Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 18
________________ ३४-३९] पाठक श्रीजयसोमविरचित स्वामिनि परलोकगते न दोषदोऽस्याः परोपभोगोऽपि । सूर्येऽस्ताद्रिमुपेयुषितमोभिराक्रम्यते प्राची ॥ ३४ व्याख्या - स्वामिनि प्रभौ, परलोकगते परलोकं प्राप्ते, अस्या भुवः, परोपभोगोऽपि पूर्वस्वामिनोऽन्यः परस्तेन य उपभोगः सेवनं सोऽपि न दोषदो न दोषावहः । यदा खप्रभुर्युद्धा स्वःप्राप्तो भवति तदेयं भूरन्येन चेद्भुज्यते तदा न कोऽपि दोषः । यस्मात् सूर्ये रवौ, अस्ताद्विमस्ताचलमुपेयुषि प्राप्ते, प्राची पूर्वा दिकू, तमोभिरन्धकारैराक्रम्यतेऽभिभूयते । s अत्र को दोषः । यतः - 'पातः पूष्णो भवति महतां नोपतापाय यस्मात् कालेनास्तं क इह न गताः के न यास्यन्ति चान्ये । एतावत् व्यथयति पुरा लोकबाह्यैस्तमोभिस्तस्मिन्नेत्र प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १ तथाऽत्रापि ॥ ३४ तत्सुभटाः सुतवनितादासीदासादिकं निजं निखिलम् । बालमबालमनलसात् कृत्वाऽभुस्तेऽभ्यमित्रीणाः ॥ ३५ व्याख्या - ते तत्सुभटास्तस्य श्रीकर्णस्य सुभटा योधाः, सुतवनितादासीदासादिकं निजमात्मीयं, निखिलं समस्तं बालमर्भकम्, अबाल वृद्धम्, अनलसादन्यायत्तं कृत्वा, अभ्यमित्रीणा अभ्यमित्रीया अभुर्दीप्यन्ते स्म । लोकरूढ्या 'जुं ह रं' विधाय रणायोपतस्थिरे । 'अभ्यमित्रयोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरिं व्रजन् । आभिमुख्येनामित्रानलंगामी अभ्यमित्रीणः ॥ ३५ रणरसिको रणकेलिं विधाय धैर्य निधाय निजचित्ते । स्वामी हस्त्यारूढो वोढा खर्गश्रियः समभूत् ॥ ३६ व्याख्या - रणरसिको रणकुतुकी, खामी श्रीकर्णो, निजचित्ते खहृदि, धैर्यं स्थिरतां, निधाय स्थापयित्वा रणकेलि रणक्रीडां, विधाय कृत्वा, हस्त्यारूढो गजारूढः सन्, स्वर्गश्रियः स्वर्गलक्ष्म्या, वोढा धारकः समभूज्जातः । 'दधते दधाति धरति च धारयति वहति कलयति च' इति क्रियाकलापे । रणे रसो रागोऽस्यास्तीति रणरसी । खार्थे कप्रत्यये रणरसिक इति ॥ ३६ ९. Jain Education International व्याख्या - तदनु पश्चात् श्रीकर्णस्य स्वर्गारोहानन्तरम्, श्रीसाहिसेनया श्रीगोरिपातसाहिसैन्येन, दुर्गमपि दुर्गममपि दुर्ग कोट्टो जगृहे गृहीतं स्वीकृतम् । खाज्ञा तत्र प्रवर्तितेत्यर्थः । एतदेव वचनभङ्गया स्पष्टयति - येन कारणेन, धनिकवियुक्तं खामिविरहितं स्थानं कोट्टादिसन्निवेशः, खल्पबलेनाप्यल्पसैन्येनाप्यल्पसामर्थ्येनापि वा संसाध्यं ग्राह्यम् । अयं हि महाबलसाहिस्तत्र किं वाच्यम् ॥ ३८ अथ तत्र सुतैः सहिता समुखं तस्थौ पितुर्गृहे राज्ञी । पुत्राश्चत्वारोऽपि हि क्रमतो वृद्धिं परां प्रापुः ॥ ३९ म० क० नं० प्र० २ तदवसरे कुलगेहे खसुतचतुष्टययुता गता पत्नी । प्रागेव षे (खे) डिनगरे गतविधुरे निजजनाहूता ॥ ३७ व्याख्या - तदवसरे तस्मिन् समये 'जुंहर' प्रस्तावे, प्रागेव साहिसैन्यागमनात् पूर्वमेव, गतविधुरे विलीनेष्टवस्तुवियोगे, पे (खे) डिनगरे महेवाभिधपुरोपकण्ठपुरे, निजजनाहूता स्वकुलगृहस्खजनजनाकारिता, खसुतचतुष्टययुता आत्मीय समधरा- 25 दिपुत्रचतुष्टयसमेता, पत्नी रत्नादेवी, कुलगेहे मातापितृगृहे, गताऽभूदिति गम्यते । 'विधुरं स्यात् प्रविश्लेषे विकले ' इत्यनेकार्थः । प्रविश्लेष इष्टवस्तुवियोगः ॥ ३७ दुर्गमपि तदनु जगृहे दुर्गं श्रीसाहिसेनया येन । धनिकवियुक्तं स्थानं खल्पबलेनापि संसाध्यम् ॥ ३८ For Private & Personal Use Only 10 15 20 30 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122