Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 53
________________ मन्त्रिकर्म चन्द्रवंशावलीप्रबन्ध | [ २६७ - २७१ व्याख्या - अन्येऽपरे लोकपालाः सोमयमवरुणकुबेराख्याः, महीतले भूतले, आशामेदादाशानां पूर्वादिदिशां भेदाद् भिन्नतया भवन्ति । प्राच्याः सोमः, दक्षिणस्या यमः, पश्चिमाया वरुणः, उत्तरस्याः कुबेरोऽधिपतिरिति दिग्भेदात् ते लोकपालाः, नूनं निश्चितमयं प्रत्यक्षोपलभ्यमानः श्रीरायसिंहः, आशासम्पूरणाद् वाञ्छाप्रपूरणाद्, अद्भुतो नवो लोकपालः । अयमपि लोकपालस्तेऽपि लोकपालाः । परं त आशाभेदाल्लोकपालाः, अयं त्वाशापूरणादित्यद्भुतत्वमस्य । 'आशा ककुभ • तृष्णायाम्' इत्यनेकार्थः ॥ २६६ ४४ व्याख्या - यः श्रीरायसिंहः, वर्धमानाभिर्वृद्धिमासादयन्तीभिः, कलाभिः शिल्पैः, सन्ततं निरन्तरम् । पितृराज्यं कल्याणमल्लनृपसाम्राज्यमेव सुधाम्भोधिः क्षीरसागरस्तं वर्धयामास वर्धयति स्म । किम्भूतः ? राजेव चन्द्र इव, विराजितः • शोभमानः । राजाऽपि कलाभिः षोडशांशरूपाभिर्वर्धमानाभिः सुधाम्भोधिं वर्धयत्येव । 'कला स्यात् कालशिल्पयोः । कलने मूलरैवृद्धौ, षोडशांशे विधोरपि ।' इति ॥ २६७ पितृराज्यसुधाम्भोधिं वर्धयामास सन्ततम् । कलाभिर्वर्धमानाभिर्यो राजेव विराजितः ॥ २६७ 25 व्याख्या - मी श्री कर्मचन्द्रः, श्रीराजसिंहनृपतेः साहाय्यं साहायकमवाप्य प्राप्य, सारबलेन प्रधानसैन्येन, 1s कलितः सहितः सन्, सौभाग्यवान् सौभाग्यं जनवाल्लभ्यं तद्वान्, जज्ञे बभूव । सुभगो जात इत्यर्थः । किम्भूतः ? भाग्येन भागधेयेन, वर्धमानो वृद्धिमासादयन् । 'सहायाद्वा' इति वुञ् भावकर्मणोः साहायकम्, पक्षे यञ् साहाय्यमिति ॥ २६८ राज्ञः कल्याणमल्लस्य सुदृष्ट्या कुमराश्रयात् । मनीशः साहसी सोऽभूत् सिंहः प्रक्षरितो यथा ॥ २६९ श्रीराजसिंहनृपतेः साहाय्यमवाप्य सारबलकलितः । भाग्येन वर्धमानो मन्त्री सौभाग्यवान् जज्ञे ॥ २६८ व्याख्या - साहसं दुष्करकर्म अस्यास्तीति साहसी, स मन्त्रीशः श्रीकर्मचन्द्रः, कल्याणमल्लस्य राज्ञो नृपस्य, सुदृष्ट्या 20 शोभनदृष्ट्या, तथा कुमराश्रयात् कुमर इति लोकरूढ्या नाम कविभिरपि कैश्चित्प्रयुक्तः कुमारत्वार्थे । यल्लक्ष्यम् 'विभाव्याथ तयोर्भावं मुनिः कुमरमभ्यधात् । आतिथेयमिदं कन्या तुभ्यं योग्याय जायताम् ॥ अन्यदा कुमरोऽवादीत् सशोक इव वल्लभः । त्वत्पदे प्रहितो हन्त ! दुःखमास्ते सुहृन्मम ॥ २ इति शीलतरङ्गिण्यामृषिदत्ताधिकारे ।' तस्य आश्रय आश्रयणमङ्गीकरणं कुमराश्रयस्तस्माद् रायसिंह क्रोडीकारात्, यथेति सादृश्यार्थे, यथा सिंहः प्रक्षरितस्तथाऽभूत् । अपरिभवनीयो बभूवेति भावः ॥ २६९ Jain Education International सोऽन्यदा श्रीकुमारेण सार्धं सेवाचिकीर्षया । जलालदीसुरत्राणसमीपे गन्तुमैहत || २७० व्याख्या - स श्रीकर्म चन्द्रमन्त्री श्रीकुमारेण श्रीरायसिंहेन सार्धम्, सेवाचिकीर्षया सेवां कर्तुम्, जलालदीसुरत्राणसमीपे गन्तुं यातुमैहत अवाञ्छत् ॥ २७० कल्याणमल्लभूमीशं प्रणम्य विहिताञ्जलिः । मन्त्री विज्ञपयामास वाञ्छितं वद मां विभो ! ॥ २७१ व्याख्या - मन्त्री श्रीकर्मचन्द्रः, कल्याणमल्लभूमीशं प्रणम्य प्रणामं कृत्वा, विहिताञ्जली रचिताञ्जलिः - 'अञ्जलिमुकुलितकमलाकारी पाणी । इतीति गम्यत इति विज्ञपयामास तोषयामास । इतीति किम् ? हे विभो ! प्रभो ! वाञ्छितमिष्टं वद कथय । किमिष्टं विभोः सम्पादयामीति मां निवेदयेत्यर्थः । विज्ञपयामासेति 'मारणतोषणनिशानेषु ज्ञे'ति मित्त्वे हखत्वम्, मारणे संज्ञपयति शत्रुम्, तोषणे विष्णुं विज्ञपयाम्यहम्, निशाने प्रज्ञपयति शस्त्रम् ॥ २७१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122