Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 35
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [१३८-१४६ श्रीदेवराजनगरे यः स्तूपे कुशलसूरिसुगुरूणाम् । विक्रमपुरतो यात्रां विदधे परिवारपरिकरितः॥१३८ व्याख्या-यो वत्सराजः, परिवारपरिकरितः परिच्छदसहितः सन् , श्रीदेवराजनगरे कुशलसूरिगुरूणां श्रीजिनकुशलसूरीणां स्तूपे यात्रां विदधे चकार । 'उच्छ्रितो मृदादिविकारः स्तूपः' ॥ १३८ बहुमानितोऽधिकं यो मौलत्राणाधिपेन बहुवारान् । सतुरगवरपश्चाङ्गप्रसाददानेन तुष्टेन ॥ १३९ व्याख्या-यो वत्सराजः, मौलत्राणाधिपेन मौलवाणखामिना साहिना, तुष्टेन हृष्टेन सता, सतुरगवरं प्रधानाश्वसहितं यत् पञ्चाङ्गप्रसाददानं लोकप्रसिद्धं तेन, बहुवारान् बहीवेला, अधिकमतिशयेन, बहुमानितः सत्कृतः ॥ १३९ आतपत्रं समासाद्य तस्मादेवावनीपतेः। निजेशस्य मुदा प्रादाद, राज्यचिह्नमनुत्तरम् ॥ १४० व्याख्या-तस्मादेव मौलत्राणाधिपतेरेव, आतपत्रं छत्रं, समासाद्य प्राप्य, निजेशस्य आत्मीयखामिनो विक्रमभूपतेः, मुदा हर्षेण, अनुत्तरमुत्कृष्टं, राज्यचिहं राज्यलक्ष्म, प्रादाद् ददौ ॥ १४० दसू-तेजाभिधौ भुंणानामकश्च सुतात्रयः। देवराजस्य हंसस्तु हंसवद् वारिगोऽभवत् ॥१४१ ॥ व्याख्या-देवराजस्य देवराजमन्त्रिणो, दसू-तेजाभिधौ दसू-तेजानामको, भुंणानामकश्च त्रयः सुताः । हंसस्तु हंसराजस्तु, हंसवद् राजहंसवद्, वारिगो वारिणि पानीये गच्छतीति वारिगोऽभवत् । राजहंसोऽपि वारिंगः स्यादसावपि वारिगो जातः, लघुवया एव जले ममज्जेत्यर्थः ॥ १४१ नीम्बा-जोगा-रूपाः कर्णश्चेत्यादयो दसूपुत्राः। नीम्बासुतो विवेकी सञ्जातः खेतसीनामा ॥ १४२ व्याख्या-सुगमा ॥ १४२ पञ्चानन-शिवराजप्रमुखा जोगासुतास्ततः पश्च । यैरवाप्यादिमजिनचैत्ये क्रियते ध्वजारोपः॥१४३ व्याख्या- स्पष्टा । नवरं योंगासुतैरवाप्यादिमजिनचैत्ये श्रीआदीश्वरविहारे, ध्वजारोपश्चैत्यशिरसि पताकारोपः क्रियते ॥१४३ श्रीवन्तो जयवन्तश्च मन्त्रिरूपातनूरुहो। श्रीपालः कर्णसूर्जज्ञे श्रीपालस्य सुताः पुनः॥१४४ व्याख्या- मन्त्रिरूपातनूरुहौ मत्रिरूपापुत्रौ, श्रीवन्तो जयवन्तश्च जातौ । कर्णसूः कर्णपुत्रः श्रीपालो जज्ञे बभूव । श्रीपालस्य पुनः सुता अमी ॥१४४ रायमल्ल-सदारङ्गादयस्तेजासुतास्त्रयः। मृताः श्रीवन्तसम्भूताः पद्मसी उदयादयः ॥ १४५ व्याख्या-आदिशब्दात् सिंहो रिणमल्लश्च, तेजासुतास्त्रयोऽमी हेमराज-धनराज-माण्डणाख्याः, अन्त्यादिशब्दान्मानाख्यो ग्राह्यः । सन्ध्यकरणं तु वक्तुर्विवक्षाया अभावाद् । विवक्षितो हि सन्धिर्भवतीत्युक्तेः ॥ १४५ वत्सपुत्राः पवित्राङ्गा वाल्हादेवीतनूरुहाः । चत्वारश्चतुराश्चश्चद्विचाराचारबन्धुराः ॥ १४६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122