Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 23
________________ 10 35 'मनिकर्म चन्द्रवंशावली प्रबन्ध । तत्पुत्रः सङ्घपतिर्वील्हाख्योऽभूत् प्रभूतसम्पत्तिः । वीनादेवी नाम्ना पत्नी तस्याभवद्धन्या ॥ ६४ व्याख्या - तत्पुत्रस्तस्य श्रीतेजपालस्य पुत्रः सूनुः, सङ्घपतिः सङ्घाधीशोऽभूज्जज्ञे । किम्भूतः ? प्रभूता बही सम्पत्तिः सम्पद्यस्य स प्रभूतसम्पत्तिः । तस्य वील्हाख्यस्य सङ्घपतेवनादेवीति नाम्ना, पत्नी जाया, धन्या पुण्ययुताऽभवद् बभूव ॥ ६४ कडुआ-धरणा-नन्दाभिधानपुत्रत्रयान्वितः प्रयतः । निजकधनं सत्क्षेत्रे नियोजयन् योऽजयन्मुदिरम् ॥ ६५ व्याख्या - यः प्रयतः प्रयत्नवान् धर्मकर्मणि सोद्योगः सन्, निजकधनमात्मीयद्रविणं, सत्क्षेत्रे जिनभवनादौ, नियोज - यन् व्यापारयन् ददान इत्यर्थः । मुदिरं घनाघनम्, अजयज्जिगाय । दानेन मेघमधश्चकार । दानशौण्ड इत्यर्थः । किम्भूतः ? कडुआ - धरणा-नन्दाभिधानं यत्पुत्रत्रयं तेनान्वितो युक्तः ॥ ६५ १४ शत्रुञ्जयोज्जयन्ताभिधानजैनानवद्यतीर्थेषु । यः सङ्घयुतो यात्रां चक्रे सङ्घ च सच्चक्रे ॥ ६६ व्याख्या - यो वील्हाख्यः सङ्घाधिपतिः, शत्रुञ्जयोज्जयन्ताभिधानानि यानि जैनानि जिनसत्कानि, अनवद्यतीर्थानि निष्पापपुण्यक्षेत्राणि, तेषु सङ्घयुतः साधुश्राद्धादिपूगसमेतः, यात्रां चक्रे । च पुनः सङ्घ सच्चक्रे । वस्त्रान्नपानादिदानेन सत्कृतवान् । सङ्घपूजां व्यधत्तेत्यर्थः ॥ ६६ यावज्जीवं प्रददे पारणकं पर्वपौषधस्थानाम् । श्राद्धानां विविधान्नप्रधानपक्कान्नपानाद्यैः ॥ ६७ व्याख्या - य इति गम्यते । यो वील्हाख्यः सदेशो यावज्जीवं यावदायुः, पर्वपौषधस्थानां पर्वाण्यष्टम्यादितिथयस्तत्र यत्पौषधं त्रिविधचतुर्विधाहारपरित्यागरूपो व्रतविशेषस्तत्र तिष्ठन्तीति पर्वपौषधस्थास्तेषां श्राद्धानां विविधानैर्नानाविधशालिदालिरूपभक्तैः प्रधाना ये पक्कान्नपानाद्याः सिंहकेसर- जयलब्धिका लपनश्री -घृतपूर- शर्करा - द्राक्षादिपानप्रभृतयः । आथग्र20 हणात्ताम्बूलादयः । तैः कृत्वा पारणकं पारणां प्रददे । उपोषितस्य भोजनं पारणा ॥ ६७ [ ६४-७० सुयशोराशिनिदानं दानं दत्त्वाऽर्थिदीनहीनेषु । सुमनाः सुमनाः समभूद् यः स्वीकृतसुकृतपाथेयः ॥ ६८ व्याख्या - यः श्रीवील्हाख्यः सदेशः सुमनाः प्राज्ञः, अर्थिनो याचकाः, दीनाः कृपणाः, हीना: विकलाङ्गास्तेषु, सुयशोराशिनिदानं शोभनकीर्तिश्रेणिकारणं, दानं दीयत इति दानं धनं दत्त्वा, स्वीकृतमङ्गीकृतं सुकृतमेव पुण्यमेव पाथेयं * शम्बलं येन स स्वीकृतसुकृतपाथेयः, सुमना देवः समभूत् । 'सुमनाः प्राज्ञदेवयोः, जात्यां पुष्पे ।' इत्यनेकार्थः ॥ ६८ - तदनु कडुआभिधानः सङ्घपतिः सङ्घभारधौरेयः । स्मृत्वा पूर्वज भूमिं देशेऽगान्मेदपाटाह्ने ॥ ६९ Jain Education International व्याख्या - तदनु वील्हाखर्गारोहानन्तरं, कडुआभिधानः कडुआनामा । 'ग्रामनाम्नोर्न संस्कारः' इति । सङ्घपतिः, पूर्वज भूमिं पूर्वजानां पूर्ववंश्यानां या भूमिरवस्थानक्षेत्रं तां स्मृत्वा, मेदपाटादे लोकरूढ्या 'मेवाड' इति नाम्नि देशे, अगाज्जगाम । 30 किम्भूतः ? सङ्घभारस्य वहने धौरेय इव धुरन्धर इव सङ्घभारधौरेयः । शाकपार्थिवादित्वान्मध्यपदलोपी समासः ॥ ६९ वसति स्म चित्रकूटे विचित्रकूटे स राजसम्मान्यः । समभूत्तस्य विशिष्टा जने प्रतिष्ठाऽतिभूयिष्ठा ॥ ७० व्याख्या - स कडुआभिधः सङ्घपतिः, विचित्राणि विविधानि कूटानि शिखराणि यस्मिन्नेवंविधे चित्रकूटे, राजसम्मान्यचित्रकूटाधीशसत्काराईः सन् वसति स्म अवात्सीत् । तथा तस्य कडुआकस्य, जने लोके, अतिभूयिष्ठा घना विशिष्टा श्रेष्ठा, ॐ प्रतिष्ठा गौरवं समभूत् । सकललोकोपादेय वाक्योऽभूदिति भावः ॥ ७० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122