Book Title: Mantri Karmchandra Vanshavali Prabandh Author(s): Jinvijay Publisher: Bharatiya Vidya BhavanPage 27
________________ 10 [S 20 १८ मन्त्रिकर्मचन्द्र वंशावली प्रबन्ध | [ ८९-९४ प्रधान ललाटं यस्य स शुभभाग्यकलितवरभालः । पुनः किम्भूतः ? अवमानितोऽवगणितः कलिकालो येन सोऽवमानितकलिकालः । कलावप्यर्थिन आहूय द्रव्यदानात् कृतयुग योग्यकर्मकर्तेत्यर्थः । यतः - 'आहूय च कृते दानं त्रेतायां गृहमागते । द्वापरे याचनादानं सेवादानं कलौ युगे ॥ ८८ तत्पुत्रो गुणपात्रं माण्डणनामा समस्ति जनमान्यः । महिमादेवीनाम्नी रामा तस्याभिरामाऽभूत् ॥ ८९ व्याख्या - तस्य मेराकस्य पुत्रो माण्डणनामा समस्ति बभूव । अस्तीति तिङन्तप्रतिरूपकमव्ययम् । किम्भूतः ? गुणानामौदार्यादीनां पात्रं भाजनम् । पुनः किम्भूतः ! जनानां मान्यः सत्कारार्हो जनमान्यः । तस्य माण्डणस्य महिमादेवीनान्यभिरामा रमणीया रामा प्रमदाऽभूत् ॥ ८९ श्रीजिनधर्मपरायणमतिरमितगुणः स तीर्थकृतयात्रः । जीवदयामृतपात्रं याचकदारिद्र्यतृणदात्रम् ॥ ९० व्याख्या - स माण्डणः, श्रीजिनधर्मे श्रीजिनधर्मविषये, परायणा प्रवणा मतिर्बुद्धिर्यस्य स श्रीजिनधर्मपरायणमतिर्बभूवेति गम्यते । किम्भूतः ? अमिता इयत्तया गणिता गुणा विनयादयो यस्य सोऽमितगुणः । तथा तीर्थेषु शत्रुञ्जयादिपुण्यक्षेत्रेषु, कृता यात्रा उत्सवो येन स तीर्थकृतयात्रः । तथा जीवदयैवामृतं पीयूषं तस्य पात्रं भाजनम्, तथा याचकानामर्थिनां दारिद्र्यमेव तृणं, तत्र दात्रं लवित्रं, याचकदारिद्र्यतृणदात्रम् । यथा दात्रेण तृणं लूयते तथा येन दानेन याचकदारिद्र्यं लूनमित्यर्थः ॥ ९० संस्मृतपूर्वज भूमिस्त्यक्त्वा यो गौर्जरावनिं मानी । वीरमपुरे निवासं चकार धृतसारपरिवारः ॥ ९१ व्याख्या - यो माण्डणः, संस्मृता स्मृतिगोचरमागता पूर्वजानां समधरादीनां भूमिरवस्थानक्षेत्रं यस्य स संस्मृतपूर्वजभूमिः, गौर्जरावनिं गौर्जरभूमिं त्यक्त्वा परित्यज्य, धृतः स्वीकृतः सारः प्रकृष्टः परिवारो बन्ध्वादिपरिच्छदो येनैवंविधः सन्, वीरमपुरे महेवापरनामनगरे, निवासमवस्थानं चक्रे व्यधात् । किम्भूतो ? मानी मानश्चित्तोन्नतिरस्यास्तीति मानी ॥ ९१ जिनपूजनसामायिकपौषधकृत्यैर्विशुद्धचेतस्कः । दानप्रीणितलोकः समभूत् सम्प्राप्तसुरलोकः ॥ ९२ व्याख्या - स इति गम्यते, स माण्डणो जिनानां यत्पूजनकृत्यं सामायिककृत्यं पौषधकृत्यं च, द्वन्द्वान्ते श्रूयमाणः कृत्यशब्दः सर्वत्र योज्यते । तैः कृत्वा, विशुद्धं विमलं चेतश्चित्तं यस्य स विशुद्धचेतस्कः, सम्प्राप्तो लब्धः सुरलोकः खर्गो येनेत्येवंविधः समभूज्जातः । स्वर्ययावित्यर्थः । किम्भूतः ? दानेन वितरणेन प्रीणितः प्रमोदितो लोको याचकजनो येन स * दानप्रीणितलोकः ॥ ९२ I तस्य सुतोऽभूत् पूतः सद्वंशसमुद्भवैर्नरैर्भूतः । ऊदाह्नः सुविवेकी गुरुवचनाम्भोदवरकेकी ॥ ९३ व्याख्या - तस्य माण्डणस्योदाह ऊदाख्यः सुतोऽभूत् । किम्भूतः ? पूतः पवित्रः । पुनः किम्भूतः ? सद्वंशे शोभना न्वये समुद्भवा जाताः सद्वंशसमुद्भवाः, तैर्नरैः पुरुषैर्भूतः स्तुतः । णूत् स्तवने । पुनः किम्भूतः ! सुविवेकी शोभनविवेकवान् । 30 पुनः किम्भूतः ? गुरुवचनमेवाऽम्भोदो मेघस्तत्र वरकेकीव प्रधानबहव गुरुवचनाम्भोदवरकेकी । यथा केकी घनध्वनिं श्रुत्वा हृष्यति तथा गुरुवचनश्रवणात् तुष्यतीति । यतः - 'स्त्रियस्तुष्यन्ति जारेण पांसुनानेन कुञ्जराः । गावो दूरप्रचारेण मयूरा घनगर्जितैः ॥ ९३ Jain Education International गुणरञ्जितभूवलया सत्कलयाऽलङ्कृता कृपानिलया । निम्नीकृतरतिरूपा नाम्ना उछरङ्गदेवीति ॥ ९४ For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122