Book Title: Mantri Karmchandra Vanshavali Prabandh Author(s): Jinvijay Publisher: Bharatiya Vidya BhavanPage 17
________________ मश्रिकर्मचन्द्रवंशावलीप्रबन्ध । [ २९-३३ मत्स्येन्द्रदुर्गमशठो हठात् सुदुर्ग यदादि जग्राह । राणेत्यभिधा प्रौढा तदादि तेनाऽऽददे नूनम् ॥ २९ व्याख्या-अशठ ऋजुः श्रीकर्णनृपो यदादि यदिनादारभ्य हठाद् बलात्कारेण सुदुर्गमतिशयेन दुर्गमं मत्स्येन्द्रदुर्ग मत्स्येन्द्राभिधको जग्राह गृहीतवान् । तदादि तदिनादारभ्य । नूनं निश्चितं तेन श्रीकर्णेन प्रौढाऽतिशायिनी 'राणा' इत्य• भिधा नामाऽऽददे जगृहे । राणेल्याख्यया स ख्यात इत्यर्थः । 'कोटदुर्गे पुनः समे । दुर्ग पुनर्दुर्गमे स्यात्' ॥ २९ चत्वारस्तस्य सुताश्चतुरा वेदा इवावितथवाक्याः। समधर ऊधरणाख्यो हरिदासो वीरदासश्च ॥ ३० ___ व्याख्या-तस्य श्रीकर्णस्य चत्वारश्चतुःसंख्याः सुता बभूवुरिति गम्यते । ते के समधर उधरणो हरिदासो वीरदासश्च । किम्भूताः ? चत्वारोऽपि चतुरा द्वासप्ततिकलासु कुशलाः । पुनः किम्भूताः ? वेदा इव ऋग्यजुःसामाथर्वणा इव, ॥ अवितथवाक्याः सत्यवचनाः सत्यप्रतिज्ञा इत्यर्थः । यथा वेदोक्तं वाक्यं न व्यभिचरति । उक्तं च 'वेदाः प्रमाणं स्मृतयः प्रमाणं, लोके पुराणं च यथा प्रमाणम् । विशुद्धबोधाव्यभिचारभावात् , तथा प्रमाणं शकुनागमोऽयम् ॥' तथैतेऽपि सत्यगिर इत्यर्थः ॥ ३० मार्गागच्छदतुच्छद्रविणग्रहणात् समुत्थितामर्षः। गोरीसाहिः सेनां मेषितवानन्यदा तत्र ॥ ३१ व्याख्या- अन्यदाऽन्यस्मिन् काले । 'सर्वैकान्यकियत्तदः काले दा' इति दाप्रत्ययः । तत्र मत्स्येन्द्रदुर्गमार्गे पथि आगच्छन्मालवदेशं प्रति आयात् । यत् , अतुच्छं बहुलं द्रविणं द्रव्यं कनकादिः तस्य यद्रहणं बलात्तन्नेतृन जित्वा हत्वा च खीकरणं तस्मात् समुत्थित उदयं प्राप्तोऽमर्षों यस्येत्येवंविधो गोरिसाहिः सेनां सैन्यं प्रेषितवान् मुमोच । क्रोधाज्जातो जिगीषोत्साहयुक्तो गुणोऽमर्षः। अयं भावः-अन्यदा मार्ग आगच्छत्साहः खजानकं श्रीकर्णसैनिकैर्जगृहे । ततः साहिसैन्य " तमुपद्रोतुमुपागमदिति ॥ ३१ वेष्टितमवेक्ष्य नगरं सप्तशतखजनसङ्गतः खामी । सम्मुखमगान्महान्तो मानधनाः स्युर्यतो लोके ॥ ३२ व्याख्या- तन्नगरं साहिसैनिकैर्वेष्टितं परित आक्रान्तमवेक्ष्य विलोक्य सप्तशतखजनसंयुतः सप्तशतबन्धुसहितः खामी श्रीकर्णः सम्मुखं साहिसेनाया अभिमुखं अगाद ययौ। यतो यस्माद्धेतोर्महान्तो महापुरुषा लोके विश्वे मानधना मान"श्चित्तोन्नतिः स एव धनं द्रव्यं येषां ते मानधनाः स्युभवन्ति । उक्तं च'अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ ३२ यतः- कस्तैर्जातर्जातर्भवति गुणो नाम येषु जीवत्सु । चिरमुपभुक्ता वसुधोपभुज्यते वैरिभिर्विभयैः ॥ ३३ व्याख्या- यतो यस्मात्तैर्जातैरुत्पन्नैर्जातैः पुत्रैः को गुणः क उत्कर्षः । नामेति विस्मये । येषु पुत्रेषु जीवत्सु "जीवितं बिभ्रत्सु चिरं बहुकालमुपभुक्ता पालिता वसुधा भूर्विभौर्भयरहितैरिभिः शत्रुभिरुपभुज्यते तदसाखादो गृह्यते । 'भुज् पालनाभ्यवहारयोः । 'अथो, गुणो ज्यासूदतन्तुषु । रज्जौ सत्त्वादौ सन्ध्यादौ शौर्यादौ मीम इन्द्रिये । रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे ॥ इत्यनेकार्थः । 'दोषान्यस्मिन्नुत्कर्ष' इति तद्वृत्त्येकदेशः ॥ ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122