Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 20
________________ ४५-५० ] पाठक श्रीजयसोमविरचित श्रीकर्णसुता जननीयुता गुरूपान्तमागताः प्रातः । श्रुतहित गुरूपदेशाः प्रतिबोधं प्रापुरपरेद्युः ॥ ४५ व्याख्या- - अपरेद्युः अपरस्मिन्नहनि, श्रीकर्णसुताः समधराद्याः, जननीयुताः रत्नादेवीसमेताः, गुरूपान्तं श्रीजिनेश्वराचार्यसमीपमागताः प्राप्ताः। श्रुतहितगुरूपदेशाः - श्रुतः श्रवणातिथीकृतो हितः पथ्यो गुरूपदेशो यैस्त एवंविधाः, प्रतिबोध प्रापुः प्रतिबुद्धाः ॥ ४५ कृतसम्यक्त्वोच्चारा जिनगृहजिनबिम्बपूजनाधाराः । उद्धृतसुधर्मभाराः सञ्जाता मोदसम्भासः ॥ ४६ श्रीशत्रुञ्जयरैवतगिरिशृङ्गे विहित भव्यजनरङ्गे । यात्रां गुरूपदेशात् क्रमेण चक्रुः सदाचाराः ॥ ४७ युग्मम् ॥ व्याख्या - ते क्रमेण गुरूपदेशाच्छ्रीजिनेश्वराचार्यव्याख्यान श्रवणाद्, विहितभव्यजनरङ्गे विहितः कृतो भव्यजनानां ॥७ जिनदर्शनोद्भूतहर्षोत्कर्षान्नर्तनाय रङ्गो नृत्तभूमिर्यस्मिन्नेवंविधे, श्रीशत्रुञ्जय- रैवतगिरिशृङ्गे श्रीपुण्डरीकोजयन्ताद्रिशिखरे, यात्रां श्रीजिनेश्वरार्चनोत्सवं चक्रुरकार्षुः । 'यात्रोत्सवे गतौ वृत्तौ ' इत्यनेकार्थः । उत्सवे यथा - 'यात्रा हि चैत्रे त्रिदशेश्वराणां इति तद्वृत्तौ । अथ तद्विशेषणान्याह - किम्भूतास्ते ! कृतः श्रीमद्गुरुमुखादङ्गीकृतः सम्यक्त्वोच्चारः सम्यक्त्वालापकपाठो यैस्ते कृतसम्यक्त्वोच्चाराः । पुनः किम्भूताः ? जिनगृहे जिनबिम्बानामत्प्रतिमानां यत्पूजनं कुसुमादिभिरभ्यर्चनं तस्याधारा आश्रयाः प्रत्यहं त्रिसन्ध्यं जिनपूजां विदधाना इत्यर्थः । पुनः किंविशिष्टाः सञ्जातः प्राप्त आमोदसम्भारः प्रमोदसमूहो येषां ते 13 सञ्जातामोदसम्भाराः । पुनः किम्भूताः ! सदाचाराः शोभन श्राद्धधर्मानुष्ठानाः । 'रङ्गः स्यान्नत्तयुद्धवाः, रागः' इत्यनेकार्थः ॥ ४७ मार्गगृहीतसमुज्वलपूगफलस्थालदानतोऽनुगृहम् । जानपदैराख्याताः फोफलियेत्याख्यया तेऽपि ॥ ४८ व्याख्या - ते समधराचाश्चत्वारोऽपि, अनुगृहं गृहस्य गृहस्य पश्चात् प्रतिगृहमित्यर्थः । मार्गे श्रीतीर्थराजवर्त्मनि, गृहीतानि द्रव्यव्ययेन स्वीकृतानि, समुज्वलानि धवलानि यानि पूगफलानि क्रमुकतरुफलानि, तैर्भूतं यत्स्थालं भाजनविशेषस्तस्य दानतो वितरणात्, जानपदैर्जनपदवासिभिर्लेौकैः, 'फोफलिया' इल्माख्यया नाम्ना आख्याताः कथिताः । तत ऊर्ध्व गूर्जर देशप्रसिद्ध फोफलदानात् 'फोफलिया' इति तान् सर्वेऽपि कथयन्ति स्मेति भावः । 'पूगः क्रमुकसङ्घयोः ।' 'अनु लक्षणवीप्सेत्थम्भूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥' इति ॥ ४८ सङ्घपतयोऽथ सर्वे सञ्जातास्तेषु समधरो भ्राता । जइतीभार्यानुगतः सुखेन धर्म्म दधाति स्म ॥ ४९ स्म बभार ॥ ४९ व्याख्या - अथ श्रीशत्रुञ्जयादियात्रा करणानन्तरं सर्वे समधरायाः सङ्घपतयः परिहितेन्द्रमालाः सञ्जाताः । तेषु चतुर्षु भ्रातृषु मध्ये समधरो भ्राता जइतीत्यभिधया या भार्या तयाऽनुगतः सहितः, सुखेन धर्मं श्रीजिनोदितानुष्ठानं दधाति - ११ अथ त्रीन् भ्रातृनुपेक्ष्य प्रकृतवंशोपयोगि श्रीसमधरस्य सुतपारम्पर्य कथयन्नाह - Jain Education International तस्य सुतोऽभूद्धन्यो मान्यः श्रीतेजपाल इति नाम्ना । नारिङ्गयाख्या पुत्री तौ वृद्धिं प्रापतुः पुण्यैः ॥ ५० व्याख्या - तस्य समधरस्य सुतः पुत्रो धन्यः पुण्ययुतः । 'धन्यः पुण्ययुते' इत्यनेकार्थः । मान्यो माननीयः -सत्कारार्ह इत्यर्थः । श्रीतेजपाल इति नाम्नाऽभूद् बभूव । तथा नारिषाख्या नारिङ्गीव्यभिधाना पुत्र्यभूत् । तौ सच सा चतौ स्त्रीपुंसयोः सह वचने पुल्लिङ्गं भवति । सा च पटश्च तौ, स च शाटी च तावित्यादिवत् । तेजपाल - नारियौ पुण्यैः पूर्वकृतसुकृतैर्वृद्धिं प्रापतुर्वर्द्धनं लेभाते ॥ ५० For Private & Personal Use Only 25 33 33 www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122