________________
२६० - २६६ ] पाठकश्रीजयसोमविरचित
४३ व्याख्या-स पुण्यात्मा - पुण्यः पावन आत्मा यस्याऽसौ पुण्यात्मा श्रीसङ्ग्रामः, एवममुना प्रकारेण, श्रीजिनशासनसमुन्नतिं श्रीजिनशासनोदयम् , सर्वतः सर्वासु दिक्षु, समाधाय संस्थाप्य, कलिकाले कलियुगे, अकलङ्को निरपवादः सन् , कालवशोऽभूत् सुरालयं प्रापेत्यर्थः । 'कलङ्कोऽङ्कापवादयोः कालीयसमले चापि' इत्यनेकार्थः ॥ २५९
राज्ञीरत्नावतीकुक्षिरत्नं कल्याणनन्दनाः।। रायसिंहो रामसिंहः सुरत्राणश्च पार्थिवः ॥ २६० अन्यपत्नी सुता अन्ये भांण-गोपालनामको ।
अमरो राघवः सर्वे विख्याताः सर्वदाऽभवन् ॥ २६१ - युग्मम् । व्याख्या- कल्याणनन्दनाः कल्याणमल्लनुपपुत्राः, सर्वे सर्वदा, विख्याता विश्रुता अभवन् । तानेवाह - राज्ञीरत्नावत्याः पट्टदेव्याः कुक्षौ रत्नमिव राज्ञीरत्नावतीकुक्षिरत्नं रायसिंहो रामसिंहः सुरत्राणः पार्थराट् पृथ्वीराजश्च । अन्यासां पत्नीनां सुता अन्यपत्नीसुता भांण-गोपालौ अमरो राघव इत्यादयः ॥ २६०-२६१
मन्त्रिसङ्ग्रामसंभूतौ कर्मचन्द्रयशखिनौ।
कर्मचन्द्रः क्रमान्मन्त्रकलासु कुशलोऽभवत् ॥ २६२ व्याख्या- मन्त्रिसङ्ग्रामात् सम्भूतौ जातौ मन्त्रिसङ्ग्रामसम्भूतौ, कर्मचन्द्र-यशखिनौ विद्येत इति गम्यते । कर्मचन्द्रनामा जसवन्तश्च । तत्र कर्मचन्द्रः क्रमात् क्रमेण, मन्त्रकलाखालोचशिल्पेषु, कुशलश्चतुरोऽभवद् बभूव ॥ २६२
कल्याणमल्लभूपतिरमात्यपदवीमदात् प्रयत्नेन ।
यस्य प्रशस्यलक्षणमतिविभवौ वीक्ष्य सविशेषम् ॥ २६३ व्याख्या-कल्याणमल्लभूपतिर्यस्य श्रीकर्मचन्द्रस्य, प्रशस्यं प्राप्तश्लाघं यल्लक्षणं हस्तपादादिषूर्ध्वरेखादिचिह्नम् , मतिविभवश्च बुद्धिधनम् , तौ प्रशस्यलक्षण-मतिविभवौ सविशेषं विशेषौ वैशिष्ट्यं तत्सहितं यथा स्यात्तथा, वीक्ष्य विलोक्य, प्रयत्नेन महतोद्यमेन, अमात्यपदवी मन्त्रिपदमदाद् ददौ ॥ २६३
शत्रुञ्जयेऽर्बुदे स्तम्भतीर्थे तीर्थे च रैवते ।
परिवारयुतो यात्रां यः कृत्वा पुण्यवानभूत् ॥ २६४ व्याख्या- यः श्रीकर्मचन्द्रमन्त्री, शत्रुञ्जये विमलगिरौ अर्बुदेऽर्बुदाचले स्तम्भतीर्थे रैवते चोज्जयन्ते, तीर्थे पुण्यक्षेत्रे, परिवारयुतः सपरिच्छदः, यात्रां कृत्वा पुण्यवान् सुकृत्यभूद् बभूव ॥ २६४
श्रीराजसिंहराजेन्द्रो नव्यः कल्पतरुः कलौ ।
सुमनःसन्ततिं रक्षन् यत्फलत्यनुवासरम् ॥ २६५ व्याख्या-कलौ कलियुगे, श्रीराजसिंहराजेन्द्रो नव्यो नवीनः, कल्पतरुः कल्पशाखी, यद्यस्माद्धेतोः, अनुवासरं प्रतिदिनम् , सुमनःसन्ततिं सुमनःश्रेणिम्, रक्षन् त्रायमाणः सन् , फलति निष्पद्यते । फल निष्पत्तौ । सुमनसः प्राज्ञाः पुष्पाणि च । अन्यो हि यः कल्पवृक्षो यदा फलति तदा सुमनसां पुष्पाणां सन्ततिं न रक्षति किन्तु पुष्पाण्यपनीय पश्चात् फलति । यतः
'फलस्य कारणं पुष्पं फलं पुष्पविनाशकम् । धर्मस्य कारणं पुण्यं धर्मः पुण्यविनाशकः ॥ १ ॥
अयं तु सुमनःसन्ततिं रक्षन् फलतीति नवत्वमस्य । अत्र पक्षे सुमनसां प्राज्ञानां सन्ततिं रक्षन्नसौ यथार्थितदानेन फलतीति गर्भार्थः ॥ २६५
आशाभेदाद् भवन्त्यन्ये लोकपाला महीतले । आशासम्पूरणान्नूनं लोकपालोऽयमद्भुतः॥ २६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org