Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 82
________________ पाठक श्रीजय सोमविरचित साहिप्रसादसम्प्राप्तबाद्यवादनपूर्वकम् । अमारिघोषणातोद्ये वाद्यमाने मुहुर्मुहुः ॥ ४५९ चतुर्मुखोच्चविज्ञानिजनवृन्दविनिर्मिताम् । दुकूलादर्शसौवर्णाभरणावलिभूषिताम् ॥ ४६० नन्दीं विधाय सचैत्यचतुष्टयविराजिताम् । आगमोक्तविधानेन मानसिंहाय सादरम् ॥ ४६१ श्रीजैन चन्द्रसूरीन्द्रकराम्भोजनिवासिनीम् । आचार्यपदवीं मन्त्री दापयामास साहसी ॥ ४६२ - षचिः कुलकम् । व्याख्या - साहसं दुष्करकर्म अस्य अस्तीति साहसी, मन्त्री श्रीकर्मचन्द्र:, आगमोक्तविधानेन सिद्धान्तप्रतिपादितविधिना, सादरं यथा स्यात्तथा, मानसिंहाय, श्रीजिन चन्द्रसूरीणामिदं श्रीजैन चन्द्रसूरीन्द्रं यत् कराम्भोजं पाणिपद्मं तत्र निवस- " तीत्येवंशीला श्रीजैनचन्द्रसूरीन्द्रकराम्भोजनिवासिनी, तामा चार्यपदवीम्, दापयामास दापयति स्म । क ? फाल्गुने मासे, शुक्लाय द्वितीयायां जयातिथौ, मध्याह्ने दिनयौवने; किंभूते मध्याह्ने ? योगः प्रीत्यादिः, नक्षत्रं पुष्यादिः, लग्नं राशीनामुदयस्तेषां या शुद्धिनैर्मल्यं तया समन्विते सहिते, शोभन योग नक्षत्रलग्नयुक्त इत्यर्थः । पुनः क ? सदुपाश्रये शङ्खवालगोत्रीयसाधुदेवाकारितवसतौ; किंभूते ? आहूता आकारिताः, अनेकगच्छीया अनेकगच्छसम्बन्धिनो य उपासकत्राताः श्राद्धसमूहास्तैः सुन्दरे रम्ये।तथा वस्त्राणि मखमलादीनि, आभरणानि च, अलङ्कारा मुक्ताश्च मौक्तिकानि ताभिर्मण्डिते विभूषिते; कथम् ?, साहिप्रसादेन " श्री अकबरानुग्रहेण सम्प्राप्तानि यानि वाद्यान्यातोद्यानि तेषां यद्वादनं शब्दनं तत्पूर्वकं साहिप्रसादसम्प्राप्तवाद्यवादनपूर्वकम् ; पुनः क सति ? अमारिघोषणातोये मुहुर्मुहुः पुनः पुनर्वाद्यमाने सति; किं कृत्वा ? नन्दी श्रीजिनशासनप्रसिद्धां विधाय; किंभूतां नन्दीम् ? चतुर्मुखा चासौ उच्चा चासौ तुङ्गा चासौ विज्ञानिजनवृन्देन शिल्पिलोकसमूहेन विनिर्मिता च रचिता ताम् ; तथा दुकूलानि च क्षौमाणि, आदर्शाश्च मुकुराः, सौवर्णाभरणानि च हैमालङ्कारास्तेषां या आवलिः श्रेणिस्तया भूषितामलङ्कताम् ; पुनः किंभूताम् ? सन्ति शोभनानि चैत्यानि जिनप्रतिमास्तेषां चतुष्टयेन विराजितां शोभमानाम् ॥ ४५७-४६२ जिनसिंहसूरिरिति [ तद् ] नाम न्यस्तं तिथौ द्वितीयायाम् । वृद्धिं यायात् तस्यामुदितस्येन्दोरिवैतदिति ॥ ४६३ व्याख्या - तस्यां शुक्लायां द्वितीयायाम्, उदितस्योद्गतस्येन्दोरिव चन्द्रस्येवैतन्नाम वृद्धिं यायादिति हेतोर्द्वितीयायां तिथौ, जिनसिंहरिरिति नाम न्यस्तं स्थापितम् ॥ ४६३ ४५९ - ४६५ ] अनूचानपदानुज्ञां द्वयोः कारितवानिह । द्वयोस्तु वाचनाचार्य पदवीमप्यदापयत् ॥ ४६४ व्याख्या – इह नन्द्याम्, श्रीमन्त्रिराजः, द्वयोः कोविदयोरनूचानपदानुज्ञामुपाध्यायपदव्यनुज्ञां कारितवान् । द्वयोस्तु पण्डितयोवाचनाचार्यपदवीमदापयदपीति समुच्चये ॥ ४६४ तेषु च गणिजयसोमा रत्ननिधानाश्च पाठका विहिताः । गुणविनय-समय सुन्दरगणी कृतौ वाचनाचार्यौ ॥ ४६५ Jain Education International ७३ व्याख्या - तेषु चतुर्षु मध्ये, साङ्गे प्रवचनेऽधीती गणिरुच्यते । गणयश्च ते जयसोमाश्च गणिजयसोमा अस्मद्गुरवः, ईर्याषट् त्रिंशिका - पौषधषट् त्रिंशिका - स्थापनाषट्त्रिंशिकादिग्रन्थकर्तारः । चः समुच्चये । रत्ननिधानाः साङ्गहैमशब्दानुशासनाध्येतारस्ते पाठका विहिताः । गणिशब्द उभयथाऽपि योज्यः । तथा च गुणविनयगणिश्च चम्पू - रघुवंश खण्ड प्रशस्ति - नेमिदूत - वैराग्यशतक - सम्बोधसप्ततिकादिग्रन्थ विवरणकर्ता; समयसुन्दरगणिश्च 'राजानो ददते सौख्यं' इत्येकपादस्य येन भूयांसोऽर्थः प्रतिपादितास्तौ वाचनाचार्यौ कृतौ ॥ ४६५ म० क० नं० प्र० १० For Private & Personal Use Only 20 25 30 35 www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122