Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 55
________________ ४६ मश्रिकर्मचन्द्रवंशावलीप्रबन्ध । [२७८-२८४ महामात्य ! कृतं साधु त्वया सन्धाप्रपूरणात् । कल्याणभूपतिस्तत्र स्थित इत्यब्रवीदहो ! ॥ २७८ व्याख्या-कल्याणभूपतिस्तत्र योधपुरगवाक्षे स्थितो निषण्ण इत्यब्रवीत् उवाच । इतीति किम् ? अहो । इति विस्मये, हे महामात्य ! श्रीकर्मचन्द्र ! त्वया सन्धाप्रपूरणात् - श्रीविक्रमप्रतिज्ञानिष्ठापनात् , साधु चारु कृतम् ॥ २७८ वाञ्छितं वद यद्देयं तवेत्युक्तवति प्रभौ। मन्त्रीशो धर्ममर्मज्ञो वदति स्म कृताञ्जलिः ॥ २७९ व्याख्या- हे मन्त्रिन् ! यत्तव देयं प्रामादि वाञ्छितमिष्टं तत् त्वं वद ब्रूहीति प्रभौ कल्याणमल्लनृपे, उक्तवति कथितवति सति, धर्ममर्म धर्मरहस्यं जानातीति धर्ममर्मज्ञो मन्त्रीशः श्रीकर्मचन्द्रः कृताञ्जली रचिताञ्जलिः, वक्ष्यमाणं वदति स्म अब्रवीत् ॥ २७९ त्वत्प्रसादान्ममास्त्येव समस्तमपि कामितम् । तथापि नाथ ! नाथामि धर्मकृत्यमिति प्रभुम् ॥ २८० व्याख्या-हे राजन् ! त्वत्प्रसादान्मम समस्तमपि कामितं वाञ्छितं ग्रामाश्वाद्यस्त्येव, तथापि हे नाथ ! खामिन् ! प्रभुं त्वां प्रतीति वक्ष्यमाणं नाथामि अभ्यर्थये । अभ्यर्थयते नाथति वृणोति वरयतीत्यायेकार्थाः ॥ २८० चाक्रिकाः कुम्भकाराश्च तथा कान्दविका अपि।। वर्षासु चतुरो मासान् स्वदेशे सन्तु निष्क्रियाः ॥ २८१ व्याख्या- हे राजन् ! चाक्रिकास्तिलन्तुदाः, कुम्भकाराः कुलालाः, कान्दविका भक्ष्यकाराः, एते सर्वेऽपि वर्षासु प्रावृषि, चतुरो मासान् यावत् , स्वदेश आत्मीयनीवृति, निष्क्रियाः ख-खतिलपीडनादिकर्मव्यावृत्ताः सन्तु । यथा ते चाक्रिकादयः खकर्म वर्षासु कर्तुं न लभन्ते तथा आदेष्टव्यमिति भावः ॥ २८१ अदेयो राजदेयोंऽशो मालाख्यो वणिजां पुरे। तथा शुल्केऽपि तुर्योऽश एडकादिकरोऽपरः ॥ २८२ व्याख्या- हे राजन् ! वणिजां वाणिजानां पुरे नगरे, मालाख्यो राजदेयः अंशो विभागो न आदेयो ग्राह्यः, तथा शुल्केऽपि तुर्यस्तुरीयः अंशो न आदेयः । शुल्कं घट्टादिदेयम् । तथाऽपरोऽन्य एडका उरभ्रास्त आदौ येषामजादीनां त एडकादयस्तेषां करो राजग्राह्यो भागः सोऽपि न आदेयः ॥ २८२ एवमेवमिति प्रोक्तवाक्याङ्गीकारसूचकम् । वाक्यं भूपः प्रपद्याभूदू वाञ्छितार्थविधायकः ॥ २८३ व्याख्या-भूपः श्रीकल्याणमल्लः, प्रोक्तं मन्त्रिणा कथितम्, यद्वाक्यं करमोक्षणादिवचनं तस्य योऽङ्गीकारः खीकारः, तत्सूचकं तत्पशुनं प्रोक्तवाक्याङ्गीकारसूचकं एवमेवमिति वाक्यम्, प्रपद्य स्वीकृत्य, वाञ्छितार्थस्य कामितार्थस्य विधायकः कर्ताऽभूत् । एवमेवमिति राभस्ये (रभसो हर्षः) द्विरुक्तिः। प्रश्नावधारणार्थ एवमिति । एवमुपमानोपदेशप्रश्नावधारणप्रतिज्ञानेषु ॥ २८३ दत्तमेतन्मयाऽमात्य ! याचितं त्वमतः परम् । अयाचितमिदं प्रीतिप्रदेयं स्वीकुरु स्वतः॥ २८४ व्याख्या-हे अमात्य ! मन्त्रिन् ! एतत् पूर्वोक्तं मया याचितमभ्यर्थितं दत्तम् । अतः परमेतन्मार्गितदानादूर्ध्वम् , खतः खयमिदं वक्ष्यमाणम् , प्रीत्या प्रमोदेन, देयं वितरणीयम् , अयाचितं त्वया स्वमुखेनामार्गित स्वीकुर्वङ्गीकुरु ॥ २८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122