Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 40
________________ पाठक श्रीजयसोमविरचित मी कृत्वा जिनचर्चा स्मृत्वा पश्चनमस्कृतिम् । साकारानशनं धृत्वा सङ्ग्रामं समुपेयिवान् ॥ १७६ व्याख्या - तस्मिन्नवसरे मन्त्री श्रीकर्मसिंहः, जिनस्य तीर्थकृतोऽर्चायाः प्रतिमाया अर्चां पूजां कृत्वा, तथा पश्चनमस्कृतिं पश्चनमस्कारान् स्मृत्वा चिन्तयित्वा तथा आकारैः - 'अन्नत्थणा भोगेणं सहसागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं' इत्येवंरूपैश्चतुर्भिः सहितं साकारं यदनशनं प्रायस्तद् धृत्वा, सङ्ग्रामं समुपेयिवान् प्राप्तः । 'अर्चा पूजा प्रतिमाऽपि च' ' इत्यनेकार्थः ॥ १७६ १७६ - १८३ ] अर्हत्सिद्धानगारार्हद्धर्मरूपाणि सादरम् । चत्वारि शरणान्येष समादाय दयान्वितः ॥ १७७ लूणकर्णमहीजानेः पुरस्तादस्तसाध्वसः । सुरालयमलञ्चक्रे खामिधर्मधुरन्धरः || १७८ – युग्मम् । व्याख्या - एष कर्मसिंहो मन्त्री, सादरं साग्रहम्, अर्हत्सिद्धानगाराई द्धर्मरूपाणि चत्वारि शरणानि समादाय गृहीत्वा, लूणकर्णमहीजानेः पुरस्तादग्रे, सुरालयं स्वर्गमलचक्रेऽलङ्कृतवान् । किम्भूतः ? दयया कृपयाऽन्वितः सहितो दयान्वितः । पुनः किम्भूतः १ – अस्तं ध्वस्तं साध्वसं दरो येन सोऽस्तसाध्वसः । पुनः किम्भूतः ? स्वामिधर्मधुरन्धरः स्वामिधर्मधौरेयः खामिधर्मनिर्वाहक इत्यर्थः । धुरां धारयति धुरन्धरः ॥ १७७-१७८ तथा प्रतापसिंहस्य पुरतो रणकर्मणा । राजा-मेघादिमश्रीशाः परलोकमिहाऽऽश्रयन् ॥ १७९ व्याख्या - तथेति समुच्चये । इह सङ्ग्रामे, राजा - मेघादिमश्रीशाः, प्रतापसिंहस्य कुमारस्य, पुरतोऽग्रे, रणकर्मणा सङ्ग्रामकृत्येन, परलोकं परभवमाश्रयन्नाशिश्रियः ॥ १७९ स्वयां राज्यश्रियं कर्णो जेतृसिंहे नृपोऽदधात् । बृहद्भानाविव स्वीयं भानुर्भानुं निशामुखे ॥ १८० व्याख्या – कर्णः पदैकदेशे पदसमुदायोपचाराहूणकर्णः, स्वीयामात्मीयां राज्यश्रियं राज्यलक्ष्मी, जेतुसिंहे नृपेऽदधाद् धारयति स्म । कः कस्मिन् कमिव ? भानुः सूर्यो निशामुखे सन्ध्यायां बृहद्भानौ वह्नौ स्वीयं भानुं ज्योतिरिव । यथा भानुः सन्ध्यायां स्वीयं तेजो वह्नौ निधाय गच्छति तथाऽयमपि स्वसाम्राज्यं जेतृसिंहे न्यधादिति । 'भानुरंशौ खौ दिने ' इत्यनेकार्थः ॥ १८० ३१ जेतृसिंहे खसाम्राज्यं शासति श्वापदा इव । राजानोऽन्ये भयान्नेशुः कान्दिशीका दिशोदिशम् ॥ १८१ Jain Education International तत्सुतरत्नं लोके प्रथमः कल्याणमल्लराजोऽभूत् । श्रीमालदेव-भीमा ठाकुरसी - काहनामानौ ॥ १८२ व्याख्या - तस्य जेतृसिंहस्य, सुतरत्नं पुत्ररत्नं, लोके विश्वे, प्रथमो मुख्यः, कल्याणमल्लराजोऽभूत् । तथा श्रीमालदेव-भीमौ ठाकुरसी का नामानौ ॥ १८२ कसमीरदेविजाताः पञ्चामी पाण्डवा इवापूर्वाः । व्यसनविमुक्ता दुर्योधनप्रियाः सन्त्यमी यस्मात् ॥ १८३ व्याख्या - जेतृसिंहे राज्ञि, स्वसाम्राज्यं स्वप्रभुतां, शासति पालयति सति, अन्ये राजानः, श्वापदा इव व्याला इव, कान्दिशीका भयेन पलायिता दिशोदिशमेकस्या दिशोऽन्यां दिशं भयाद् भीतेर्नेशुः पलायाञ्चक्रिरे । कां दिशं व्रजामीत्याकुलः कान्दिशीकः पृषोदरादित्वात्साधुः ॥ १८१ For Private & Personal Use Only 18 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122