________________
४६
मश्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[२७८-२८४
महामात्य ! कृतं साधु त्वया सन्धाप्रपूरणात् ।
कल्याणभूपतिस्तत्र स्थित इत्यब्रवीदहो ! ॥ २७८ व्याख्या-कल्याणभूपतिस्तत्र योधपुरगवाक्षे स्थितो निषण्ण इत्यब्रवीत् उवाच । इतीति किम् ? अहो । इति विस्मये, हे महामात्य ! श्रीकर्मचन्द्र ! त्वया सन्धाप्रपूरणात् - श्रीविक्रमप्रतिज्ञानिष्ठापनात् , साधु चारु कृतम् ॥ २७८
वाञ्छितं वद यद्देयं तवेत्युक्तवति प्रभौ।
मन्त्रीशो धर्ममर्मज्ञो वदति स्म कृताञ्जलिः ॥ २७९ व्याख्या- हे मन्त्रिन् ! यत्तव देयं प्रामादि वाञ्छितमिष्टं तत् त्वं वद ब्रूहीति प्रभौ कल्याणमल्लनृपे, उक्तवति कथितवति सति, धर्ममर्म धर्मरहस्यं जानातीति धर्ममर्मज्ञो मन्त्रीशः श्रीकर्मचन्द्रः कृताञ्जली रचिताञ्जलिः, वक्ष्यमाणं वदति स्म अब्रवीत् ॥ २७९
त्वत्प्रसादान्ममास्त्येव समस्तमपि कामितम् ।
तथापि नाथ ! नाथामि धर्मकृत्यमिति प्रभुम् ॥ २८० व्याख्या-हे राजन् ! त्वत्प्रसादान्मम समस्तमपि कामितं वाञ्छितं ग्रामाश्वाद्यस्त्येव, तथापि हे नाथ ! खामिन् ! प्रभुं त्वां प्रतीति वक्ष्यमाणं नाथामि अभ्यर्थये । अभ्यर्थयते नाथति वृणोति वरयतीत्यायेकार्थाः ॥ २८०
चाक्रिकाः कुम्भकाराश्च तथा कान्दविका अपि।।
वर्षासु चतुरो मासान् स्वदेशे सन्तु निष्क्रियाः ॥ २८१ व्याख्या- हे राजन् ! चाक्रिकास्तिलन्तुदाः, कुम्भकाराः कुलालाः, कान्दविका भक्ष्यकाराः, एते सर्वेऽपि वर्षासु प्रावृषि, चतुरो मासान् यावत् , स्वदेश आत्मीयनीवृति, निष्क्रियाः ख-खतिलपीडनादिकर्मव्यावृत्ताः सन्तु । यथा ते चाक्रिकादयः खकर्म वर्षासु कर्तुं न लभन्ते तथा आदेष्टव्यमिति भावः ॥ २८१
अदेयो राजदेयोंऽशो मालाख्यो वणिजां पुरे।
तथा शुल्केऽपि तुर्योऽश एडकादिकरोऽपरः ॥ २८२ व्याख्या- हे राजन् ! वणिजां वाणिजानां पुरे नगरे, मालाख्यो राजदेयः अंशो विभागो न आदेयो ग्राह्यः, तथा शुल्केऽपि तुर्यस्तुरीयः अंशो न आदेयः । शुल्कं घट्टादिदेयम् । तथाऽपरोऽन्य एडका उरभ्रास्त आदौ येषामजादीनां त एडकादयस्तेषां करो राजग्राह्यो भागः सोऽपि न आदेयः ॥ २८२
एवमेवमिति प्रोक्तवाक्याङ्गीकारसूचकम् ।
वाक्यं भूपः प्रपद्याभूदू वाञ्छितार्थविधायकः ॥ २८३ व्याख्या-भूपः श्रीकल्याणमल्लः, प्रोक्तं मन्त्रिणा कथितम्, यद्वाक्यं करमोक्षणादिवचनं तस्य योऽङ्गीकारः खीकारः, तत्सूचकं तत्पशुनं प्रोक्तवाक्याङ्गीकारसूचकं एवमेवमिति वाक्यम्, प्रपद्य स्वीकृत्य, वाञ्छितार्थस्य कामितार्थस्य विधायकः कर्ताऽभूत् । एवमेवमिति राभस्ये (रभसो हर्षः) द्विरुक्तिः। प्रश्नावधारणार्थ एवमिति । एवमुपमानोपदेशप्रश्नावधारणप्रतिज्ञानेषु ॥ २८३
दत्तमेतन्मयाऽमात्य ! याचितं त्वमतः परम् ।
अयाचितमिदं प्रीतिप्रदेयं स्वीकुरु स्वतः॥ २८४ व्याख्या-हे अमात्य ! मन्त्रिन् ! एतत् पूर्वोक्तं मया याचितमभ्यर्थितं दत्तम् । अतः परमेतन्मार्गितदानादूर्ध्वम् , खतः खयमिदं वक्ष्यमाणम् , प्रीत्या प्रमोदेन, देयं वितरणीयम् , अयाचितं त्वया स्वमुखेनामार्गित स्वीकुर्वङ्गीकुरु ॥ २८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org