Book Title: Mantri Karmchandra Vanshavali Prabandh Author(s): Jinvijay Publisher: Bharatiya Vidya BhavanPage 49
________________ 10 15 मनिकर्मचन्द्रवंशावली प्रबन्ध । [ २४१ - २४६ व्याख्या - यः सङ्ग्राममन्त्री याचकसार्थं वनीपकसङ्घम्, स्वर्णाश्ववस्त्रदानाद्यैर्हेम वाजिवसन वितरणादिभिः, सार्थं सधनम्, विदधे चक्रे । यः कीर्तिरा शिरेव यशोराशिरेव तटिनी निम्नगा तां कीर्तिराशित टिनीमनिवारितोऽस्खलितः प्रसरः प्रवर्तनं यस्याः साऽनिवारितप्रसरा तामनिवारितप्रसरां कृतवान् ॥ २४० 20 ४० व्याख्या - सङ्ग्राममंत्री तीर्थयात्रायाम्, यस्मिन् यस्मिन्निति सामान्यतः प्रयोगस्तेषां पुराणां बहुत्वसूचकः, यस्मिन् यस्मिन् पुर उपलक्षणाद् ग्रामेऽगच्छत् तत्र पुरे ग्रामे च तन्नमरेशिता तत्पुरनायकः, उपलक्षणाद् ग्रामनायकश्च, अस्य श्रीसङ्ग्राममन्त्रिणः सम्मुखागमनेनाभिमुखसमागमनेन, प्रवेशोत्सवं पादप्रसारमातनोद् विस्तारयामास ॥ २४२ वलमानो महामन्त्री चित्रकूटमुपागतः । रानकोदयसिंहेन विशिष्य बहुमानितः ॥ २४३ व्याख्या - वलमानस्तीर्थयात्रातो व्याघुट्य आगच्छन्, महामन्त्री श्रीसङ्ग्रामः, चित्रकूटमुपागतः प्राप्तः सन्, रानकोदय सिंहेन राणोदय सिंहेन, विशिष्य विशेषेण बहुमानितः सत्कृतः ॥ २४३ ग्रामव्रजान् गजानश्वान् खामिधर्मधनाग्रणीः । सञ्जग्राहाग्रहाद् ग्रायमाणानपि न योऽमुना ॥ २४४ व्याख्या - यः श्रीसङ्ग्राममन्त्री, अमुना उदयसिंहेन, आग्रहादनुग्रहेष्ण, ग्रामवजान् ग्रामसमूहान् तथा गजान् हस्तिनः, तथा अश्वान् वाजिनः, ग्राह्यमाणानपि स्वीकार्यमाणानपि न सञ्जग्राह न अगृह्णात् । राणोदयसिंहेन बहूक्तं यद् - 'हे महामन्त्रिन् ! एतान् ग्रामादीन् त्वं खीकुरु', परमसौ न स्वीकृतवान् । तत्र हेतुमाह यतः किम्भूतः खामिनो धर्मः खामिधर्मः स एव धनं येषां ते स्वामिधर्मधनास्तेषां मध्येऽयणीमुख्यः खामिधर्मथनामणीः, अयमधिकः खामिधर्मेत्यर्थः । यो हि स्वामिधर्मा भवति 25 स परकीयप्रामादिग्रहणेन न परसेवां विदुधीत । अत एवासौ तद्ब्राह्यमाणानपि तान् न स्वीचकारेति तात्पर्यार्थः । ' आग्रहो - ऽनुग्रहेग्रहे, आसङ्गाक्रमणयोः' इति ॥ २४४ यात्रां विधातुकामोऽयं येषु येषु पुरादिषु । जगाम तेषु सर्वेषु सच्चक्रे धार्मिकव्रजम् ॥ २४१ व्याख्या - अयं श्रीसङ्ग्राममन्त्री, यात्रां विमलाद्रिमुख्यतीर्थेषु विधातुकामः कर्तुकामः, येषु येषु पुरादिष्वादिशब्दाद् ग्रामेषु जगाम अगच्छत् पादावधारणमकरोदिति यावत् । यच्छब्दे पुनरावृत्तिर्न तच्छब्दे । यथा यो यो धूमवान् सोऽग्निमानित्यादिष्विवात्र तच्छन्दैकस्यैव प्रयोगः कविना प्रयुक्तः । तेषु सर्वेषु पुरादिषु धर्मे चरन्ति धार्मिकास्तेषां व्रजं वृन्दं सच्च लम्भनिकादानेन सत्कृतवान् ॥ २४१ यस्मिन् यस्मिन् पुरेऽगच्छत् तत्र तन्नगरेशिता । सम्मुखाममनेनास्य प्रवेशोत्सबमातनोत् ॥ २४२ राज्ञा कल्याणमल्लेनाप्रतिमल्लेन तेजसा । आहूतः सन् समं वार्तां कृत्वा श्रीमाल भूभुजा ॥ २४५ सेनापरिवृतः प्रौढप्रतिभाप्रतिभोऽधिकम् । मध्यदेशमनाध्यास्याऽऽययौ यो निजमण्डले ॥ २४६ – युग्मम् । व्याख्या - यः सङ्ग्राममंत्री कल्याणमल्लेन राज्ञा नृपेण, आहूत आकारितः सन्, अन्तराले श्रीमालभूभुजा मालदेवेन समं वार्ता किंवदन्तीं कृत्वा, सेनापरिवृतश्चभूपरिकरितः सन् मध्यदेशं योधपुरदेशमनाध्यास्य अनधिष्ठाय, मध्यदेशेsaस्थानमकृत्वेत्यर्थः, निजमण्डल आत्मीयदेशे जङ्गल आययावायासीत् । किम्भूतेन कल्याणमल्लेन ! तेजसा प्रतापेन अप्रतिमल्लेन असदृशेन अधिकतेजखिनेत्यर्थः । किम्भूतो मन्त्री ! प्रौढा शास्त्रप्रवणात् प्रवृद्धा या प्रतिभा धिषणा तया प्रतिभाति ॐ शोभत इति प्रौढप्रतिभाप्रतिभः, अधिकमतिशयेन, यत एव बुद्धिमानत एव परैः सह अन्यामेव वार्तां विधाय, अन्यदेव स्वहितं कर्म अकार्षीदिति तत्रम् ॥ २४५ - २४६ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122