः सन् , सन्तोषपोषं सन्तोषः स्वास्थ्यं तस्य पोषं पुष्टिं बिभर्तीति सन्तोषपोषभृज्जातः । गामुक इति 'लषपतपदस्थाभूवृषहनकमगमशभ्य उकञ्' इति शीलार्थ उकञ् । 'अभिवीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः' इति ॥ २२६ ।। तूर्ण पथि समागच्छन् मन्त्री पूर्णमनोरथः । अजमेरपुरे खर्गमगात् पण्डितमृत्युना ॥ २२७ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122