Book Title: Mantri Karmchandra Vanshavali Prabandh Author(s): Jinvijay Publisher: Bharatiya Vidya BhavanPage 33
________________ २४ मश्रिकर्मचन्द्रवंशावलीप्रबन्ध । [१२६ -१३२ रोहिणीवाऽभवद् राज्ञो रङ्गादेवीति सुन्दरी। चित्रं नक्षत्रवंश्या साक्षत्रवंश्येयमद्भता ॥ १२६ व्याख्या-राज्ञो विक्रमस्य रङ्गादेवीति सुन्दरी रामा अभवत् । केव ? रोहिणीव । यथा रोहिणी ब्राह्मी राज्ञश्चन्द्रस्य सुन्दरी। चित्रमाश्चर्यं यत् सा रोहिणी नक्षत्रवश्या नक्षत्रवंशोत्पन्ना,इयं रङ्गादेवी अद्भुता आश्चर्यकारिणी क्षत्रवंश्या क्षत्रवंशोत्पन्ना। आश्चर्योल्लेखस्त्वयम् - इयमपि राजपत्नी रोहिण्यपि राजपत्नी परमियं क्षत्रवंश्या सा नक्षत्रवंश्या । वस्तुतस्तु नक्षत्रं तारा तद्वंश्या । वंशे साधुर्भवो वा वंश्यः ॥ १२६ तस्याभूवन् जगत्ख्याताः सुता शूरत्वशालिनः। लूणकर्णो नरो राजा घडसी वीसलादयः ॥ १२७ व्याख्या- तस्य विक्रमभूपतेर्जगति विष्टपे, ख्याताः विश्रुताः, सुताः पुत्रा वक्ष्यमाणा अभूवन् । किम्भूताः ? शूरत्वं ॥ शौर्य शालन्ते श्लाघन्त इत्येवंशीलाः शूरत्वशालिनः । तानेवाऽऽह - लूणकर्णो नरो राजा घडसी वीसलादयः। आदिशब्दान्मेघ-केल्हणौ ॥ १२७ निवासार्थ नृपस्याऽथ कारितं शुभवासरे। दुर्ग दौरात्म्यदुर्वारवैरिवारनिवारकम् ॥ १२८ व्याख्या-अथाऽनन्तरं नृपस्य विक्रमस्य निवासार्थ निवासकृते, शशिजलराशिशरच्चन्द्र १५४१ प्रमितवत्सरे, । वत्सराजेन शुभवासरे शुभाहे दुर्ग कोट्टः कारितम् । पुनः किम्भूतं ! दौरात्म्येन दौष्ट्येन दुर्वारं वारयितुमशक्यं यद्वैरिवारं शत्रुवृन्दं तन्निवारकं तन्निषेद्धृ दौरात्म्यदुर्वारवैरिवारनिवारकम् ॥ १२८ नगरं वासयाश्चक्रे परितस्तस्य पावनम् । मन्त्रिसामन्तसबीरलोकमन्दिरसुन्दरम् ॥ १२९ सौराज्यरञ्जितामितवणिग्जनानीतपण्यसम्भारैः। परिपूर्णाभिः सततं विपणश्रेणीभिराकीर्णम् ॥ १३० कोडिमदेसरकोडिमदेसर इति नामतः समाख्यातम । विलसद्विबुधविराजितमहद्भवनश्रिया ख्यातम् ॥ १३१ - त्रिभिर्विशेषकम् ॥ व्याख्या- तस्य कोट्टस्य, परितः सर्वतः, पावनं पवित्रं पवित्रजनसंवासान्नगरस्याऽपि पावित्र्यं, कोडिमदेसर कोडिमदेसर इति नामतः समाख्यातं कथितं नगरं वासयाञ्चक्रे । कोट्टस्य परितो नगरनिवेशश्चक्रे। किम्भूतं ? मन्त्रिणो धीसखाः, 26 सामन्तास्त्रिचतुरदेशाधिपतयः, सद्वीराः शोभनशूराः लोकाः सामान्यजनास्तेषां यानि मन्दिराणि सदनानि तैः सुन्दरं चारु । पुनः किम्भूतं ? सौराज्येन शोभनराजतया, रञ्जिता आवर्जिता अमिता इयत्तयाऽपरिच्छेद्या गणनातीता इति यावत् , ये वणिग्जनाः, तैरानीतानि देशान्तराड्डौकितानि, यानि पण्यानि विक्रेयवस्तूनि तेषां ये सम्भाराः समूहास्तैः परिपूर्णाभिर्भूताभिर्विपणिश्रेणीभिट्टराजिभिः, सततं नित्यमाकीणं व्याप्तम् । पुनः किम्भूतं ? विलसन्तो विद्यया विराजमाना ये विबुधाः पण्डितास्तैर्विराजितं शोभितम् । तथा अर्हद्भवनश्रिया जिनचैत्यलक्ष्म्या ख्यातं विश्रुतम् , यत्र बहूनि जिनचैत्यानि सन्तीत्यर्थः॥१२९ - १३१ विबुधगुरोः सान्निध्यान्माहात्म्यं मन्त्रिणो महज्जज्ञे । विवुधगुरोः सान्निध्याल्लग्नस्येवातिशुद्धस्य ॥ १३२ व्याख्या- मन्त्रिणो वत्सराजस्य, विबुधगुरोः पण्डितगुरोः श्रीसोमसुन्दरवाचकस्य, सान्निध्यात् प्रभावात् , महदधिकं माहात्म्यं महिमा जज्ञे बभूव । तेन गुरुणा यवदस्मै मन्त्रिणे प्रोक्तं तत्तत् समाचरन्नसौ परां प्रौढिं प्राप्तवानिति भावः । कस्य कस्मादिव ? विबुधगुरोः सान्निध्यादतिविशुद्धस्य लग्नदोषरहितस्य लग्नस्येव । राशीनामुदयो लग्नम् । यथा अतिविशुद्धस्य लग्नस्य Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122