Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 13
________________ मत्रिकर्मचन्द्रवंशावलीप्रबन्ध । [९-११ सर्वः श्रावकसङ्घः। त्रयोदशीनिशि चाभाणि शासनदेवतया-'प्रभो! खपिषि ? जागर्षि वा ।' ततो मन्दस्वरेणोक्तं भगवता- 'जागर्मि । पुनरूचे तया- 'प्रभो! शीघ्रमुत्तिष्ठ, नवैताः सूत्रकुक्कटिका उन्मोहय । भगवानाह - 'न शक्नोमि ।' देवता प्राह - 'कथं न शक्नोषि! अद्यापि चिरकालं वीरतीर्थ प्रभावयिष्यसि नवाङ्गवृत्तिं च विधास्यसि ।' भगवानवोचतू'कथं तामेवंविधशरीरो विधास्यामि ?' देवताऽवादीत् - 'स्तम्भनकपुरे सेढिकानधुपकण्ठे खङ्खरपलाशमध्ये श्रीपार्श्वनाथः स्वय। म्भूरस्ति । तत्पुरो देवान् वन्दख । येन खस्थशरीरो भवसि ।' ततः सा तिरोऽभूत् । प्रातःक्षणे प्रत्यासत्ननगरमामेभ्यः समागत्य श्रावकसङ्घन ववन्दे भगवान् । भणितं च भगवता-'स्तम्भनकपुरे पार्श्वनाथं वन्दिण्यामहे । श्राद्धैरचिन्ति- 'नून कश्चिदुपदेशः प्रभूणां येनेदमावेदयन्ति ।' ततस्तैर्भणितम् – 'वयमपि वन्दिष्यामहे ।' ततो वाहनेन गच्छतः प्रभोर्मनाक् सौस्थ्यमभूत् । ततो धवलकपुरात्पादचारेण विहृतवान् स्तम्भनकपुरम् । श्राद्धाः सर्वतः पार्श्वनाथमवलोकयन्तो गुरुणाऽभिहिताः- 'खङ्खरपलाशमध्ये विलोकयत । ते तथा चक्रुः । ततस्तत्र न दृष्टा श्रीपार्श्वनाथप्रतिमा। केवलं गोपालवचनात्तत्र 10 प्रत्यहं गौरेका समागत्य प्रतिमामूर्ध्नि क्षीरं क्षरति । ततो हृष्टैः श्राद्धैर्यथादृष्टं निवेदितं गुरोः पुरः । ततः श्रीअभयदेवसूरिस्तत्र गत्वा दर्शनमात्र एव स्तोतुं प्रववृते 'जय तिहुयण' इत्यादिभिर्द्वात्रिंशता तात्कालिकैर्नमस्कारैः । ततोऽन्त्यनमस्कारद्वयमतीवदेवताकृष्टिपरमवगम्याभिदधे देवतया- 'भगवन् ! त्रिंशताऽपि नमस्कारैरध्येतृणां भद्रं विधास्ये । अतोऽन्त्यनमस्कारद्वयमस्मदाकृष्टिकरत्वेन नः कष्टावहमित्यपसार्यताम् ।' तदनुरोधात्तथा चक्रे । विधिना चैत्यवन्दनं विदधे सङ्घन सह । ततस्तत्र कारितं श्रावकसङ्घनोत्तङ्गतोरणं देवगृहम् । ततो रोगोपशमात् सुस्थीभूतशरीरेण प्रभुणा श्रीअभयदेवसूरिणा स्थापितः 1s श्रीपार्श्वनाथः । विदधे च प्रतिष्ठा प्रसिद्धश्च महातीर्थमिति ॥ ८ ध्यात्वा देवान् गुरून् सर्वान् स्मृत्वा श्रीश्रुतदेवताम् । सान्निध्याजिनदत्तस्य गुरोः श्रीकुशलस्य च ॥९ बृहत्खरतरखच्छगच्छशोभाविधायिनः। ... श्रीचन्द्रगच्छसूरीन्द्रजिनचन्द्रगुरोगिरा ॥१० वर्णयामि चतुर्वर्णवर्णनीययशस्तते।। मनिश्रीकर्मचन्द्रस्य वंशश्रेणी यथाश्रुतम् ॥ ११ त्रिभिर्विशेषकम् । __ व्याख्या- एवं पूर्वोक्तान् देवान् - अर्हतः तथा सर्वान् उक्तानुक्तान् गुरून् तत्त्वोपदेष्ट्रन्, ध्यात्वा हृदि निधाय, तथा श्रीश्रुतदेवतां श्रुताधिष्ठातृदेवीं स्मृत्वा । तथा जिनदत्तस्य श्रीजिनदत्तसूरेः तथा श्रीकुशलस्य श्रीजिनकुशलसूरेगुरोश्च सान्निध्यात् प्रभावात् । तथा बृहत्खरतरखच्छगच्छशोभाविधायिनः । बृहदिति पदं लघुखरतरव्यावृत्तिपरम् । तत्र 'खरतर' 25 इति बिरुदप्राप्तावयं वृद्धप्रवादः __वाराणसीवास्तव्यसोमदेव-श्रीमतीसुतौ शिवदास-बुद्धिसागरनामानौ द्विजौ धर्मगवेषणया किराडूस्थाने गतौ । तत्र सत्यकीदेवता गोत्रजा ताभ्यां पृष्टा । तयोक्तमादिविष्णु-सोमेश्वरयक्षौ प्रष्टव्यौ । ततस्तौ सौराष्ट्रेषु गत्वा सोमेश्वराग्रे शिवदास आदिविष्णोः पुरो बुद्धिसागरः पञ्च पश्चोपवासान् कृत्या स्थितौ । आराधिताभ्यां ताभ्यामेवमुक्तम् - श्रीवर्द्धमान सूरिप्रोक्तो धर्मः सत्यः । ततस्तौ शीतपुरे समागतौ । तत्र सरखत्यां स्नानं विधायाऽऽयान्तौ श्रीवर्द्धमानसूरिं दृष्ट्वा धर्म * पृष्टवन्तौ । स्नाने च शिरसि मीनदर्शने प्रतिबुद्धौ कल्याणमतीभगिनीयुती दीक्षां जगृहतुः । तत्राऽऽयो भ्राता श्रीजिनेश्वरसूरिः श्रीअणहिलवाटकपत्तनकृतविहारः श्रीदुर्लभराजसदसि १०८० तमे वर्षे चैत्यवासिवर्ग विजित्य स्थापितवसतिवासः खरतरविरुदप्राप्तिपूर्वकावाप्तसुविहिताभिधानाभिधेयगच्छनायकताविलास इति । बृहत्खरतरनामा स्वच्छो निर्मलो यो गच्छो गणस्तस्य या शोभा श्रीस्तां विधत्त इत्येवंशीलस्तस्य । श्रीचन्द्रगच्छे श्रीवत्रसेनशिष्यश्रीचन्द्रसूरिवंशसमुत्पन्नसाधुसमुदाये सूरय आचार्यास्तेषां मध्य इन्द्र इवाऽधिकमहिमानिधानत्वेनेन्द्रो यो जिनचन्द्रगुरुः 5 श्रीजिनचन्द्रसूरिस्तस्य गिरा वाण्या । श्रीयुगप्रधानगुरुभिरूचे श्रीलाभपुरेऽस्मद्गुरुश्रीजयसोमोपाध्यायानां यदस्य जिन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122