Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 36
________________ १४०-१५४ ] पाठकश्रीजयसोमविरचित व्याख्या-वत्सपुत्रा वत्सराजसुताः, वाल्हादेवीतनूहा वाल्हादेवीकुक्षिसम्भूताश्चत्वारोऽभूवन्निति गम्यते । किम्भूताः ! पवित्रं पावनमहं शरीरं येषां ते पवित्राङ्गाः । पुनः किम्भूताः! चतुराः कुशलाः, तथा चञ्चन् देदीप्यमानो यो विचारो विमर्शः, आचारः खधर्मानुष्ठानं, ताभ्यां बन्धुरा अभिरामाः ॥ १४६ तेष्वाथः कर्मसिंहाख्यो वरसिंहस्तथाऽपरः। नरसिंहो नृणां रनं रनसिंहोऽपरः पुनः ॥ १४७ व्याख्या-तेषु वत्सराजपुत्रेषु मध्ये आयो ज्येष्ठः, कर्मसिंहाख्यः सुतः, तथाऽपरो द्वितीयो वरसिंहा, तथाऽपरो नरसिंहः । किम्भूतः ! नृणां मनुष्याणां मध्ये रत्नमुत्कृष्ट इत्यर्थः । अपरः पुना रत्नसिंहः ॥ १४७ भार्या कोतिगदेवीति कर्मसिंहस्य मत्रिणः। राजा सूर्योऽथ संसारचन्द्रश्चेति सुतात्रयः ॥ १४८ व्याख्या-कर्मसिंहस्य मत्रिणः कोतिगदेवीतिनाम्नी भार्या रामा । तथा राजा सूर्यः संसारचन्द्रश्चेति ।। त्रयः सुताः ॥१४८ मधिराजधराख्यस्य माला-पीथाभिधौ सुतौ।। जयताख्योऽपरापुत्रो मान्यः संसारचन्द्रसूः ॥ १४९ पुत्राश्च रनसिंहस्य भार्यादयसमुद्भवाः। वस्तुपालो रायपालो नूराहो मण्डनादिमः ॥ १५० भीम-राज-अखा-बहरा-चाचा-पश्चाननाभिधाः।। दूदा-साना-जिणूं-गउडा नरसिंहसुता नव ॥ १५१ - त्रिभिर्विशेषकम् । व्याख्या-मुगमा । नवरमपरस्या अन्यस्या मनिराजधरभार्यायाः पुत्रः ॥ १४९ ॥ किम्भूतो नूराबो मन्त्री? । मण्डन आदिमः प्रथमो यस्य स मण्डनादिमः ॥ १५०॥ मीमराजाचा नव नरसिंहसुता जाता इति गम्यते ॥ १५१ श्रीविक्रमधराधीशवंशेऽभूद् भाग्यशेवधिः। लूणकर्णो लसद्वर्णः प्रतापलुष्टशात्रवः ॥१५२ व्याख्या-श्रीविक्रमधराधीशस्य वंशे लूणकर्णोऽभूत् । किम्भूतः ? भाग्यशेवधिर्भागधेयनिधिस्तथा लसन् देदीप्यमानो वर्णो यशो यस्येति लसद्वर्णः । तथा प्रतापेन तेजसा लुष्टा दग्धाः शात्रवा वैरिणो येन स प्रतापप्लुष्टशात्रवः ॥ १५२ आकर्णितः पुरा कर्णः सकर्णैरीक्षितोऽधुना। दानाधिकतया लब्धावतारोऽयं स एव किम् ? ॥ १५३ ।। व्याख्या-पुरा पूर्व, सकर्णैर्विद्वद्भिः सश्रोत्रैरथवा सहृदयैः, कर्णः कर्णनृप आकर्णितः श्रुतः । अधुना साम्प्रतमयं लूणकर्णः, स एव पूर्वमुत्पन्नः कर्ण एव, दानाधिकतया दानाधिक्येन, लब्धोऽवतारो जन्म येन स लब्धावतारः । किमिति प्रश्न ईक्षितो दृष्टः । अदोलूणकर्णनिभेन स एव कर्णो दानशौण्डत्वेन पुनर्लब्धावतारोऽवगम्यत इति भावः ॥ १५३ वीरसूः समभून्माता येन जातेन सूनुना। खगधाराजले यस्यारयो मग्नाः स्वगौरवात् ॥ १५४ व्याख्या-येन लूणकर्णेन, जातेनोत्पन्नेन, सूनुना पुत्रेण, माताऽम्बा वीरसूः समभूज्जाता । 'वीरमाता तु वीरसूः । वीरं सूते वीरसूः। यस्य लूणकर्णस्य, खड्गधारैव जलं खङ्गधाराजलं, तस्मिन्नरयः शत्रवः, खगौरवादात्मीयगुरुतया, मग्ना बुडिताः। अन्योऽपि यो गुरुर्भवति स एव जले मज्जति । एवं तेऽप्यसिधाराम्भसि गौरवान्ममजुः । यदि गौरवं तेषां नाभविष्यत्तदा तत्पादपतनमकरिष्यन् , तथाऽऽचरणाभावात् तत्खनधाराजले नामङ्खयन् । परं गौरवादसहिष्णवः सन्तो रणात् तत्करे मृत्युमापुरित्यर्थः ॥ १५४ 20 Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122