________________
मन्त्रिकर्म चन्द्रवंशावलीप्रबन्ध |
[ २६७ - २७१
व्याख्या - अन्येऽपरे लोकपालाः सोमयमवरुणकुबेराख्याः, महीतले भूतले, आशामेदादाशानां पूर्वादिदिशां भेदाद् भिन्नतया भवन्ति । प्राच्याः सोमः, दक्षिणस्या यमः, पश्चिमाया वरुणः, उत्तरस्याः कुबेरोऽधिपतिरिति दिग्भेदात् ते लोकपालाः, नूनं निश्चितमयं प्रत्यक्षोपलभ्यमानः श्रीरायसिंहः, आशासम्पूरणाद् वाञ्छाप्रपूरणाद्, अद्भुतो नवो लोकपालः । अयमपि लोकपालस्तेऽपि लोकपालाः । परं त आशाभेदाल्लोकपालाः, अयं त्वाशापूरणादित्यद्भुतत्वमस्य । 'आशा ककुभ • तृष्णायाम्' इत्यनेकार्थः ॥ २६६
४४
व्याख्या - यः श्रीरायसिंहः, वर्धमानाभिर्वृद्धिमासादयन्तीभिः, कलाभिः शिल्पैः, सन्ततं निरन्तरम् । पितृराज्यं कल्याणमल्लनृपसाम्राज्यमेव सुधाम्भोधिः क्षीरसागरस्तं वर्धयामास वर्धयति स्म । किम्भूतः ? राजेव चन्द्र इव, विराजितः • शोभमानः । राजाऽपि कलाभिः षोडशांशरूपाभिर्वर्धमानाभिः सुधाम्भोधिं वर्धयत्येव । 'कला स्यात् कालशिल्पयोः । कलने मूलरैवृद्धौ, षोडशांशे विधोरपि ।' इति ॥ २६७
पितृराज्यसुधाम्भोधिं वर्धयामास सन्ततम् ।
कलाभिर्वर्धमानाभिर्यो राजेव विराजितः ॥ २६७
25
व्याख्या - मी श्री कर्मचन्द्रः, श्रीराजसिंहनृपतेः साहाय्यं साहायकमवाप्य प्राप्य, सारबलेन प्रधानसैन्येन, 1s कलितः सहितः सन्, सौभाग्यवान् सौभाग्यं जनवाल्लभ्यं तद्वान्, जज्ञे बभूव । सुभगो जात इत्यर्थः । किम्भूतः ? भाग्येन भागधेयेन, वर्धमानो वृद्धिमासादयन् । 'सहायाद्वा' इति वुञ् भावकर्मणोः साहायकम्, पक्षे यञ् साहाय्यमिति ॥ २६८ राज्ञः कल्याणमल्लस्य सुदृष्ट्या कुमराश्रयात् ।
मनीशः साहसी सोऽभूत् सिंहः प्रक्षरितो यथा ॥ २६९
श्रीराजसिंहनृपतेः साहाय्यमवाप्य सारबलकलितः । भाग्येन वर्धमानो मन्त्री सौभाग्यवान् जज्ञे ॥ २६८
व्याख्या - साहसं दुष्करकर्म अस्यास्तीति साहसी, स मन्त्रीशः श्रीकर्मचन्द्रः, कल्याणमल्लस्य राज्ञो नृपस्य, सुदृष्ट्या
20 शोभनदृष्ट्या, तथा कुमराश्रयात् कुमर इति लोकरूढ्या नाम कविभिरपि कैश्चित्प्रयुक्तः कुमारत्वार्थे । यल्लक्ष्यम्
'विभाव्याथ तयोर्भावं मुनिः कुमरमभ्यधात् । आतिथेयमिदं कन्या तुभ्यं योग्याय जायताम् ॥
अन्यदा कुमरोऽवादीत् सशोक इव वल्लभः । त्वत्पदे प्रहितो हन्त ! दुःखमास्ते सुहृन्मम ॥ २
इति शीलतरङ्गिण्यामृषिदत्ताधिकारे ।' तस्य आश्रय आश्रयणमङ्गीकरणं कुमराश्रयस्तस्माद् रायसिंह क्रोडीकारात्, यथेति सादृश्यार्थे, यथा सिंहः प्रक्षरितस्तथाऽभूत् । अपरिभवनीयो बभूवेति भावः ॥ २६९
Jain Education International
सोऽन्यदा श्रीकुमारेण सार्धं सेवाचिकीर्षया । जलालदीसुरत्राणसमीपे गन्तुमैहत || २७०
व्याख्या - स श्रीकर्म चन्द्रमन्त्री श्रीकुमारेण श्रीरायसिंहेन सार्धम्, सेवाचिकीर्षया सेवां कर्तुम्, जलालदीसुरत्राणसमीपे गन्तुं यातुमैहत अवाञ्छत् ॥ २७०
कल्याणमल्लभूमीशं प्रणम्य विहिताञ्जलिः ।
मन्त्री विज्ञपयामास वाञ्छितं वद मां विभो ! ॥ २७१
व्याख्या - मन्त्री श्रीकर्मचन्द्रः, कल्याणमल्लभूमीशं प्रणम्य प्रणामं कृत्वा, विहिताञ्जली रचिताञ्जलिः - 'अञ्जलिमुकुलितकमलाकारी पाणी । इतीति गम्यत इति विज्ञपयामास तोषयामास । इतीति किम् ? हे विभो ! प्रभो ! वाञ्छितमिष्टं वद कथय । किमिष्टं विभोः सम्पादयामीति मां निवेदयेत्यर्थः । विज्ञपयामासेति 'मारणतोषणनिशानेषु ज्ञे'ति मित्त्वे हखत्वम्, मारणे संज्ञपयति शत्रुम्, तोषणे विष्णुं विज्ञपयाम्यहम्, निशाने प्रज्ञपयति शस्त्रम् ॥ २७१
For Private & Personal Use Only
www.jainelibrary.org