Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 78
________________ ४३१-४३७] पाठकश्रीजयसोमविरचित अतोऽस्मदाशयाह्लादहेतवेऽतिविशारदः। खपट्टे मानसिंहाहः स्थाप्यो युष्माभिराहतैः॥४३१ व्याख्या- हे गुरो ! अतो हेतोः, अस्मदाशयस्य अस्मच्चेतस आह्वादहेतव आनन्दनिमित्तम् , युष्माभिः श्रीपूज्यैराहतैः सादरैः, अतिविशारदोऽतिशयेन विद्वान् मानसिंहाह्वो मानसिंहनामा खपट्टे स्थाप्यः ॥ ४३१ पूज्यैरुक्तमिदं युक्तमुक्तं श्रीपातिसाहिना। ___ इष्टं वैद्योपदिष्टं चेत्याख्यातं सत्यतां गतम् ॥ ४३२ व्याख्या- पूज्यैरुक्तमिदं श्रीपातिसाहिना युक्तं न्याय्यमुक्तम् । इष्टं मनोऽभिलषितं दुग्धपानादि वैद्यनाऽप्युपदिष्टं कथितं वैद्योपदिष्टं चेत्याख्यातं कथितम् , सत्यतां नीतं तथ्यीकृतमित्यर्थः । अस्माकमेतदिष्टमासीत् श्रीपातिसाहिनाऽप्युक्तम् , ततः पयसि शर्कराक्षेप इव, पाशितेरङ्गितमिव, शिशयिषोः शय्यालाभ इव, पिपासोः पीयूषपानमिव, क्षुधितस्य भोज्यप्राप्तिरिवेत्यादि बहूक्तं गुरुभिः ॥ ४३२ साहिना धीसखः प्रोचे मन्निन् ! श्रीसूरिमन्त्रिणाम् । वदोत्कृष्टाभिधानं किं विधेयं जैनदर्शने ॥ ४३३ व्याख्या-ततः साहिना धीसखो मन्त्री प्रोचे प्रोक्तः - हे मन्निन् ! श्रीसूरिमन्त्रिणामुत्कृष्टाभिधानं प्रकृष्टं नाम जैनदर्शने जैनधर्मे किं विधेयम् ? किमिति प्रश्ने, त्वं वद ब्रूहि ॥ ४३३ __अथाऽऽख्याद्वीसखः स्वामिन् ! प्रसिद्धं जिनशासने । अस्मद्गच्छेऽपि नामास्ति पुरा हि विबुधार्पितम् ॥ ४३४ व्याख्या-अथ साहिकथनानन्तरं धीसखो मझ्याख्यात् अचीकथत्-हे खामिन् ! प्रभो! जिनशासने प्रसिद्ध विख्यातमस्मद्गच्छेऽपि श्रीखरतरगच्छेऽपि, पुरा पूर्वम् , हि स्फुटम् , विबुधैर्देवैरर्पितं दत्तं नाम आख्या, अस्ति विद्यते ॥ ४३४ किं नाम कथमाख्यातं केन कस्य गरोरिति । साहिनोक्ते च वृत्तान्तं सचिवः स्माऽऽह मूलतः॥ ४३५ व्याख्या-किं नाम विद्यते ?, कथं केन प्रकारेण आख्यातं कथितम्, केन देवेन, कस्य गुरोरिति साहिनोक्ते च सति, सचिवो मन्त्री, मूलत आदितः, आह स्म अब्रवीत् ॥ ४३५ देवेन नागदेवस्योपासितेनाष्टमादिना । युगप्रधानताव्यक्त्यै साक्षादिति विबोधितम् ॥ ४३६ व्याख्या-अष्टमादिनाऽष्टम इत्युपवासत्रयस्य संज्ञा । आदिग्रहाद् गन्धधूपदीपायुपासनोपायखीकारः । उपासितेन प्रसादितेन देवेन, नागदेवस्य श्रावकस्य, युगप्रधानताव्यक्त्यै-युगशब्देन वर्तमानकालो भण्यते, तस्मिंश्च यः प्रधानः सर्वोत्तमः स युगप्रधानस्तद्भावो युगप्रधानता, तस्या या व्यक्तिः प्रकटनं तस्यै - युगप्रधानत्वपरिज्ञानाय, साक्षात् प्रत्यक्षमिति वक्ष्यमाणं विबोधित ज्ञापितम् । 'साक्षात्प्रत्यक्षतुल्ययोः' - इत्यनेकार्थः ॥ ४३६ त्वत्करे योऽक्षरश्रेणी गुरुः प्रादुष्करिष्यति। अपाकरिष्यति स वै ज्ञेयो युगवरागमः ॥ ४३७ व्याख्या-हे नागदेव ! त्वत्करे त्वत्पाणौ, यो गुरुरक्षरश्रेणी वर्णावलिम् , प्रादुष्करिष्यति प्रकटीकरिष्यति । अपाकरिष्यति च, चेत्यध्याहियते । स गुरुः, वै विशेषेऽव्ययम् , विशेषेण, युगवरागमः - युगे वर्तमानकाले वराः प्रधाना आगमाः शास्त्राणि परिच्छेद्यतया यस्य स युगवरागमः-तत्कालवर्तमानशास्त्रपरिच्छेत्ता युगप्रधान इत्यर्थः । पुरा श्रीगिरिनारगिरौ नागदेवश्राद्धेन श्रीअम्बिका आराधिता। हस्ते 'दासानुदासा इव सर्वदेवाः' अयं श्लोको लिखितः । य एनं वाचयति स युगप्रधानः । ततो जिनदत्तसूरिभिर्वासक्षेपं कृत्वा वाचितः । ततो युगप्रधाननिर्णयो जज्ञे ॥ ४३७ www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122