Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 84
________________ ४७४-४७९] पाठकश्रीजयसोमविरचित व्याख्या-तदा तस्मिन्नवसरे मन्त्रिणा कोटीदानं दीयते यत्तद् दानं द्रव्यमित्यर्थः, कोटिसंख्यं द्रव्यमेवममुना प्रकारेण देयतयाऽङ्गीकृतं स्वीकृतम् । ईदृग्दानं केनापि महाशयेन, पदोत्सवे, पूर्व दत्तं दत्तपूर्वम् , पदोत्सवे केनापि न पुरैतावद् दानं दत्तमित्यर्थः ॥ ४७३ कोटीध्वजपदं लोकाः कृच्छ्रेणाऽऽसादयन्त्यहो। कोटिदानं तदर्थिभ्योऽनेन देयतयाऽऽदृतम् ॥ ४७४ व्याख्या-लोकाः कोटीध्वजपदम्, कृच्छ्रेण कष्टेन आसादयन्ति प्राप्नुवन्ति । अहो इति विस्मये । अनेन श्रीमन्त्रिराजेन तत्कोटिदानमर्थिभ्यो याचकेभ्यो देयतया आदृतमादद्र इति विस्मयः ।। ४७४ ततः सङ्घः समग्रोऽपि मन्त्रिराजगृहेऽभ्यगात् । यशश्चित्रं रचयितुं जनः पूजितपूजकः ॥ ४७५ व्याख्या- ततो नन्दीमहोत्सवकरणानन्तरम् , समग्रोऽपि समस्तोऽपि सङ्घः, मन्त्रिराजगृहे श्रीकर्मचन्द्रमन्दिरे, " यशश्चित्रं यशस्तिलकम् , रचयितुं कर्तुम् , अभ्यगात् सम्मुखं जगाम । यदिति गम्यते । यद् यस्माद्धेतोः, जनो लोकः, प्रजितानामर्चितानां पूजकः । यतः साहिनाऽसौ पूजितस्ततो लोका अप्येनं पूजयन्तीति भावः । 'तिलके तमालपत्रं, चित्रपुण्डविशेषकाः' इति हैम: कोषः ॥ ४७५ प्रददे सोऽपि सङ्घस्य सम्मानमधिकं ततः। अमान्योऽपि जनो मान्यो गेहायातः किमुत्तमः ॥ ४७६ व्याख्या- ततः श्रीसङ्घागमनानन्तरम् , सोऽपि मन्त्रिराजः, सङ्घस्य अधिकमुच्चैः सम्मानं सत्कारम् , प्रददे दत्तवान्। यतोऽमान्योऽप्यपूज्योऽप्यनभिमतोऽपीत्यर्थः, गेहायातः खगृहप्राप्तो जनो मान्यः पूज्यः स्याद् । उत्तमः प्रधानः किम् ! सतु विशेषतः पूज्यो भवतीति भावः । 'किमिति पृच्छाजुगुप्सयोरीषदातिशययोरपि' ॥ ४७६ यतः-आगतस्य निजगेहमप्यरेगौरवं विदधते महाधियः। __ मीनमत्र सदनं छुपेयुषे भार्गवाय गुरुरुचतां ददौ ॥ ४७७ व्याख्या- महाधियो महाबुद्धयः, अरेरपि शत्रोरपि, निजगेहं खगृहमागतस्य प्राप्तस्य, गौरवं सम्मानम्, विदधते कुर्वते । हिर्यतः, अत्र ग्रहचारविचारे मीनं सदनं गृहमुपेयुषे प्राप्ताय, भार्गवाय शुक्राय गुरुर्ब्रहस्पतिरुच्चतां ददौ । अयं भावः राह-ख्योः परं वैरं गुरु-भार्गवयोरपि । हिमांशु-बुधयोर्वैरं विवखन्-मन्दयोरपि ॥' इत्युक्तेः शुक्र-गुर्वो(रमस्ति । परं 'स्यान्मीनधन्विनोर्जीव' इत्युक्तेः-मीनो गुरोर्गृहं तत्र च यदा शुक्रः समेति तदोच्चो भवति । यदुक्तम् - "रवेर्मेष तुले प्रोक्ते चन्द्रस्य वृष-वृश्चिकौ । भौमस्य मृग-कौ च कन्या-मीनौ बुधस्य च ॥ जीवस्य कर्क-मकरौ मीन-कन्ये सितस्य च । तुला-मेषौ च मन्दस्य उच्चनीचे उदाहृते ॥" ततः खगृहे मीने समेतः शुक्रो वैर्यपि गुरुणोच्चीकृतः । हिरिति स्फुटार्थे हेतौ च । ततः खवल्लभागमने किं वाच्यम् ! ॥ ४७७ प्रवाद्य साहिवाद्यानि स्वावासे सचिवः पुनः। तुरङ्ग-करभ-वर्णवासांसि प्रददेर्थिनाम् ॥ ४७८ व्याख्या-पुनर्भूयः, सचिवो मन्त्री, खावासे खसौधे, साहिवाद्यानि श्रीअकबरातोद्यानि, प्रवाद्य वादयित्वा, अर्थिनां याचकानाम् , तुरङ्ग-करभ-स्वर्णवासांसि वाज्युष्टुहेमवस्त्राणि प्रददे विश्राणयति स्म ॥ ४७८ विशिष्टैर्वेष्टितो मन्त्री नरैः सदुपदाकरैः।। सहायोत्साहितः साहेमन्दिरं प्राप साहसी ॥ ४७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122