________________
२७२-२७७ ]
पाठक श्री जय सोमविरचित
धराधीशोऽवदत् सर्वं वस्तु वेविद्यतेऽद्य मे । उद्यमस्तु त्वया कार्यः पूर्वजेप्साप्रपूरणे ॥ २७२
I
1
व्याख्या - मन्त्रिणं प्रति धराधीशः कल्याणमल्लोऽवदत् अब्रवीत् - हे मन्त्रिन् ! सर्व वस्त्वद्य मे मम वेविद्यते अतिशयेन विद्यते वेविद्यते । विदिंच् सत्तायां यङि रूपम् । तत्रार्थे न काऽपि स्पृहा । परन्तु विशेषे विशेषेण पूर्वजस्य श्रीविक्रमभूपतेर्येप्सा वाञ्छा, तस्याः प्रपूरणे निष्ठानयने, त्वया मन्त्रिणोद्यम उद्योगः कार्यः । ईप्सेति - 'आप्लं व्याप्तौ', आपूज्ञपीतीत्वमभ्यासलोपः । अः प्रत्ययादिति प्रत्ययान्तधातोर्भावादौ स्त्रियामः स्यात् । वाञ्छार्थस्तु क्रियाकलाप उक्तः - 'इच्छति वाञ्छति काङ्क्षति कामयते लिप्सते वष्टि ईप्सत्यपेक्षते चेत्यादि ॥ २७२
तामेव पूर्वजेच्छामाह -
यद्येकमपि घटिकां गवाक्षमारुह्य सुभटपुरदुर्गे । तिष्ठामि सारणेश्वर ! तदा करिष्ये कमलपूजाम् ॥ २७३
व्याख्या - हे सारणेश्वर ! यदि चेदेकामपि घटिकां सुभटपुरदुर्गे योधपुरकोट्टे, गवाक्षं वातायनमारुह्य अध्यास्य तिष्ठामि तदा त्वत्पुरः कमलपूजां लोकरूड्या शिरसाऽचम्, करिष्ये विधास्ये ॥ २७३
दुःसाधामिति सन्धां सफलयितुं विक्रमाह्रराजस्य । श्रीराजसिंह सहितोऽनु चचार जलालदीसाहिम् ॥ २७४
व्याख्या - इति पूर्वोक्तां योधपुरदुर्गगवाक्षावस्थानलक्षणाम्, विक्रमाहृराजस्य विक्रमनृपतेः, दुःसाधां दुःखेन साध्यत इति दुःसाधा ताम्, सन्धां प्रतिज्ञाम्, सफलयितुं सफलीकर्तुम्, श्रीराजसिंहसहितः श्रीकर्मचन्द्रमन्त्री जलालदीसाहिमकबरपातसाहिमनु चचार | साहेः समीपे जगामेत्यर्थः । अनु सन्निधौ -
'अनु लक्षणवीप्सेथम्भूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥ 'सन्धा स्थिति - प्रतिज्ञयोः ॥ २७४
Jain Education International
सेवाकृत्यविधानैस्तथाऽधिकं स्वामिमानसं येन ।
विहितं प्रमोदपात्रं यथा तदन्यत्र न च रेमे ॥ २७५
४५
व्याख्या - येन श्री कर्मचन्द्रेण श्रीराजसिंहसहितेन, सेवा च परिचर्या, कृत्यानि च वैरिप्रतिघातादीनि तेषां विधानैः करणैः, तथा तेन प्रकारेण, स्वामिमानसं साहिचित्तम्, अधिकमतिशयेन प्रमोदपात्रं प्रीतिभाजनं विहितम् । यथा तत् साहिमानसम्, अन्यत्रोम्बरादौ न च रेमे न च चिक्रीड । तस्मिन्नेत्र मन्त्रिणि साह्लादं मन आसीदिति भावः ॥ २७५
यद् यद् विषमं कृत्यं श्रीसिंह बलान्महामतिर्मन्त्री ।
तत्तत् साहिनियुक्तं साधितवान् लीलयैवाहो ! ॥ २७३
व्याख्या – महामतिर्महाधिषणो मन्त्री श्रीकर्मचन्द्रः, यद्यत् को ग्रहणादि विषमं कठिनं कृत्यं श्रीसाहिनियुक्तं श्री अकबरपातसाहिना दत्तं, तत् तत् कृत्यं, श्रीसिंहबलात् श्रीराजसिंहसामर्थ्यात्, लीलयैव क्रीडयैव, साधितवान्निष्पादितवान् । अहो इति विस्मये ॥ २७६
साहिप्रसादयोगाद् योधपुराधीशतां समासाद्य ।
कल्याणमल्लराजो येन गवाक्षे पुरा न्यस्तः ॥ २७७
ब्याख्या - येन श्रीकर्मचन्द्रेण साहिप्रसादयोगाद्, योधपुराधीशतां योधपुरैश्वर्यम्, समासाद्य प्राप्य, कल्याणमल्लराजो गवाक्षे योधपुरवातायने, पुरा सकलकृत्य करणात् पूर्वं न्यस्तः स्थापितः ॥ २७७
For Private & Personal Use Only
5
10
15
20
30
www.jainelibrary.org